This page has not been fully proofread.

महाश्वेता ]
 
पूर्वभागः ।
 
विरलवारिकणतया प्रणामलग्नपशुपति चरणभस्मचूर्णाभिरिव जटाभिरुद्भासितशिरोभागाम्,
जटापाशप्रथितमुत्तमाङ्गेन मणिमयं नामाङ्कमीश्वरचरणद्वय मुद्वहन्तीम्, रविरथतुरङ्गखुर-
क्षुण्णनक्षत्रक्षोद विशदेन भस्मना कृतललाटपट्टिकाम्, शिखरशिलाश्लिष्टशशाङ्ककलामिव शैल-
राजमेखलाम्, अतुलभक्तिप्रसाधितया र्लेक्ष्यीकृतलिङ्गयापरैयेव पुण्डरीकमालया दृष्ट्या
संभावयन्तीं भूतनाथम्, अनवरतगीत परिस्फुरिताधरपुटवशादतिशुचिभिः शुद्धहृदयमयूखै-
रव गीतगुणैरिव स्वरैरिव स्तुतिवर्णैरिव मूर्तिमद्भिर्मुखान्निष्पतद्भिर्दशनांशुभिः पुनरपि
रुपयन्तीं गौरीनाथम्, अतिविमलैश्च वेदार्थैरिव साक्षात्पितामहमुखादाकृष्प्रैर्गायत्रीवर्णैरिव
ग्रंथन स्फीततामुपगतै नरायणनाभिपुण्डरी कबी जै रिवोद्धृतैः सप्तर्षिभिरिव कैरस्पर्शपूतमात्मान-
२८१
 

 
नावस्थिता अभ्यन्तरे लग्ना ये विरलाः स्तोका वारिकणा जलविप्रुषस्तेषां भावस्तत्ता तया । वारिकणानां
श्वेतत्वादाह — प्रणामेति । प्रणामो नमस्कारस्तत्र लग्नं पशुपतेरीश्वरस्य चरणभस्म पादविभूतिक्षोदो याखेवं-
भूताभिरिव । जटापाशे जटाजूटे प्रथितं गुम्फितम् । मणीति । भक्तिविशेषप्रकटनार्थं मणिनिर्मितं रत्नघटितं
नाम्नो मूलबीजस्याहिं यस्मिन्नेवंभूतमीश्वरचरणद्वयं शंभुपादयुगलमुत्तमाङ्गेन शिरसोद्वहन्तीं धारय-
न्तीम् । रविरिति । रविरथस्य सूर्यस्यन्दनस्य ये तुरङ्गा अवास्तेषां खुराः शफास्तैः क्षुण्णानि चूर्णितानि
यानि नक्षत्राणि भानि तेषां क्षोदचूर्ण तद्वद्विशदेन निर्मलेन भस्मना विभूत्या कृता विहिता ललाटपट्टिका
पुण्ड्रविशेषो यया सा ताम् । ललाटस्य दृढत्वेन शिलारूपत्व ललाटपट्टिकायाश्च त्रिपुण्ड्ररूपत्वेनार्धचन्द्राकार-
लादाह – शिखरेति । शिखरशिलायां सानुशिलायां श्लिष्टा लग्ना शशाङ्ककला यस्यामेवंभूतां शैलराज-
मेखलामिव हिमाचलमध्यभागमिव । किं कुर्वतीम् । संभावयन्तीं संभावनाविषयी कुर्वतीम् । कम् । भूतनाथं
महादेवम् । कया । दृष्ट्या । श्वेतत्वसाम्यादाह — अपरया भिन्नया पुण्डरीकमालयेव सिताम्भोजपङ्कथेव । अथ
दृष्टिं विशेषयन्नाह — अतुलेति । अतुला निरुपमा या भक्तिराराध्यत्वेन ज्ञानं तया प्रसौधितया प्रसन्नया ।
लक्ष्यीति । लक्ष्यीकृतं ध्यानावलम्बनीकृतं लिङ्गं स्थावरं यया सा तया । पुनस्तामेव विशेषयन्नाह -
अनवेति । अनवरतं निरन्तरं यद्गीतं गानं तेन परिस्फुरितः प्रचलितो योऽधरपुट ओष्ठपुढस्तद्वशान्मुखादा-
स्यान्निष्पतद्भिः क्षरद्भिर्दशनांशुभिर्दन्तदीप्तिभिः । पुनरपि पूजाप्रारम्भे स्त्रपितत्वाद्वितीयवारमपि गौरीनाथं
महादेवं स्त्रपयन्तीं स्नपनं कुर्वतीम् । अथ दशनां शूनिवशिष्टि - अतीति । अतिशयेन सर्वाधिक्येन
शुचिभिः पवित्रैः । अतिनैर्मल्यादाह - शुद्धेति । शुद्धं निर्मलं यद्धृदयं चेतस्तस्य मयूखाः किरणास्तैरिव ।
गीतेति । गीतानां गुणा मधुरत्वादयस्तैरिव । स्वरेति । स्वराः षड्जादयस्तैरिव । स्तुतीति । स्तुतिर्नु
तिस्तस्या वर्णैरिवाक्षरैरिव । वर्णानां तावत्कालं स्थातुमशक्यत्वात्तदभावादाह - मूर्तिरिति । पुनस्तां विशे-
षयितुमक्षवलयगतमुक्ताफलान्यादौ विशेषयन्नाह
– अतीति । अतिबिमलैरतिनिर्मलैर्वेदा ऋक्प्रभृतयस्तेषा-
मर्थैरिवाभिधेयैरिव । तस्यां तदसंभवमाशङ्ख्याह - साक्षादिति । पितामहमुखात्प्रजापति वदनात्साक्षादव्यव-
धानादाकृष्टेरिवाकर्षितैरिव । गायत्रीति । गायत्री मन्त्र विशेषस्तस्या वर्णैरक्षरैरिव । वर्णानाममूर्त लात्तद-
संभवादाह — ग्रथनेति । प्रथनेन रचनाविशेषेण स्फीततां पुष्टतामुपगतैः प्राप्तैः । अतिश्वेतत्वसाम्यादाह -
नारा इति । नारायणस्य जनार्दनस्य नाभिपुण्डरीकं नाभिकमलं तस्य बीजैरिवोत्पत्तिनिदानैरिव उद्धृतैः ।
सप्तर्षीति । करस्पर्शेन हस्तसं श्लेषेण पूतं पवित्रमात्मान मिच्छद्भिर्वान्छद्भिस्तारकारूपेण नक्षत्रस्वरूपेणा-
-
 

 
टिप्प० - 1 न किल चन्दनचर्चा ललाटपट्टिका इति प्रसिद्धा । अत एव 'भस्मनालंकृतललाटपट्टि-
काम्' इत्येव पाठः । भस्मना अलंकृतो ललाटपट्टो भालस्थलं यस्याः तामिति तदर्थः । 2 सभक्तिदर्शनेन
आद्रियमाणाम् । 3 अलंकृतरूपेण सज्जितया । 4 'कमलगट्टा' इति भाषाख्यातः
 
पाठा० - १तुरग. २ खुरमुख ३ अलंकृत ४ लक्ष्मीकृत ५ द्वितीययेव ६ गीतस्फुरित ७ गुणैरिव; स्तुतिवर्णै-
रिव॰ ८ गौरीपतिम्. ९ विमलै : १० ग्रथनताम्; ग्रथनाम् ; ग्रथिताम् ; ग्रन्थिताम्० ११ करतल.
३६ का०