This page has not been fully proofread.

महाश्वेताकृतमातिथ्यम् ]
 
पूर्वभागः ।
 
२८७
 
,
 
रेवंविधानां गान्धर्वध्वनिविशेषाणाम् । तद्यदि मे सहसा दर्शनपथान्नापयाति, नारोहति वा
कैलासशिखरम्, नोत्पतति वा गगनतलम्, ततः 'का त्वम्, किमभिधाना वा किमर्थं वा
प्रथमे वयसि प्रतिपन्ना व्रतम्' इति सर्वमेवैतदेनामुपसृत्य पृच्छामि । अतिमहानयमवकाश
आश्चर्याणाम्" इत्यवधार्य तस्यामेव स्फटिकमण्डपिकायामन्यतमं स्तम्भमाश्रित्य समुपं विष्टो
गीतसमास्यवसर प्रतीक्षमाणस्तस्थौ ।
 
अथ गीतावसाने मूकीभूतवीणां प्रशान्तमधुकररुतेव कुमुदिनी सा कन्यका समु
त्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा परिवृत्य स्वभावधवलया तपःप्रभावप्रगल्भया दृष्ट्या
समाश्वासयन्तीव, पुण्यैरिव स्पृशन्ती, तीर्थजलैरिव प्रक्षालयन्ती, तपोभिरिव पावयन्ती,
शुद्धिमिव कुर्वाणा, वरप्रदानर्मिंवोपपादयन्ती, पवित्रतामिव नयन्ती, चन्द्रापीडमाबमाषे-
'स्वागतमतिथये । कथमिमां भूमिमनुप्राप्तो महाभाग । तदुत्तिष्ठ । आगम्यताम् । अनुभूय-

 
षाणां मन्द्रादीनां मर्त्यलोके मनुष्यक्षेत्रे कुतः संभूतिरुत्पत्तिः स्यात् । तदिति हेत्वर्थे । यदि यावत् । मे मम
सहसाकस्माद्दर्शनपथाद्विलोकनमार्गान्नापयाति नापसरति । वेति विकल्पार्थः । तथा कैलासशिखरं रजताद्विशृङ्गं
किम-
नारोहति नारोहणं करोति । गगनतलं व्योमतलं नोत्पतति नोर्ध्वं गच्छति । तत इति । तावत्का त्वम्,
भिधाना किंनानी, किमर्थं किप्रयोजनं प्रथमे वयसि बाल्यावस्थायां पाशुपतं व्रतं प्रतिपन्ना स्वीकृतवती । सर्वत्र
वाशब्दो विकल्पार्थः । इत्येतत्सर्वमेनां कन्यकामुपसृत्य समीपे गत्वा पृच्छामि प्रश्नं करोमि । अतीति ।
आश्चर्याणां कौतुकानामयमतिमहानवकाशोऽसंकीर्ण स्थलम् । इति पूर्वोक्तमवधार्य निर्णयं कृत्वा तस्यां पूर्वोक्ताया-
मेव स्फटिकमण्ड पिकायामन्यतममेन्यतरं स्तम्भं स्थूणामाश्रित्याश्रयणीकृत्य समुपविष्टो निषण्णः । गीतेति ।
गीतं गानं तस्य समाप्तिः पर्याप्तिस्तस्या अवसर: समयस्तं प्रतीक्षमाणः प्रतीक्षां कुर्वाणस्तस्थौ स्थितवान् ।
 
अथेत्यानन्तर्ये। गीतावसाने गीतपर्यन्ते मूकीभूता मौनमाश्रिता वीणा वल्लकी यस्याः सा तथा । श्वेतत्व-
सादृश्यादाह - प्रशान्तेति । प्रशान्तः शान्ति प्राप्तो मधुकराणां भ्रमराणां मधुरं मिष्टं रुतं शब्दो यस्यामे-
वंभूता कुमुदिनीव । ततस्तस्मात्स्थलात्सा कन्यका समुत्थायोत्थानं कृत्वा प्रदक्षिणीकृत्य प्रदक्षिणां दत्वा ।
कृतेति । कृतो विहितो हराय प्रणामो नमस्कारो यया सा । परिवृत्त्येति । परावर्तनं कृत्वा स्वभावेन न
चोपाधिना धवलया शुक्लत्वेन निर्विकारत्वात् । तप इति । तपःप्रभावस्तपोमाहात्म्यं तेन, प्रगल्भया
प्रौढया दृष्ट्या लोचनेन समाश्वासयन्तीवाश्वासनां कुर्वन्तीव । पुण्यैरिति । पुण्यैः स्पृशन्तीव स्पर्श कुर्व-
न्तीव । तीर्थानि मागधप्रभृतीनि तेषां जलैः पानीयैः प्रक्षालयन्तीव क्षालनां कुर्वन्तीव । तपोभिरतपस्याभिः
पावयन्तीव पवित्रीकुर्वन्तीव । शुद्धिं नैर्मल्यं कुर्वाणेव । वरप्रदानं वाञ्छितदानमुपपादयन्तीव जनयन्तीव ।
पवित्रतां पावित्र्यं नयन्तीव प्रापयन्तीव । चन्द्रापीडमाबभाषे आभाषितवती । किं तदित्याह-
स्वागत मिति । अतिथये प्राघूर्णकाय स्वागतं सुखेनागतम् । महेति । हे महाभाग हे महानुभाव, इमां भूमिं
कथंमनुप्राप्त आगतः । तदिति । तस्मात्त्वमुत्तिष्टोत्थानं कुरु । आगम्यताम् मत्पश्व इति शेषः । अतिथि-
सत्कार आतिथ्यमनुभूयतामनुभवविषयीक्रियताम् । इति परिसमाप्तौ । एवं पूर्वोक्तप्रकारेण तया कन्यकयोक्तो
 
टिप्प०
– 1 एकतममित्युचितम् । 2 प्रयागप्रभृतीनीति वक्तव्ये मागधेत्युक्तिरनभिज्ञतैव धर्मस्थ,
-
मगधस्य पुण्य देशेष्वगणनात् ।
 
पाठा० -१ विद्यानां गान्धर्वध्वनिविशेषणां च. २ पाशुपतव्रतम् ३ सर्वमेतत् ४ परिसमाप्ति, ५ दान.
६ एव. ७ पवित्रिताम्. ८ अवनयन्ती ९ महाभाग: १० अनुगम्यताम्.