This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
तां सर्वामतिथिसपर्यामतिदूरावनतेन शिरसा सप्रश्रयं प्रतिजग्राह । कृतातिथ्यया च तया
द्वितीय शिलातलोपविष्टया क्षणमिव तूष्णीं स्थित्वा क्रमेण परिपृष्टो दिग्विजयादारभ्य किंनर-
मिथुनानुसरणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे । विदितसकलवृत्तान्ता चोत्थाय सा
कन्यका भिक्षाकपालमादाय तेषामायतनतरूणां तलेषु विचचार । अचिरेण च तस्याः स्वयं-
पतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रा-
पीडम् । आसीच तस्य चेतसि - 'नास्ति खल्वसाध्यं नाम तपसाम् । किमतः परमाश्चय यंत्र
व्यपगतचेतना अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति
वनस्पतयः । चित्रमिदमालोकितमस्माभिरदृष्टपूर्वम्' इत्यधिकतरोपजातविस्मयश्रोत्थाय त
मेव प्रदेशमिन्द्रायुधमांनीय व्यपनीतर्पर्याणं नातिदूरं संयम्य निर्झरजलनिवर्तितस्नानविधि-
स्तान्यमृतस्खाइन्युपभुज्य फलानि पीत्वा च तुषारशिशिरं प्रस्रवणजलमुपस्पृश्य चैकान्ते
तावदेवतस्थे यावत्तयापि कैन्यकया कृतो जलफलमूलमयेष्वाहारेषु प्रणयः ।
 
इति परिसमापिताहारां निर्वर्तितसंध्योचिताचारां शिलातले विश्रब्धमुपविष्टां निभृतमुपसृत्य
 
अनुरुध्यमानः । चकारः पुनरर्थकः । तां सर्वां समग्रातिथिसपर्यामभ्यागतपूजामतिदूरा विष्ठादवनतेन नमितेन
शिरसोत्तमाङ्गेन सप्रश्रयं सविनयं प्रतिजग्राह गृहीतवानू । कृतेति । कृतं विहितमातिथ्यं यया सा तया ।
द्वितीयेति । द्वितीयं भिन्नं यच्छिलातलं तत्रोपविष्टयासीनया क्षणमिव तूष्णीं स्थित्वा मौनं कृत्वा क्रमेण परि-
पाट्या परिपृष्टोऽनुयुक्तो दिग्विजयादारभ्य किंनरमिथुनस्य यदनुसरणं यदनुगमनं तत्प्रसङ्गेन तद्वशेनात्मनः
स्वकीयस्य सर्वमागमनमाचचक्षेऽकथयत् । विदितेति । विदितो ज्ञातः सकल: समग्रो वृत्तान्त उदन्तो यया
सा । चकारः पूर्ववत् । उत्थाय सा कन्यका भिक्षाकपालं भिक्षाभाजनमादाय गृहीत्वा तेषामायतनतरूणां
गुहासमीपवर्तिवृक्षाणां तलेष्वधोभागे विचचार पर्यटनं चकार । अचिरेणेति । अचिरेण स्वल्पकालेन स्वयं-
पतितैः स्वभावतथ्युतैः फलैरतस्या भिक्षाभाजनमपूर्यत परिपूरितमभूत् । आगत्येति । आगल्यैत्य तेषां फला-
नामुपयोगायोपभोगार्थं चन्द्रापीडं नियुक्तवती प्रेरितवती । तस्येति । तस्य चन्द्रापीडस्य चेतसि मनसीत्या-
सीदित्यभूत् । इतिशब्दवोलं प्रदर्शयन्नाह - खल्विति । खलु निश्चयेन । नामेति कोमलामन्त्रणे । तपसाम-
साध्यमशक्यं नास्ति तथाप्यतः परमेतदन्यत्किमाश्चर्यं चोद्यं भवेत्तदेवाह - यत्रेति । यस्मिन्प्रदेशेऽपगता
दूरीभूता चेतना चैतन्यं येषामेवभूता अपि वनस्पतयो वृक्षाः सचेतना इव सचैतन्या इवास्यै भगवत्यै फलानि
समतिशयेन सृजन्तो ददत आत्मानुग्रहं निजसाफल्यमुपपादयन्ति निष्पादयन्ति । चित्रमिति । अंदृष्टपू-
वीक्षितपूर्वमिदं चित्रमाश्चर्यमालोकितं वीक्षितम् । अधीति । अधिकतरोऽतिभूयानुपजातः समुत्पन्नो
विस्मयो यस्य स उत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपर्याणं दूरीकृतपल्ययनं नातिदूरे समीपे
संयम्य निबध्य । निर्झरेति । निर्झरजलेन प्रस्रवणपानी येन निर्वर्तितो निष्पादितः स्नानविधिरालावविधिर्येन
स तान्यमृतवत्स्वादूनि मिष्टानि फलान्युपभुज्याखाद्य च तुषारस्य नीहारस्य शिशिरं शीतलं प्रस्रवणज
निर्झराम्भः पीत्वा चोपस्पृश्याचमनं कृत्वैकान्ते रहसि तावदवतस्थे तावत्कालमासेदिवान्यावत्तयापि कन्यकया
जलफलमूलमयेष्वाहारेषु प्रणयः स्नेहः कृतः ।
 
इतीति । इति पूर्वोक्तप्रकारेण परिसमापितः पर्याप्तिं नीत आहारो भोजनं यया सा ताम् । निर्वेति ।
निर्वर्तितो विहितः संध्योचिताचारः सायंकालयोग्यो विधिर्यया सा तां शिलातले विश्रब्धं सविश्वासं यथ
 
पाठा०-१ अचिरेण तस्याः १ यदत्र; यत्र च. ३ विगत ४ पर्याणे च. ५ निवर्तित ६ अमृतरस ७ उप
युज्य. ८ उपस्पृश्यैकान्ते, ९ उपतस्ये १० कन्यया.