कादम्बरी /318
This page has not been fully proofread.
महाश्वेता ]
पूर्वभागः ।
गततृष्णाम्, ईशान शिरः शशिकलामिवानुपजातरागाम्, अमथितोदेधिजलसंपदमिवान्तःप्रस-
न्नाम्, असमस्तपदवृत्तिमिवाद्वंद्वाम्, बौद्धबुद्धिमिव निरालम्बनाम्, वैदेहीमिव प्राप्तज्योतिः-
प्रवेशाम् द्यूतकलाकुशलामिव वशीकृताक्षहृदयाम, महीमिव जलभृतदेहाम्, हिमसमय-
दिनेमुखलक्ष्मीमिव पैरिगृहीतभास्करातपाम्, आर्यामिवोपात्तयतिगणोचितमात्राम्, आलि-
खितामिवाचलावस्थानाम्, अंशुमयीमिव तनुच्छायानुलिप्तभूतलाम्, निर्ममाम्, निरहंका-
9
२८५
-
ca
नाह - विगतेति । विगता तृष्णा लोभो यस्याः सा ताम् । पक्षे तृष्णा तृषा । ईज्ञानेति । ईशान ईश्वरः ।
' शंभुः शर्वः स्थाणुरीशान ईशः' इत्यभिधानचिन्तामणिः । तस्य शिर उत्तमाङ्गं तत्र या शशिकला
चन्द्रकला तामिव । उभयोः सादृश्यमाह
- अन्विति । अनुपजातोऽसमुत्पन्नो रागो यस्याः सा ताम् ।
विरक्तामित्यर्थः । पक्षे राग आरक्तता । आरक्तामित्यर्थः । अमथीति । अमथितोऽविलोडितो य उदधिः
समुद्रस्तस्य जलं पानीयं तस्य संपत्संपत्तिस्तामिव । उभयोः सदृशत्वमाह - अन्तरिति । अन्तर्मध्ये प्रसन्नां
हृष्टचित्ताम् । पक्षेऽन्तैःप्रसन्नामकलुषिताम् । असमस्तेति । असमस्ताऽसमासगा या पदवृत्तिः कैशिक्या-
दिस्तामिव । 'कैशिक्याद्याः पदवृत्तयः' इत्यलंकारे प्रसिद्धम् । उभयोः साधर्म्यमाह - अद्वेति । द्वन्द्वो
युद्धं तद्रहिताम् । 'द्वन्द्वः समाघातः' इति कोशः । पक्षे द्वन्द्वः समासः । वौद्ध इति । बौद्धः सुगतस्तस्य
बुद्धिर्धिषणा तामिव । एतयोस्तुल्यतामाह - निरेति । आलम्बैनमाश्रयस्तद्रहिताम् । स्वतन्त्रामित्यर्थः ।
पक्षे निरालम्बनामर्थशून्याम् । तन्मतेऽर्थानां घटपटादीनामभावात् । शून्यवादित्वादित्यर्थः । वैदेहीति ।
वैदेही जानकी' । 'वैदेही मैथिली सीता' इत्यभिधान चिन्तामणिः । तामिव । उभयोस्तुल्यत्वं निरूपयन्नाह -
प्राप्तेति । प्राप्त आसादितो ज्योतिषि परमात्मनि प्रवेशो यस्याः सा ताम् । पक्षे प्राप्त ज्योतिष व
प्रवेशो ययेति बहुव्रीहिः । द्यूतेति । द्यूतं दुरोदरं तस्य कला विज्ञानं तत्र कुशला प्रवीणा तामिव । उभयोः
समानतां प्रदर्शयन्नाह - वशीति । वशीकृतान्यक्षाणीन्द्रियाणि हृदयं चित्तं च यथा सा ताम् । पक्षे
वशीकृतमक्षैः पाशकैर्हृदयं यस्या इति बहुव्रीहिः । महीति । मही वसुंधरा तामिव । उभयोः शब्दसाम्य-
माह - जलेति । जलेन नीरेण भृतो धृतो देहो यया सा ताम् । निराहारामित्यर्थः । पक्षे जलेन भृताः
पोषिता देहा यस्याम् । तदुक्तम् – 'वृष्टेरोषधयः । ओषधीभ्योऽन्नम् । तद्रसरूपेण शुक्रत्वमधिगच्छति
शुक्रा जरायुजा देहाः' इति । हिमेति । हिमसमयः शीतकालस्तस्य दिनमुखं प्रत्यूषस्तस्य लक्ष्मीः
श्रीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - परीति । परि सामस्त्येन गृहीतो भास्करस्य सूर्यस्यातप आलोको
यया सा ताम् । 'तपस्विनां सूर्यातपग्रहणं महाफलाय' इति श्रुतेः । पक्षे परिगृहीतो मुषितो भास्करस्यातपः
कान्तिप्रकाशो ययेति बहुव्रीहिः । आर्येति । आर्या छन्दोविशेषस्तामिव । उभयोः साधर्म्यमाह -
उपात्तेति । उपात्ती स्वीकृता यतिगणानां मुनिजनानां उचिता योग्या मात्रोपव (क) रणं ययेति सा ताम्
पक्ष उपात्ता यतयो विश्रामा गणा मगणादयस्तेषामुचिता मात्रा त्रुटिर्ययेति बहुव्रीहिः । आलिखितेति ।
आलिखिता चित्रिता तामिव । अत एवाचलं निश्चलमवस्थानं यस्याः सा ताम् । अंशुमयीति । अंशुमयीं
तेजोमयी मिव । तन्विति । तनुच्छाया देहकान्तिस्तयानुलिप्तं व्याप्तं भूतलं यथा सा ताम् । अन्याप्यंशुमयी
भवति । सापि कान्त्याच्छादितभूतला स्यादित्येतयोः साम्यम् । निर्ममामिति । निर्गतो ममत्वभावो यस्याः
*सा ताम् । निरिति । निर्गतोऽहंकारोऽभिमानो यस्याः सा ताम् । निरिति । निर्गतो मत्सरो गुणेष्वसूया
टिप्प० - 1 शिरः शशिकलाया उदयास्तमनयोरभावादारुण्यं न जायत इत्याशयः । 2 विलोडने
सति तस्मिन्नाविलता जायते । 3 शीतोष्ण-सुख-दुःखादिद्वन्द्वानुभवरहितामित्यर्थः । 4 आसक्तिस्तद्रहि-
ताम् । बौद्धबुद्धिस्तु - निर्विषया । तेषां मते ज्ञानमेव घटादिरूपेण भासते । भेदस्तु भ्रान्तिवशादिति ।
है
पाठा०- •१ उदधिसंपदम्, २ दिवस ३ परिपीत ४ समुनगत्त. ५ निर्मलां; निर्ममाम्॰
●