This page has not been fully proofread.

महाश्वतां प्रति प्रश्नः ]
 
पूर्वभागः ।
 
२९१
 
श्री
 
नातिदूरे समुपविश्य मुहूर्तमिव स्थित्वा चन्द्रापीड: सविनयमवादीत् - 'भगवति, त्वत्प्र
सादप्राप्तिप्रोत्साहितेन कुतूहलेनाकुलीक्रियमाणो मानुषतासुलभो लघिमा बलाद निच्छन्तमपि
मां प्रश्नकर्मणि नियोजयति । उपजनयति हि प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः ।
स्वल्पाध्ये कावस्थाने कालकला परिचयमुत्पादयति । अणुरप्युपचारपरिग्रहः प्रणयमारोपयति ।
तद्यदि नातिखेदकरमिव ततः कथनेनात्मानमनुप्राह्यमिच्छामि । अतिमहत्खलु भवदर्शनात्प्र-
भृति मे कौतुकम स्मिन्विषये। कतरन्मरुतासृषीणां गन्धर्वाणां गुह्यकानामप्सरसां वा कुलम-
नुगृहीतं भगवत्या जन्मना । किमर्थ वास्मिन्कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् । केदं
"वैयः,
केयमाकृतिः, क चायं लावण्यातिशयः, क्वेयमिन्द्रियाणामुपशान्तिः । तदद्भुतमिव मे
प्रतिभाति । वाकसिद्धसाध्य संबद्धानि सुरलोकसुलभान्यपहाय दिव्याश्रमपदान्येका-
किनी वनमिदममानुषमधिवससि । कैश्चायं प्रकारो यत्तैरेव पञ्चभिर्महाभूतैरारब्धमीदृशं
 
स्यात्तथोपविष्टामासीनाम् । निभृतं निश्चलं यथा स्यात्तथोपसृत्य समीपे गत्वा नातिदूरे समुपविश्यास्थाय
मुहूर्तमिव क्षणमात्रमिव स्थित्वा विलम्ब्य चन्द्रापीड: सविनयं विनयसंयुक्तं यथा स्यात्तथावादीदवोचत् । हे
भगवति हे स्वामिनि । त्वदिति । तव प्रसादस्य प्राप्तिर्लब्धिस्तया प्रोत्साहितेन प्रगुणीकृतेन कुतूहलेन कौतु-
केनाकुलीक्रियमाणो व्याकुलतां नीयमान एवंविधो यो लघिमा तुच्छस्वभावः । कीदृशः । मानुषता मानवता
तत्र सुलभः सुप्रापो मां बलाद्धठादनिच्छन्तमवाञ्छन्तमपि प्रश्नकर्मणि पृच्छाक्रियायां नियोजयति व्यापार-
यति । उपजनेति । हीति निश्चितम् । प्रभोः स्वामिनः प्रसादलवोऽपि प्रसन्नतालेशोऽप्यधीरप्रकृतेश्चश्चल
स्वभावस्य प्रागल्भ्यं धाष्टर्यमुपजनयत्युपपादयति । स्वल्पेति । एकावस्थान एकावस्थितौ स्वल्पापि स्तोकापि
कालकला पञ्चदशलवात्मिका परिचयं संस्तवमुत्पादयति जनयति । अणुरपि परमाणुरप्युपचारपरिग्रहः पूजा-
स्वीकारः प्रणयं स्नेहमारोपयत्यारोपविषयीकरोति । तदिति । तद्यदि नातिखेदकरमिव नातिप्रयासजनकसह-
शमिव ततः कथनेन निवेदनेनात्मानमनुग्राह्यमभ्युपपत्तिविषयमिच्छामि समीहे । अतीति । खलु निश्चये ।
भवदर्शनात्प्रभृति तवालोकनादारभ्य मे समास्मिन्विषये प्रश्नविषयेऽतिमहत्कौतुकमत्याश्चर्यम् । कतरदिति ।
मरुतां देवानाम्, ऋषीणां मुनीनाम्, गन्धर्दाणां देवगायनानाम् गुह्यकानां यक्षाणाम्, अप्सरसां तिलोत्त-
मादीनां मध्ये । निर्धारणे षष्ठी । जन्मना प्रादुर्भावेन भगवत्या स्वामिन्या कतरत्कतमत्कुलमन्वयोऽनुगृ
हीतमनुग्रह विषयीकृतम् । किमिति । किमर्थम् । किं प्रयोजनमिति यावत् । वेति विकल्पार्थः । अस्मिन्नवे
नूतने वयस्यवस्थायां कुसुमं पुष्पं तद्वत्सुकुमारे कोमले व्रतग्रहणं नियमस्वीकारः । केति महदन्तरे । इदं प्रत्य-
क्षोपलभ्यमानं वयः क्व । अथ चेयमाकृतिराकार विशेष: क्व । तथा लावण्यं चातुर्यं तस्यातिशय आधिक्यं
क्व । तथेन्द्रियाणां करणानामियमुपशान्तिर्विषयोपरमः क्व । तदिति । मे मम तत्सर्वं पूर्वोक्तमद्भुतमिवाश्च-
र्यमिव प्रतिभाति प्रतिभासते । अन्यच्च । किमिति पूर्ववत् । अनेकेति । अनेके बहवो ये सिद्धा महायोगि-
नस्तैः साध्या निष्पाद्याः क्रिया इत्यर्थः । ताभिः संबैद्धानि संकीर्णानि सुरलोका देवसमूहास्तेषां सुलभानि
सुप्रापाण्येवंविधानि दिव्याश्रमपदानि महामुनीनां निवासस्थानान्यपहाय विमुच्यैका किन्यसहायामानुषं मनु-
ध्यवर्जितमिदं वनमरण्यं कथं त्वं भवत्यधिवससि । 'उपान्वध्याङ्कसः' इति वनमित्यस्याधिकरणस्य कर्मसं-
ज्ञायां द्वितीया । कश्चेति । कश्चानिर्दिष्टस्वरूपोऽयं प्रकारः प्रभेदो यत्तैरेव सर्वप्रसिद्धैरेव पञ्चभिर्महाभूतैः पृथि-
>
 
टिप्प० -1 सौन्दर्यम् । 2 'अनेक सिद्ध साध्य संबाधानि' इत्येव पाठः, संबाधानि संकुलानीति
तदर्थः । 3 विशेषः ।
 
पाठा० -१ जनयति २ हि न. ३ एकदेशावस्थाने, एकदेशावस्थान. ४ अनुगृह्यमाणम्. ५ वयः, केदं तपः •
६ अद्भुतम् ७ किं निमित्तम् ८ संवन्धानि; संबाधानि. ९ सुभगानि १० कवायं प्रजापतेः प्रकारो यत्तैरेव महा-
भूतैः पञ्चभिः. ११ ईवृशीम.