This page has not been fully proofread.

महाश्वेता ]
 
पूर्वभागः ।
 
२८३
 
स्वकालोपसर्पिणा निर्विकारेण विनीतेन शिष्येणेवोपास्यमानाम्, लावण्येनापि कृतपुण्येनेव
स्वच्छात्मना परिगृहीताम्, रूपेणापि रुचिरलोचनेन विगतचापलेनायतनमृगेणेव सेविताम्,
उत्सङ्गगतां च स्वसुतामिव सूक्ष्मदन्तैखण्डिकाङ्गुलीयैकापूरिताङ्गुलिना त्रिपुण्डूकावशिष्टभस्म-
पाण्डुरेण प्रकोष्ठबद्धशखण्डकेन नखमयूखदन्तुरतया गृहीत दन्तकोणेनेव दन्तमयीं दक्षिण-
करेण वीणामास्फालयन्तीम्, प्रत्यक्षामिव गन्धर्वविद्याम्, मणिमण्डपिकास्तम्भलग्नाभिरात्मा
नुरूप।भिः सहचरीभिरिव सवीणाभिर्विलासवतीभिः प्रतिमाभिरुपेताम्, अपनाईलिङ्गसंक्रा-
न्तप्रतिबिम्बतयातिप्रबलभक्त्याराधितस्य हृदयमिव प्रविष्टां हरस्य, हारलतयेव प्राप्तकण्ठयो-
स्वकालोपसर्पिणा निजसमयप्राप्तेन निर्विकारेण विकृतिवर्जितेन विनीतेने प्रसूतेनैवंभूतेन शिष्येणेव
विनेयेनेव । यौवनस्यापि खकालोपसर्पित्वादिगुणविशिष्टत्वेन तत्साम्यमिति भावः । लावण्येति । लावण्यं
चातुर्यं तेन परिगृहीतां स्वीकृताम् । केनेव । स्वच्छात्मना निर्मल चित्तेन कृतपुण्येनेन सुकृतिनेव । अत्र
स्वच्छात्मत्वमेवोभयसाम्यम् । रूपेति । रूपं सौन्दर्य तेनापि सेवितामाश्रिताम् । केनेव । रुचिरलोचनेन
मनोहरनेत्रेण विगतं चापलं चापल्यं यस्मादेवंभूतेनायतनमृगेणेव गृहसारङ्गेणेव । अत्र चारुलोचनलं विगत-
चापललं चोभयोः साम्यम् । पुनः किं कुर्वतीम् । दक्षिणकरेणापसव्यपाणिना दन्तमयीं गजदन्तप्र-
चुरां वीणां वल्लकीमास्फालयन्तीं वादयन्तीम् । अथ वीणां विशिष्टि - उत्सङ्गेति । उत्सङ्गगतां क्रोडप्राप्तां
वसुतामिव निजात्मजामिव । अथ दक्षिणकरं विशेषयन्नाह - सूक्ष्मेति । सूक्ष्मा स्निग्धा या दन्तखण्डि कं
नागदन्तशकलं तस्य यान्यङ्गुलीयकान्यङ्गुलीभूषणानि तैरापूरिता आकीर्णा व्याप्ता अङ्गुलयो यस्य स तेन ।
त्रिपुण्ड्रमिति । त्रिपुण्डुकात्तिलक विशेषादव शिष्टमुर्वरितं यद्भस्म तेन पाण्डुरेण श्वेतेन । प्रकोष्ठेति । प्रकोष्ठः
कलाचिका तत्र बद्धो यः शङ्खस्तस्य खण्ड एव खण्डकः । स्वार्थे कः । जलजशकलं यस्मिन्स तेन । श्वेतत्वसा-
म्यादाह - नखेति । नखाः पुनर्भवास्तेषां मयूखाः किरणास्ते दन्तुरा उन्नता यस्मिंस्तस्य भावस्तत्ता तया
गृहीत आत्तो दन्तस्य कोणो वीणादिवादनं येन स तेनेव । 'कोणो वीणादिवादनम्' इति कोशः । प्रत्यक्षेति ।
प्रत्यक्षामिन्द्रियगोचरां गन्धर्वविद्यामिव देवगायन विद्यामिव । मणिमण्डपिकानां स्वच्छतया तेषु प्रति-
बिम्बवशादाह - मणीति । मणिमण्डपिका रत्ननिर्मिता चतुष्किका तस्याः स्तम्भलग्नाभिरात्मानुरूपाभिरा-
त्यसदृशीभिः । 'यादृशं रूपे तादृशं प्रतिबिम्बे' इत्युक्तेः । सवीणाभिः सवल्लकीभिः प्रतिमाभिरात्मच्छायाभिः
सहचरीभिरिव सपर्याकारिणीभिरिवोपेतां सहिताम् । स्नपनेति । स्नपनेन प्रक्षालनेन । एतेनागन्तुकमल-
निवृत्तिः सूचिता । तेनार्द्रं यलिङ्गं तत्र संक्रान्तं प्रविष्टं यत्प्रतिबिम्बं तस्य भावस्तत्ता तथा । अतीति ।
अतिप्रबलत्युत्कृष्टा या भक्तिराराध्यत्वेन ज्ञानं तयाराधितस्य सेवितस्य हरस्येश्वरस्य हृदयमिव चित्तमिव
प्रविष्टां प्रवेशं कृतवतीम् । पुनः किं कुर्वतीम् । विरूपाक्षं देवं गीत्या गानेनोपवीणयन्तीं स्तुवन्तीम् । अथ
गीर्ति विशेषयन्नाह — हार इति । प्राप्तः कण्ठयोगो निगरणसंबन्धो रागाणामवस्थाविशेषो गीतशास्त्रप्र-
टिप्प० -1 शिक्षाजनित विनम्रतावाहिना । 2 सूक्ष्मा: ( अस्थूला: ) दस्तखण्डकाकुलीयकापूरिताः
( हस्तिदन्तखण्डनिर्मितानि यान्यङ्गुलीयकानि तैरापूरिताः ) अङ्गुलयो यस्य तेनेति स्पष्टोऽर्थः । 3 नख-
मयूखानां दन्तुरतया उन्नततया ( अर्थात् प्रसारिनखमयूखतया ) । 4 स्तम्भेषु प्रतिबिम्बिताभिरित्यर्थः ।
 
पाठा० - १ स्वकालोपसर्पिनिर्विकारविनीतेन; स्वकालोपसर्पिणा निर्विकारविनीतेन. २ निषेविताम्. ३ शङ्ख•
खण्डिका; शङ्खघटित ४ पूरित; पूत. ५ अवशेष. ६ कोशेनेव. ७ सवीणाभि: प्रतिमाभिः• ८ हारलेखया,