This page has not been fully proofread.

महाश्वेताकृतमातिथ्यम् ]
 
पूर्वभागः ।
 
२८९
 
ट्यमानैरुञ्च रद्ध निभिरवशीर्यमाणतुषारशिशिरशीकरासारैराबध्यमाननीहाराम् हिमहारहर-
हासघवलैचोभयतः क्षरद्भिर्निर्झरै द्वारा वलम्बितचलच्चामर कलापामिवोपलक्ष्यमाणाम्, अन्त:-
स्थापित मणिकमण्डलुमण्डलाम्, एकान्तावलम्बितयोगपट्टिकाम्, विशाखिकानि बैद्धनालि-
केरीफलवल्कलमयधौतोपानद्युगोपेताम्, अवशीर्णाङ्गभस्मधूसरवल्कलशयनीयसनाथैकदेशाम्,
इन्दुमण्डलेनेव टङ्कोत्कीर्णेन शमयेन भिक्षाकपालेनाधिष्ठिताम् संनिहितभस्मालाबुकां
गुहा मद्राक्षीत् ।
 
तस्याश्च द्वारि शिलातले समुपविष्टो वल्कलशयनशिरोभागविन्यस्तवीणां ततः पर्णपुटेन
निर्झरादा गृहीत मर्घजलमादाय तां कन्यकां समुपस्थिताम् 'अलमतियाणया । कृत-
मतिप्रसादेन । भगवति, प्रसीद । विमुच्यतामयमत्यादरः । त्वदीयमालोकनमपि सर्व-
पापप्रशमनमघमर्षणमिव पवित्रीकरणायालम् । आस्यताम्' इत्यत्रवीत् । अनुबध्यमानश्च तया
 
वीक्ष्यमा-
स्तैर्विपाढ्यमानानि विदार्यमाणानि तैः । उच्चरदिति । उच्चरञ्शब्दं कुर्वन्ध्वनिः शब्दो येषां तैः । अवेति ।
अवशीर्यमाणो विशरारुतां प्राप्यमाणो यस्तुषारो नीहारस्तस्य शिशिराः शीतलाः शीकरा वातास्तजलविप्रुषस्ते-
षामासारो वेगवान्वर्षो येषु तैः । हिमेति । हिमं तुहिनम्, हारो मुक्ताकलापः, हर ईश्वरस्तस्य हासो
हास्यं तद्वद्धवलैः श्वेतैः । उभयतः पार्श्वद्वये क्षरद्भिः सवद्भिर्निर्झरैः प्रस्रवणैः । द्वारेति । द्वारे प्रती-
हारेऽवलम्बितो यश्चलच्चामरकलापः प्रोच्छलद्वालव्यजनसमूहो यस्यामेवंविधामिवोपलक्ष्यमाणां
णाम् । अन्तरिति । अन्तर्मध्ये स्थापितं न्यस्तं मणिनिर्मितं कमण्डलुमण्डलं कुण्डिकावलयं यस्यां सा
ताम् । एकान्तेति । एकान्ते रहस्यवलम्बिता स्थापिता योगपट्टिका योगसाधनोपकरणं यस्यां सा ताम् ।
विशेति । विशाखिका भूमिशुद्ध्यर्थमाद्रियमाणा लोहयष्टिरूपा तस्यां निबद्धं संदानितं यन्नालिकेरी लागली
तस्याः फलं तस्य वल्कलैस्त्वग्भिनिष्पन्नं धौतं क्षालितमुपानद्युगं पादुकायुगलं तेनोपेतां सहिताम् । अवेति ।
अवशीर्ण च्युतं यदङ्गभस्म देहविभूतिस्तेन धूसरं मलिनं यद्वल्कलशयनीयं चोचशय्या तेन सनाथः सहित
एकदेशो यस्याः सा ताम् । टङ्क इति । टङ्कः पाषाणदारणस्तेनोत्कीर्णेनोत्कारितेन शङ्खमयेन कम्बुदलनिर्मि-
तेन भिक्षाकपालेन भिक्षाकर्परेणाधिष्ठितामाश्रिताम् । श्वेतत्वसाम्यादाह — इन्दुरिति । इन्दुश्चन्द्रस्तस्य मण्डले -
नेव । संनिहितेति । संनिहितं समीपवर्ति भस्मालावुकं विभूतितुम्बकं यस्यां ताम् । अन्वयस्तु प्रागेवोक्तः ।
 
-
 
तस्याश्चेति । तस्या गुहाया द्वारि प्रतीहारप्रदेशे यच्छिलातलं तस्मिन्नुपविष्ट आसीनश्चन्द्रापीडो वल्कल-
शयनं तस्य शिरोभागस्तत्र विन्यस्ता स्थापिता वीणा वलकी यया सा ताम् । तत इति । वल्लकी स्थापनान-
न्तरं पर्णपुटेन निर्झरात्प्रस्रवणादागृहीतं यदर्घजलं तदादाय समुपस्थितां समागतां तां प्रति चन्द्रापीड इत्य-
ब्रवीदित्युवाच । इति शब्दार्थमाह - अलमिति । अतियन्त्रणयात्यनुरोधेनालं कृतम् । कृतमिति । अतिप्र-
सादेनातिप्रसन्नतया कृतं सृतम् । हे भगवति हे स्वामिनि, प्रसीद प्रसन्ना भव । अयमत्यादरोऽत्याग्रहो विमु
च्यतां त्यज्यताम् । त्वदीयमालोकनमपि दर्शनमपि सर्वपापप्रशमनं सर्वेनसां प्रशमनकृत् । अघेति । सर्वै-
नोध्वंसि जाप्येऽघमषेणं तद्वदिव पवित्रीकरणाय पावनीकरणायालं समर्थम् । अत आस्यतामुपविश्यताम् ।
भवत्या दर्शनेनैव मम कार्तार्थ्यमभूत् । ततः किमातिथ्येनेति भावः । अन्विति । तया कन्यकयानुबैध्यमानो -
 
टिप्प० - 1 शिक्या, 'छींका' इतिभाषाख्याता । टीकाकृतोऽर्थस्तु मृग्यः । 2 मत्कृते अत्यन्तं क्लेशा
नुभवेनेत्यर्थ उचितः । 3 'अनुरुध्यमानः ' कृतानुरोधः इत्येव पाठो ग्रन्थोचितः ।
 
पाठा० -१ धारा. २ चारुचलत्. ३ शिखरनिबद्ध ४ नारिकेल. ५ आगृहीतार्थ्यसलिलम्. ६ अलमलम्.
७ तदीयम्. ८ अध्यत्र खलु. ९ अनुरुध्यमानः.
३७ का०