कादम्बरी /312
This page has not been fully proofread.
महाश्वेता ]
पूर्वभागः ।
,
,
शरीरिणीमिव रुंद्रोद्धूलनभूतिम्, णाविर्भूतां ज्योत्स्नामिव हरकण्ठान्धकार विघट्टनोद्यमप्राप्ताम्,
गौरी मैनः शुद्धिमिव कृतदेहपरिग्रहाम्, कार्तिकेयकौमारव्रतक्रियामिव मूर्तिमतीम्, गिरिशें-
वृषभदेहधुतिमिव पृथगवस्थिताम्, आयतनतरुकुसुमसमृद्धिमिव शंकराभ्यर्चनाय स्वयमुद्य-
ताम्, पितामहत्तपःसिद्धिमिव महीतलमवतीर्णाम् आदियुगप्रजापतिकीर्तिमिव सप्तलोक-
भ्रमणखेद विश्रान्ताम् त्रयीमिव कलियुगध्वस्तधर्मशोकगृहीतवनवासाम्, आगामिकृतयुग
बीजकलामिव प्रमदारूपेणावस्थिताम् देहवतीमिव मुनिजनध्यानसंपदम् अमरगजवीथी-
मिवाभ्रगङ्गाभ्यागमवेगपतिताम्, कैलासश्रियमिव दशमुखोन्मूलनक्षोभनिपतिताम् श्वेत-
द्वीपलक्ष्मीमिवान्यद्वीपावलोकनकुतूहलागताम् काशकुसुमविकासकान्तिमिव शरत्समय-
€
."
२७९
-
भस्मेव । प्रकाशरूपत्वसाम्येनाह - ज्योत्स्नेति । आविर्भूता प्रकटीभूता ज्योत्स्ना कौमुदी तामिव ।
हरेति । हरकण्ठे यः कृष्णत्वसाम्यादन्धकारस्तस्य विघट्टनं दूरीकरणं तत्र य उद्यमः प्रयत्नस्तेन प्राप्तां
समागताम् । हरसंनिधानसाम्येनाह - गौरीति । गौरी पार्वती तस्या मनःशुद्धिश्चित्तनैर्मल्यं तामिव । अमू-
तया मूर्तेन कथं साम्यं स्यादित्याह- कृतेति । कृतो विहितो देहस्य परिग्रहः स्वीकारो यया सा ताम् ।
सातिशयत्वसाम्येनाह – कार्तीति । कार्तिकेयस्य षडाननस्य या कौमारव्रतक्रिया बाल्यावस्थायां यत्तपोनु-
ष्ठानं तामिव । अत्रापि क्रियारूपत्वेन तदसंभवादाह - मूर्तीति । मूर्तिमतीम् । सशरीरामित्यर्थः । गिरि-
शेति । गिरिशो महादेवस्तस्य यो वृषभो बलीवर्दस्तस्य देहद्युतिः शरीरच्छविस्तामिव । तस्या गुणरूपत्वेन
तदुपमानाभावादाह–पृथगिति । शरीराद्वहिर्निर्गय पृथगवस्थिताम् । सशरीरामित्यर्थः । आयतनेति ।
आयतनं चैत्यं तस्य तरवो वृक्षास्तेषां कुसुमसमृद्धिः पुष्पसंपत् तामिव । तस्या आगमने निदानमाह - शंक
रेति । शंकरस्येश्वरस्याभ्यर्चनं पूजनं तदर्थं स्वयमुद्यतामुद्योगयुक्ताम् । पितेति । पितामहस्य ब्रह्मणो या
तपःसिद्धिस्तामिव । तपः सिद्धेरात्मगतत्वेनोपमानाभावादाह - महीतलेऽवतीर्णां कृतावताराम् । आदीति ।
आदियुगे कृतयुगे यः प्रजापतिर्ब्रह्मा मरीच्यादयश्च तस्य तेषां वा कीर्तिर्यशस्तामित्र । तस्या एकत्रावस्थाने
कारणमाह - सप्तेति । सप्तसु लोकेषु यद्भ्रमणं पर्यटनं तस्माद्यः खेदः श्रमस्तेन विश्रान्तामुपविष्टाम् ।
त्रयीति । ऋग्यजुःसामवेद स्त्रयी तामिव । एतस्यास्तत्रागमने हेतुमाह - कलीति । कलियुगेन
कलिकालेन ध्वस्तो दूरीकृतो यो धर्मो वृषस्तस्माद्यः शोकः शुक् तेन गृहीतः स्वीकृतो वनवासोऽरण्यनिवासो
यया सा ताम् । इयमपि ध्वस्तधर्मशोकेन गृहीतवनवासेत्युभयोः साम्यम् । धर्मातिशयवचनसाम्येनाह-
आगामीति । आगाम्यग्रेभावी यः कृतयुगस्तस्य या बीजकला निदानमात्रं तामिव प्रमदारूपेण स्त्रीरूपेणाव-
स्थितामासेदुषीम् । देहेति । देहवतीं शरीरधारिणीं मुनिजना वाचंयमास्तेषां ध्यानं प्राणायामस्तस्य
संपत् समृद्धि: तामिव । अमरेति । अमरा देवास्तेषां हस्तिनस्तेषां वीथी ततिस्तामिव ।
गजसमूहस्य तत्रागमने निदानमाह - अभ्रेति । अभ्रगङ्गाकाशगङ्गा तस्यांमभ्यागमः संमुखगमनं तत्र यो
वेगस्त्वरा तेन पतितां स्रस्ताम् । कैलासेति । कैलासो रजताद्रिस्तस्य श्रीः शोभा तामिव । कीदृशीम् ।
दशेति । दशमुखो रावणस्तन यदुन्मूलनं तस्माद्यः क्षोभस्त्रा सस्तस्मान्निपतितां सस्ताम् । इयमपि क्षोभेण
निपतिता । श्वैल्यातिशयं वर्णयन्नाह – श्वेतेति । यत्र सर्वमेव वस्तु श्वेतं तच्छ्रेतद्वीपं तस्य या लक्ष्मीः
श्रीस्तामिव । सा श्वेतद्वीप एव, नास्मिन्प्रदेश इत्याह - अन्येति । इतरद्वीपानां यदवलोकनं वीक्षणं तदेव
कुतूहलमाश्चर्यं तेनागतां प्राप्ताम् । काश इति । काश इति इषीका तस्य कुसुमानि पुष्पाणि तेषां विकासो
विकसनं तस्य कान्तिः प्रभा तामिव । कीदृशीम् । शरत्समयं घनात्ययकालमुदीक्षमाणां प्रतीक्षमाणाम् ।
टिप्प० -1 अमोयम् । काशा: 'काँस' इति भाषायां ख्यातस्तृणविशेषः ।
पाठा० -१ हर. २ विभूतिम्, ३ तपःसिद्धिम् ४ गिरीश ५ द्वीपान्तर
shematiy