This page has not been fully proofread.

२८८
 
कादम्बरी ।
 
[ कथायाम्-
तामतिथिसंत्कारः' इति । एवमुक्तस्तु तथा संभाषणमात्रेणैवानुगृहीतमात्मानं मन्यमान
उत्थाय भक्त्या कृतप्रणाम: 'भगवति, यथाज्ञापयसि' इत्यभिधाय दर्शित विनयः शिष्य इव
तां व्रजन्ती मनुवत्राज । व्रजंश्च समर्थयामास – 'हन्त, तावन्नेयं मां दृष्ट्वा तिरोभूंता ।
कृतं हि मे कुतूहलेन प्रभाशया हृदि पदम् । यथा चेयमस्यास्तपस्विजनदुर्लभ दिव्यरूपाया
अपि दाक्षिण्यातिशया प्रतिपत्तिरभिजाता विभाव्यते, तथा संभावयामि नियतमियमखिल-
मात्मोदन्तमभ्यर्थ्यमाना मया कथयिष्यति' इत्येवं च कृतमतिः पदशतमांत्रमिव गत्वा
निरन्तरैर्दिवापि रँजनीसमयमिव दर्शयद्भिस्तमालतरुभिरन्धकारितपुरोभागाम् उत्फुल्लकुसु-
मेषु लतानिकुञ्जेषु गुञ्जतां मंन्दं मैदमत्तमधुलिहां विरुतिभिर्मुखरीकृतपर्यन्ताम् अतिदूर-
पातिनीनां च धवलशिलातलप्रतिघातोत्पतन फेनिलानामपां प्रस्रवणैरुत्कोटिप्रावविटङ्कविपा-
."
 
भाषितः संभाषणमात्रेणैवानुगृहीतं प्रसादपात्रीकृतमात्मानं मन्यमानो ज्ञायमानस्त
 
भक्त्यान्तरप्रीत्या कृतो विहितः प्रणामो नतिर्येन स हे भगवति हे स्वामिनि, यथा येन प्रकारेणाज्ञापयस्याज्ञां
करोषि तत्तथेत्यभिधायेत्युक्त्वा दर्शितः प्रकाशितो विनयो नम्रता येन स शिष्य इव विनेय इव तां कन्यकां
व्रजन्तीं गच्छन्ती मनुवब्राज पश्चाज्जगाम । व्रजंश्चेति । व्रजन्गच्छन् । समर्थेति । प्रस्तुतं समर्थयामास ।
उद्देशस्य निश्चयं चक।रेत्यर्थः । हन्तेति । हन्तेयाश्चर्ये । तावदादौ इयं मां दृष्ट्वा निरीक्ष्य न तिरोभूता
नादृश्यतां गता । हीति निश्चितम् । कुतूहलेन करणभूतेन प्रश्नाशया पृच्छाभिलाषया हृदि चित्ते परं
स्थानं विहितम् । यथा चेति । यथा येन प्रकारेणास्याः प्रत्यक्षगतायाः । तपस्वीति । तपस्विजनेषु
दुर्लभं दुष्प्रापं दिव्यं मनोहरं रूपं यस्या एवंभूतायाः कन्या या अपि । दाक्षिण्येति । दाक्षिण्यमनुकूलता
तस्या अतिशय आधिक्यं तेन प्रतिपत्तिर्मद्विषयिण्युत्कण्ठा विशेषरूपेणेयमभिजातोत्पन्ना विभाव्यते लक्ष्यते ।
यत्तदोर्नित्याभिसंबन्धादाह- तथेति तथा तेन प्रकारेण संभावयामि संभावनां करोमि । नियतं निश्चि
तम् । इयं कन्यका मया चन्द्रापीडेनाभ्यर्थ्यमाना प्रार्थ्यमाना खिलं समग्रमात्मनः स्वकीयस्योदन्तं वृत्तान्तं
कथयिष्याते प्रतिपादयित्र्यति । इत्येवंप्रकारेण कृता मतिर्येनैवंभूतश्चन्द्रापीडः पदशतमात्रमिव गत्वा किंचिद
ध्वानमतिक्रम्य गुहां दरीमद्राक्षीदपश्यत् । इतो गुहां विशेषयन्नाह - निरन्तरेति । निरन्तरैर्निबिडैर्दिवापि
दिवसेऽपि रजनीसमय मित्र रात्रिकालमिव दर्शयद्भिः प्रकाशयद्भिरेतादृशैस्तमालतरुभिस्तापिच्छवृक्षैरन्ध
कारितोऽन्धकारवदाचरितः पुरोभागोऽग्रप्रदेशो यस्यास्ताम् । उत्फुल्लेति । उत्फुल्लानि विकसितासि कुसु-
मानि पुष्पाणि येष्वेवं भूतेषु लता निकुञ्जेषु वल्लीकुटकेषु मन्द्रं गुजतां शब्दं कुर्वतां मदेन मत्ताः क्षीबा ये
मधुलिहो भ्रमरास्तेषां विरुतिभिः शब्दैर्मुखरीकृतो वाचालीकृतः पर्यन्तः प्रान्तो यस्याः सा ताम् । अतीति ।
अतिदूरं दविष्ठं पतन्ति एवंशीला अतिदूरपतिन्यस्तासां च । धवलेति । धवलं शुभ्रं यच्छिलातलं प्रस्त-
रतलं तेन यः प्रतिघातः प्रतिस्खलनं तस्माद्यदुत्पतनं तेन फेनिलानां संजातडिण्डी राणामिदृशीनामपाम-
म्भसां प्रस्रवणैर्निर्झरैराबध्यमान आबन्धविषयीक्रियमाणो नीहारो हिमं यस्यां सा ताम् । अथ प्रस्रवणं
विशेषयन्नाह — उदिति । उदूर्ध्वं कोटयः कोणा येषामेवंभूता ये ग्रावाणः प्रस्तरास्तेषां विटङ्का उन्नतप्रदेशा-
-
 
टिप्प० -- 1 दाक्षिण्यस्य अतिशयो यस्याम् ईदृशी प्रतिपत्तिः 'स्वागतमतिथये' इत्यादिर्व्यवहारः,
इत्यये उचितः । 2 हिमवर्णवत् भाबध्यमानाः ( उत्पाद्यमानाः ) नीहारा: जलबिन्दवो यस्याम् । प्रस्न-
वणजलक्षोदवाहिनी मित्यर्थः ।
 
पाठा -१ सत्कार एवमुक्तस्तया २ संभाषित, ३ समुत्थाय ४ अद्भूताकृतिस्तिरोभूता. ५ अतिशय.
 
६ आत्मोदन्तम् ७ रजनीमयम् ८ कुजताम् ९ मन्दं मन्दम्. १० मधुमत्त. ११ पातिनाम्.
 
!