This page has not been fully proofread.

२८६
 
कादम्बरी ।
 
[ कथायाम्-
राम्, निर्मत्सराम्, आमानुषाकृतिम्, दिव्यत्वादपरिज्ञायमानवयः परिमाणामप्यष्टादशवर्षदे-
शीयामिवोपलक्ष्यमाणाम्, प्रतिपन्नपाशुपतत्रैतां कन्यकां ददर्श ।
 
-
 
ततोऽवतीर्य तरुशाखायां बद्धा तुरङ्गममुपसृत्य भगवते भक्त्या प्रणम्य त्रिलोचनाय तामेव
दिव्ययोर्षित मनिमिषपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा पुनर्निरूपयामास । उपादि चास्य
रूपसंपदा कान्त्या प्रशान्त्या चाविर्भूत विस्मयस्य मनसि - "अहो जगति जन्तूनामसमर्थितोप-
नतान्यापतन्ति वृत्तान्तान्तराणि । तथाहि । मया मृगयायां यदृच्छया निरर्थकमनुबनता तुर-
ङ्गमुख मिथुनमयम तिमनोहरो मानवानामगम्यो दिव्यजनसंचरणोचितः प्रदेशो वीक्षितः । अत्र
च सलिलमन्वेषमाणेन हृदयहारि सिद्धजनोपसृष्टजलं सरो दृष्टम् । तत्तोरलेखा विश्रान्तेन
चामानुषं गीतमाकर्णितम् । तच्चानुसरता मानुपदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । न हि
मे संशीतिरस्या दिव्यतां प्रति । आकृतिरेवानुमापयत्यमानुषताम् । कुतश्च मर्त्यलोके संभूति -
 
यस्याः सा ताम् । निर्गतेर्ष्यामित्यर्थः । अमेति । न विद्यते मानुषस्य मनुष्यस्याकृतिराकारो यस्याः सा ताम् ।
दिव्या कारामित्यर्थः । दिव्यत्वादिति । दिव्यत्वाद्गान्धर्व पुत्रीत्वादपरिज्ञायमानमनिश्चीयमानं वयोऽवस्था विशे-
षस्तस्य परिमाणं मानं यस्यामित्थंभूतामप्यष्टादशवर्षदेशीयामिव किंचिच्यूनाष्टादशवर्षीया मिवोपलक्ष्यमाणां
दृश्यमानाम् । अन्वयस्तु प्रागेवोक्तः ।
 
तत इति । कन्यका दर्शनानन्तरं तुरङ्गभादश्वादवतीर्यावरोहणं कृत्वा तरुशाखायां तुरङ्गममिन्द्रायुधं बद्धो-
पसृत्य समीपे गला भक्त्या श्रद्धया भगवते त्रिलोचनाय शंभवे प्रणम्य नमस्कृत्य तामेव पूर्वव्यावर्णित स्वरूपा-
मेव दिव्ययोषितममानुषी स्त्रियम् । अनीति । अनिमिषं निमेषोन्मेषरहितं पक्ष्म नेत्ररोम यस्मिंस्तत्तेन ।
निश्चलेति । निश्चलं यथा स्तात्तथा निबद्धं लक्ष्यं वेध्यं येनैवंभूतेन चक्षुषा नेत्रेण । पुनरिति । मण्डपिका-
प्रवेशानन्तरं निरूपयामास । साकल्येन ददर्शेत्यर्थः । चकारः पुनरर्थकः । अस्येति । चन्द्रापीडस्य मनस्येव-
मु॒दपाद्युत्पन्नं बभूव । किंविशिष्टस्य तस्य । आविर्भूतः प्रकटीभूतो विस्मय आश्चर्य यस्य स तथा तस्य । कथा ।
तस्या रूपसंपदा सौन्दर्यसमृद्ध्या । कान्त्या देहदीया । प्रशान्त्या प्रशमेन वा । एतदेव विस्मयजनकं प्रदर्शय-
नाह - अहो इति । अहो इत्याश्चर्ये । जगति विश्वस्मिन् जन्तूनां प्राणिनामसमर्थितोपनतान्यतर्कितप्राप्तानि
वृत्तान्तान्तराण्युदन्तान्तरराण्यापतन्त्यागच्छन्ति । तदेव दर्शयति
— तथाहीति । मया मृगयायामाखेटकवृत्तौ
यदृच्छया स्वेच्छया तुरङ्गमुख मिथुनं किंनरयुग्ममनुबनतानुव्रजता । अयं प्रत्यक्षगतोऽतिमनोहरोऽतिरुचिरो
मानवानां मनुष्याणामगम्योऽगोचरो दिव्यजनानां विद्याधरप्रभृतीनां संचरणं भ्रमणं तत्रोचितो योग्यः प्रदेशो
भूभागो वीक्षितोऽवलोकितः । अत्रेति । अस्मिन्देशे सलिलं पानीयमन्वेषमाणेन शोध्यमानेन सरस्तटाकं
दृष्टं वीक्षितम् । एतदेव विशिष्टि - हृदयेति । हृदयहारि मनोहत्सिद्धजनैरुपसृष्टं सेवितमेतादृशं जलं पानीयं
यस्मिन् । तत्पार्श्वात्तस्य सरसस्तीरं प्रतीरं तस्य लेखा प्रान्तवीथी तस्यां विश्रान्तेन संस्थितेन । चकारः समुच्च-
यार्थः । अमानुषं दिव्यं गीतं गानमाकर्णितं श्रुतम् । तच्चेति । तद्गीतमनुसरताम (अ) नुगच्छतां (ता) मानुषाणां
भूस्पृशां दुर्लभं दुःप्रापं दर्शनमवलोकनं यस्या एवं विधेयं दिव्यकन्यकालोकिता दृग्विषयीकृता । न हीति । हि
निश्चितम् । अस्याः कन्यकाया दिव्यतां प्रति मे मम संशी तिर्नास्ति संदेहो नास्ति । अस्मिन्नर्थे हेतुमाह-
आकृतिरिति । आकृतिराकार एवामानुषतां देवरूपतामनुमापयति । अमानुषता विषय कानुमिर्ति जनयतीत्यर्थः ।
अन्यदपि कारणान्तरमाह - कुत इति । एवंविधानामेतादृशानां गन्धर्वा देवगायनास्तेषां ध्वनेर्नादस्य विशे-
टिप्प० - 1 उपस्पृष्टमित्येव सहृदयानुमोदितः पाठः ।
 
-
 
Bygg
 
पाठा० -१ प्रमाणाभू. २ व्रतां च ३ तुरङ्गम्; तुरगम् ४ महाभक्त्या ५ पार्वतीपतये ६ अनिमेष.
७ विस्मयमनसि, ८ मनसि वितर्क: ९ १० वीक्षितः क्षितेः. ११ उपस्पृष्ट,