कादम्बरी /317
This page has not been fully proofread.
२८४
कादम्बरी ।
[ कथायाम-
गया प्रहपङ्गधेव ध्रुवप्रतिबद्धया क्रुद्धयेष रोगरक्तमुखवर्णया मत्तयेव धूर्णितमैन्द्रतारयोन्म-
तयेवा ने ककृततालया मीमांसयेवानेकभावनानुविद्धया गीत्या देवं विरूपाक्षमुपवीणयन्तीम्,
अतिमधुरगीतावकृष्टैर्ध्यानमिवाभ्यस्यद्भिनिश्चलकर्णपुटैर्मृगवराहवानरवारणशरभसिंहप्रभृति-
भिर्वनचरैराबद्धमण्डलैराकर्ण्यमान गीतानुविद्धविपञ्चीनिंघोषाम्, अमरापगामिव नभसोडव-
तीर्णाम् दीक्षितवाचमिवाप्राकृताम्, त्रिपुरारिशरशलाकामिव टॅपोमयीम्, पीतामृतामिव वि-
.)
✔
तु
सिद्धश्च यया सा तया । कयेव । हारलतयेव मुक्तास्रजेव । ग्रहेति । ग्रहाणां नक्षत्राणां पङ्क्तिः श्रेणिस्तयेव ।
उभयोः साम्यमाह—ध्रुवेति । ध्रुवो गीतशास्त्रे प्रसिद्धस्तेन प्रतिबद्धया रचितया । पक्षे ध्रुव औत्तानपादिः ।
क्रुद्धयेव कुपितयेव । उभयोः साम्यार्थमाह - रागरतेति । रागाः श्रीरागादयस्तै रक्ता मिश्रिता मुखे
प्रारम्भे वर्णा अक्षराणि यस्यां सा तया । पक्षे रक्तो लोहितो मुख आये वर्णो यस्याः सा तया । मत्तयेव क्षीब-
येव । एतयोस्तुल्यतां प्रदर्शयन्नाह - घूर्णितेति । घूर्णिता घोलनां प्राप्ता मन्द्रा उरः प्रदेशोद्भवास्ताराः शिरः -
समुद्भवाः स्वरा यस्यां सा तया । पक्षे घूर्णिताः प्रचलायिता मन्द्रा अलसास्तारा यस्यामिति विग्रहः ।
उन्मत्तेति । उन्मत्त येवोन्मादवायुग्रस्तयेव । उभयोः शब्दसादृश्यमाह - अनेकेति । अनेके बहवः कृता
विहितास्तालाः कालक्रियामानरूपा यस्यां सा तया । पक्षे ताला हस्तसंयोगाः । मीमांसेति । मीमांसा
विचारणा तयें । " मीमांसा तु विचारणा' इति कोशः । उभयोः सादृश्यार्थमाह - अनेकेति । अनेका
विविध प्रकारा या भावना घोलनाविशेषास्तैरनुविद्धया स्थूतया । पक्षे भावना शब्दनिष्ठा, अर्थनिष्ठा, यागादि-
वृत्त्यनुकूलाख्यातार्थरूपा। पुनः प्रकारान्तरेण तामेव विशेषयन्नाह - आकये॑ति । आकर्ण्यमानः श्रूयमाणो
गीतानुविद्धो गानसंयुक्तो विपच्या वल्लक्या निर्घोषो निनादो यस्याः सा ताम् । कैः । वनचरैररण्यचारिभिः ।
अथ वनचरान्विशेषयन्नाह - आवद्धेति । आबद्धं रचितं मण्डलं वलयाकारेणावस्थितियैः । अतीति ।
अतिमधुरं कर्णसुखदं यद्गीतं गानं तेनावकृष्टैराकृष्ठैः । निश्चलेति । निश्चलानि स्तिमितानि कर्णपुटानि येषां
तैरत एव ध्यानं चित्तवृत्तिनिरोधमभ्यस्यद्भिरिवाभ्यासं कुर्वद्भिरिव । मृगेति । मृगाः कुरङ्गाः, वराहाः क्रोडाः,
वानरा गोलाङ्गूलाः, वारणा हस्तिनः, शरभा अष्टपदाः, सिंहा हर्यक्षाः, एते प्रभृतय आया येषां तैः । तदा -
श्रितगीर्तस्य प्रवाहरूपत्वेनाह - अमरेति । अमरापगा गङ्गा तामिव । अत्र कथं तस्याः संभव इत्याशङ्ख्याह-
नभस इति । नभस आकाशादवतीर्णामागताम् । दीक्षितः सोमयाजी तस्य वाग् भारती तामिव । उभयोः
साम्यमाह - अप्राकृतेति । अप्राकृताममानुषधर्मिणीम्, उत्तमकुलोत्पन्नां वा । पक्षेऽप्राकृतां साधुशब्दमयीम् ।
दीक्षितस्य प्राकृतवाङ्किषेधादिति भावः । कान्त्याधिक्यमाशाह — त्रिपुरारीति । त्रिपुरारमहादेव-
स्तस्य शरः शिलीमुखस्तस्य शलाकेषिका तामिव । उभयोस्तुल्यतामाह - तप इति । तपोमयीं तपस-
स्तेजोरूपत्वात् । पक्षे तेजोमयीं प्रकाशरूपाम् । ईश्वरबाणस्य लोहमयत्वादिति भावः । आन्तरगुणवर्णनद्वारा
• तामेव विशेषयन्नाह - पीतेति । पीतमाखादितममृतं पीयूषं यया सैवंभूतामिव । एतयो: साम्यमाविष्कुर्व
-
।
टिप्प० – 1 'उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः । कनिष्ठश्च चतुर्भिः स्याद् ध्रुवकोयं मयो-
दितः ॥' संगीतदामोदरम् । 2 मण्डपिकायां परितो विसृताः । 3 घूर्णिते मदोद्रेकाच्चञ्चले मन्दे अलसे
तारे ( कनीनिके ) यस्यास्ताम् । इत्यर्थ उचितः । 4 मूर्च्छनाः । 5 'भावनानाम भवितुर्भवनानुकूलो
'भावयित्तुर्व्यापारविशेषः, सा च द्विविधा ।' लौगाक्षिभास्करः । 6 अयमपि प्रलापः, 'कन्यकायाः श्चैत्य-
निर्मलत्वाभ्यामुत्प्रेक्षामाह -' इत्युचितम् । 7 नारायणरूपेति यावत् ।
पाठा० --१ रक्तमुख, २ पूर्णित, ३ मन्द, ४ उन्मत्तयांनेक. ५ उपवर्णयन्तीम् ६ घोषाम् ७ तेजोमयी म्.