कादम्बरी /315
This page has not been fully proofread.
२८२
[ कथायाम्-
मिच्छद्भिस्तारका रूपेणागतैरामलकी फलस्थूलैर्मुक्ताफलैरुपरचितेनाक्षवलयेनाधिष्ठित कण्ठभा-
गाम्, परिवेषपरिगतचन्द्रमण्डलामिव पौर्णमासीनिशाम्, अधोमुखहरशिरः कपालमण्डला-
कारेण मोक्षद्वारनियुक्तकलशकान्तिना स्तनयुगलेनैकै हंसमिथुनसनाथामिव गङ्गाम्, गौरी-
सिंहसटामयेनेव चामररुचिराकृतिना स्तनयुगलमध्यनिबद्धग्रन्थिना कल्पतरुलतावल्कलेन
कृतोत्तरीयकृत्याम्, अयुग्मलोचनसकाशात्प्रसादलब्धेन चूडामणिचन्द्रमयूखंजालेनेव मण्ड-
लीकृतेन ब्रह्मसूत्रेण पँवित्रीकृतकायाम्, आम्रपदीनेन च स्वभावसितेनापि ब्रह्मासनबन्धो-
तानाचरणतल प्रभापरिष्वङ्गालोहितायमानेन दुकूलपटेन प्रावृतनितम्बाम्, यौवनेनापि
€
कादम्बरी
गतैः प्राप्तैः सप्तर्षिभिरिव । एतेन मुक्ताफलानां नक्षत्रसाम्यम् । परिमाणविशेषं प्रदर्शयन्नाह - आमेति ।
आमलकी शिवा तस्याः फलानि तद्वत्स्थूलैः स्थविष्ठेरेवंविधैर्मुक्ताफलै रसोद्भवैरुपरचितेन निर्मितेनाक्षवलयेन
जपमालिकयाधिष्ठित आश्रितः कण्ठभागो निगरण प्रदेशो यस्याः सा ताम् । परीति । परिवेषः परिधि-
स्तेन परिगतं सहितं चन्द्रमण्डलं शशिबिम्बं यस्यामेतादृशीं पौर्णमासी निशामिव राकारात्रिमिव । मण्डला-
कारत्वेनात्र वलयस्य परिवेषसाम्यम् तस्या मुखस्य च चन्द्रसाम्यम् तस्याश्च पौर्णमासीसाम्यम् । अथ
पुनस्तत्कुचयुगलं तच्छ्यामत्वपीनत्ववर्णनद्वारा तामेव वर्णयन्नाह - अध इति । ऊर्ध्वमुखे कपाले श्यामता
नास्तीत्यतोऽधोमुखं यद्धरशिरःकपालं तद्वन्मण्डलाकारेण वर्तुलाकृतिना । हरपददानेन स्तने धवलत्वं द्यो-
त्यते । ईश्वरस्य॑ धवलत्वात् । मोक्ष इति । मोक्षो महानन्दस्तस्य द्वारे नियुक्तौ स्थापितौ यौ कलशौ निपौ
तद्वत्कान्तिः शोभा यस्य स तेन । एवं विधेन स्तनयुगलेनोपलक्षिताम् । कामिव । एकं यद्धंस मिथुनं
चक्राङ्गयुग्मं तेन सनाथां सहितां गङ्गामिव जाह्नवी मिव । पुनः किं विशिष्टाम् । कल्पतरवो मन्दारास्तेषां
सरलत्वेन लतोपमानं, तस्या वल्कलेन चोचेन कृतमुत्तरीयमुपसंव्यानं तस्य कृत्यं कार्य यस्याः सा ताम् । अथ
वल्कलं विशेषयन्नाह – चामरेति । चामरं वालव्यजनं तद्वद्रुचिरा मनोहराकृतिराकारो यस्य स तेन ।
प्रलम्बत्वेन श्वेतत्वेन च तत्साम्यमिति भावः । स्तनेति । स्तनयुगलस्य मध्ये निबद्धो ग्रन्थियः स तेन ।
उज्ज्वलवसाम्यादुत्प्रेक्षते — गौरीति । गौरी पार्वती तस्याः सिंहो मनस्तालस्तस्य या सटा जटा तन्मयेनेव
तद्विकारेणेव । पुनः किंविशिष्टाम् । मण्डलीकृतेन वर्तुलीकृतेन ब्रह्मसूत्रेण यज्ञोपवीतेन पवित्रीकृतः पाव-
नीकृतः कायो देहो यस्याः सा ताम् । अथ ब्रह्मसूत्रं विशिष्टि - अयुग्मेति । अयुग्मलोचन ईश्वरस्तस्य
सकाशात्समीपात्प्रसादः प्रसन्नतां तेन लब्धेन प्राप्तेन । चूडेति । चूडामणीभूतो यश्चन्द्रस्तस्य मयूखाः
किरणास्तेषां जालेनेव समूहेनेव । प्रकारान्तरेण तामेव विशेषयन्नाह – दुकूलेति । दुकूलपटेन क्षौमवस्त्रेण
प्रावृतावाच्छादितौ नितम्बावारोहौ यस्याः सा ताम् । अथ दुकूलपटं विशेषयत्राह - आप्रपदीनेति ।
आपदव्यापकेन । त स्यादाप्रपदीनं व्याप्नोत्य हि यत्' इति कोशः । तेन स्वभावतः
प्रकृत्या सितेनापि शुभ्रेणापि ब्रह्मासनं ध्यानासनं तस्य बन्धो रचनाविशेषस्तेनोत्तानमूर्ध्वमुखं यञ्चर-
णयोः पादयोस्तलं तस्य प्रभा कान्तिस्तस्याः परिष्वङ्गात्संश्लेषालोहितायमा नेनारुणायमानेन । एतेन चरण-
तलयोरारुण्यातिशयो व्यञ्जितः । पुनः कीदृशीम् । यौवनेनापि तारुण्येनाप्युपास्यमानां सेव्यमानाम् । केनेव ।
-
टिप्प० - 1 इदमपि टीकाकृतो मौढ्यमेव । हरशिरसि यत् कपालम् ( नरकपालम्) तत्तु स्वभावतः
श्वेतमेव भवति । 2 यस्येत्युचितम् । 3 'स्यात्रिष्दाप्रपदीनं तत्' इत्यमरकोशपाठः ।
पाठा० -१ पौर्णमासीम् २ मोक्षद्वारकलशं; मोक्षपुरद्वारकलश ३ एकगतहंस, ४ वेतगङ्गाम, ५ चीराकृतिना.
६ पवित्रतरीकृत, ७ यौवनेनादिष्टेनोपसर्पिणा.