This page has not been fully proofread.

२८०
 
कादम्बरी ।
 
[ कथायाम्-
9
 
मुदीक्षमाणाम् शेषशरीरच्छायामिव रसातलमपहाय निर्गताम्, मुसलायुधदेहप्रभावि
मधुमद विघूर्णनायास विगलिताम्, शुक्लपक्षपरंपरामिव पुञ्जीकृताम्, सर्वहंसैरिव धवलतया
कृतसंविभागाम् धर्महृदयादिव विनिर्गताम्, शङ्खादिवोत्कीर्णाम्, मुक्ताफला दिवाकृष्टाम्,
मृणालैरिव विरचितावयवाम् दन्तदलैरिव घटिताम्, इन्दुकरकूर्चकैरिवाक्षालिताम् ;
वर्णसुधाच्छटाभिरिवाच्छुरिताम्, अमृतफेनपिण्डैरिव पाण्डुरीकृताम्, पारदरसधाराभिरिव
धौताम्, रजतद्रवेणेव निर्मृष्टाम्, चन्द्रमण्डलादिवोत्कीर्णाम्, कुटजकुन्द सिन्दुवारकुसुम-
कुछ विभिरिवोल्लासिताम्, इयत्तामिव धवलिम्नः, स्कन्धावलम्बिनीभिरुदयतटगतादर्कबिम्बा-
दुद्धृत्य बालरश्मिप्रभाभिरिव निर्मिताभिरुन्मिषत्तडित्तरलतेजस्ताम्राभिरचिरस्नानावस्थित-
"
 
.9
 
शेषेति । शेषो नागराजस्तस्य यच्छरीरं तस्य च्छाया कान्तिस्तामिव । अत्र कथं तस्या आगम इत्याका-
यायामाह - रसेति । रसातलं भूतलमपहाय त्यक्त्वा निर्गतां बहिरागताम् । मुसलेति । मुसलायुधो
बलभद्रस्तस्य या देहप्रभा शरीरद्युतिस्तामिव । तस्या अत्रासंभवमाशङ्कयाह - मध्विति । मधुमदेन काद-
म्बरीमवेन यद्विघूर्णन॑' देहभ्रमस्तस्माद्य आयासः खेदस्तेन विगलितां च्युताम् । शुक्लेति । शुक्लपक्षस्तस्य
परंपरा संततिस्तामिव । तस्या एकत्रावस्थितेरभावादाह - पुञ्जीति । पुञ्जीकृतामेकत्रीकृताम् । सर्वेति ।
धवलतया श्वेततया सर्वहंसैः समग्रसितच्छदैः कृतो विहितः संविभागः स्वश्वैत्यार्पणं यस्याः सा तामिव ।
धर्मेति । धर्मो वृषस्तस्य हृदयाद्वक्षसो विनिर्गतामिव । शङ्ख इति । शङ्खाजलजादुत्कीर्णामिवोत्कीर्य
निर्मितामिव । मुक्तेति । मुक्ताफलाद्र सोद्भवादाकृष्टामिवाकर्षितामिव । मृणालेति । मृणालैस्तन्तुलैर्विर-
चिता विहिता अवयवा अपघना यस्याः सा तामिव । दन्तेति । दन्ता हस्तिमुखरदनास्तेषां दलैः
खण्डैर्घटितामिव निर्मितामिव । इन्दुरिति । इन्दुश्चन्द्रस्तस्य करा अंशवस्त एव कूर्चकाः कुञ्चिकास्तैरा-
क्षालितामिव धौतामिव । वर्णेति । वर्णा शुक्ला । 'वर्णः स्वर्णे मखे तौ । रूपे द्विजादौ शुक्लादौ
'कथायामक्षरे गुणे' इत्यनेकार्थः । एतादृशी या सुधा गृहधवलीकरणद्रव्यं तस्याश्छटाभिः पृषद्भिराच्छुरिता-
मिवाच्छोटितामिव । अमृत इति । अमृतस्य पीयूषस्य ये फेनाः पिण्डाः डिण्डीरसमूहास्तैः पाण्डुरीकृतामिव
शुक्लीकृतामिव । पारदेति । पारदो रसेन्द्रस्तस्य रसो द्रवस्तस्य धाराः पयस्ताभिर्भौतामिव क्षालितामिव ।
रजेति । रजतं रौप्यं तद्रवेण तद्रसेन निर्मृष्टामिव निघर्षितामिव । चन्द्र इति । चन्द्रमण्डलं शशिबिम्बं
तस्मादुत्कीर्णामिवोत्कीर्य कर्षितामिव । कुटजेति । कुटजो गिरिमल्लिका, कुन्दः प्रसिद्धः, सिन्दुवारो
निर्गुण्डी, एतेषां कुसुमानि तेषां छवयः कान्तयस्ताभिरुल्लासितामिव प्रगुणीकृतशोभामिव । धवलि -
म्नेति । धवलिम्नः श्वेतिम्न इयत्तामिवैतावत्त्वमिव । परमावधिमिवेत्यर्थः । अत्र सर्वत्र श्वेतत्वसाम्यादुपमा
नोपमेयभावः । न तु व्यर्थता । पुनः प्रकारान्तरेण विशेषयन्नाह - जटाभिरिति जटा सटास्ताभिरुद्भा
सित उत्प्राबल्येन शोभितः शिरोभाग उत्तमाङ्गप्रदेशो यस्याः सी ताम् । अथ जटा विशेषयन्नाह - स्क
न्धेति । स्कन्धो भुजान्तरं तत्रावलम्बिनीभिरवलम्बितुं शीलं यासां ताभिः । तासामारक्तत्वं वर्णयन्नाह -
उदयेति । उदय उदयाचलस्तस्य तटं प्रस्थं तत्र गतात्प्राप्तादर्क बिम्बात्सूर्यमण्डलादुद्धृत्य निष्कास्य बालर-
शिमलातपस्तस्य प्रभाभिः कान्तिभिर्निर्मिताभिरिवोत्पादिताभिरिव । उन्मिपदिति । उन्मिषन्ती स्फुरन्ती
या तडिद्विद्युत्तस्या यत्तरलं चञ्चलं तेजस्तद्वत्ताम्राभिः श्वेतरक्ताभिः । अचिरेति । अचिरं यत्स्नानमाप्लवस्ते-
टिप्प० - 1 पर्यन्ततो भ्रमणम्, 'धुर घूर्ण भ्रमणे' इति धातुपाठात् । 2 इदमपि पाण्डित्याभिनय-
मात्रम् । वर्णकारिणी सुधा वर्णसुधा ( शुक्लवर्णकारिणी सुधा 'कली' इति ख्याता ) इति स्पष्टोऽर्थः ।
पाठा०- - १ निर्गताम् ; उद्गताम्. २ प्रक्षालिताम् ३ छुरिताम् ४ सिन्धुवार, ५ उदयिताअ. ६ गतार्क •
७ तडित्तन्तुतरल.