कादम्बरी /325
This page has not been fully proofread.
२९२
कादम्बरी ।
[ कथायाम-
धवलतां धत्ते शरीरम् । नेदमस्माभिरन्यत्र श्रुतपूर्व वा । अपनयतु नः कौतुकम् । आवे-
दयतु भवती सर्वमिदम्' इत्येवमभिहिता सा किमप्यन्तर्ध्यायन्ती तूष्णीं मुहूर्तमिव स्थित्वा
निःश्वस्य स्थूलस्थूलैरन्तर्गतां हृदयशुद्धिमिवादाय निर्गच्छद्भिः, इन्द्रियप्रसादमिव वर्षद्भिः,
तपोरसनिःस्यन्दमिव स्रवद्भिः, लोचनविषयं धवलिमानमिव द्रवीकृत्य पातयद्भिः, अच्छाच्छेः
अमलकपोलस्थल स्खलितैः अवशीर्णहारमुक्ताफलतरलपातैः अनुबद्धबिन्दुभिः वल्कलावू-
तक्कुच शिखरजर्ज रितसी करैरभिरामीलितलोचना निःशब्दं रोदितुमारेभे । तां च प्ररुदितां
दृष्ट्वा चन्द्रापीडस्तत्क्षणमचिन्तयत् --'अहो दुर्निवारता व्यसनोपनिपातानाम्, यदीदृशीम-
प्याकृतिमनभिभवनीयामात्मीयां कुर्वन्ति । सर्वथा न न कंचन स्पृशन्ति शरीरधर्माणमुप-
,
व्यप्तेजोवाय्वाकाशरूपैरारब्धं रचितमीदृशं शरीरं देहः । धवेति । धवलिमानं धत्ते दधाति । नेति ।
इदैमेतादृशमस्माभिरैदंयुगीनैरन्यस्मिन्देशान्तरे पूर्वं न दृष्टं न वीक्षितम् । नापि पूर्व कस्यचिन्मुखाच्छ्रुतमाकर्णि-
तम् । अपेति । नोऽस्माकं कौतुकं महदाश्चर्यमपनयतु दूरीकरोतु । आवेति । भवती स्वामिनी सर्वमिदं
पूर्वोक्तमावेदयतु निवेदयतु । इतीति । इत्येवंप्रकारेणाभिहिता प्रतिपादिता सा किमप्यनिर्वचनीयमन्तश्चित्ते
ध्यायन्ती चिन्तयती तूष्णीं जोषं मुहूर्तसदृशम् । अत्र सहशार्थ इवप्रयोगः । निःश्वस्य निश्वासं
मुक्त्वा । पूर्वानुभूतस्य दुःखस्य स्मरणादिति भावः । अश्रुभिर्नेत्रजलैरामीलिते संकुचिते लोचने नेत्रे यस्याः
सा तादृशी निःशब्दं ध्वनिवर्जितं यथा स्यात्तथा रोदितुं रोदनं कर्तुमारेभ आरम्भं चकार । अथाश्रु विशेष-
यन्नाह - स्थूलेति । स्थूलानि च स्थूलानि च स्थूलस्थूलानि तैः । अतिश्वेतत्वसाम्यादाह
— अन्तरिति ।
अन्तर्गतां मध्यप्राप्तां हृदयशुद्धिं चित्तनैर्मल्यमिवादाय गृहीत्वा निर्गच्छद्भिर्बहिरागच्छद्भिः । इन्द्रियेति ।
इन्द्रियाणामक्षाणां प्रसादं प्रसन्नतामिव वर्षद्भिर्वर्षणं कुर्वद्भिः । तप इति । तपसां चान्द्रायणादीनां रस-
निःस्यन्दमिव द्रवरहस्यमिव स्रवद्भिः क्षरद्भिः । लोचनेति । लोचनविषयं नेत्रसंबन्धिनं धवलिमानं श्वेति-
मानमिव द्रवीकृत्य रसीकृत्य पातयद्भिः । अच्छेति । अच्छानि चाच्छानि चाच्छाच्छानि तैः । अतिख-
च्छैरित्यर्थः । अमलेति । अमलं निर्मलं यत्कपोलस्थलं तत्र स्खलितैः स्खलनां प्राप्तैः । अवशीर्णेति ।
अवशीर्णस्त्रटितो यो हारो मुक्ताप्रालम्बस्तस्य मुक्ताफलानि रसोद्भवानि तद्वत्तरलः कम्पनः पातो येषां तैः ।
एतेनोज्ज्वलत्वसाभ्यात्क्षरन्मुक्ताफलसाम्यमश्रूणां ध्वनितम् । अनुबद्धाः परस्परानुविद्धा बिन्दवो विप्रुषो
येषां तैः । वल्कलेति । वल्कलावृतौ चोचाच्छादितौ यौ कुचौ पयोधरौ तयोः शिखरमग्रं तेन जर्जरिताः
शिथिलतां प्राप्ताः सीकराः कणा येषां तैः । एतेन कुचयोरतिकाठिन्यं व्यजितम् । अन्वयस्तु प्रागेवोक्तः ।
तामिति । तां कन्यकाम् । चकारः पुनरर्थकः । प्ररुदितां कृताश्रुपातां दृष्ट्वा विलोक्य चन्द्रापीडस्तत्क्षणं
तस्मिन्नवसरेऽचिन्तयच्चिन्तितवान् । चिन्ताविषयमाह - अहो इति । अहो इत्याश्चर्ये । व्यसनानि मैद्य-
पानादीनि तत्रोपनिपाता अत्यासक्तिरूपास्तेषां दुर्निवारता दुर्हेयता । अनल्पायासेन निवारयितुं शक्यते, न तु
स्वल्पप्रयासेनेति भावः । यदिति हेत्वर्थे । अनभिभवनीयां न परैरभिभवितुं योग्यामेतादृशीमलौकिकीमप्या-
कृतिमाकारमात्मीयां स्वायत्तां कुर्वन्ति प्रणयन्ति । सर्वथेति । सर्वथा सर्वप्रकारेणोपतापाः कामाभिलाषाः
।
-
टिप्प० - 1 हन्त ! न कविसूक्तीनां स्तोकोपि परिचयष्टीकाकारवराकस्य । "रारब्धमीदृशीं धवलतां
धत्ते शरीरम्' इत्येव मधुरः पाठः । अर्थः स्फुटः । 2 वैलक्षण्यमित्यर्थः । 3 तपांस्येव रसाः ( द्रवाः )
तेषां निस्यन्दं धारां क्षरद्भिरिव, इत्यर्थो योग्यः । 4 हन्त धिक् टीकाकारम् । ग्रन्थकारो यां मूर्तिमतीं पवि-
त्रतां चित्रयति तत्र मद्यपानादेः कः प्रसङ्ग ः ? अस्तु व्यसनोपनिपातानां दुःखोपस्थितीनाम् अहो दुर्निवा-
रता अभिभवितुमशक्यता ? अर्थात् दैवोपस्थापितानि दुःखानि न केनचिद्वारयितुं शक्यानीति भावः ।
पाठा० -१ पूर्वम्. २ आवेदय सर्वम् ३ हारमुक्तमुक्ता,