This page has not been fully proofread.

२७८
 
कादम्बरी ।
 
[कथायाम्-
त्मकमङ्गे निष्पादनोपकरणकलापं धवलगुणेनेव केवलेनोत्पादिताम्, अध्वरक्रिया मिवोद्भूत-
गणक चमहभयोपसेवितत्र्यम्बकाम्,
 
राधनाम्, क्षीरोदाधिदेवतामिव
 
9
 
रतिमिवै मदनदेहनिमित्तं हरप्रसादनार्थमा गृहीतहरा-
सहवास परिचितहरचन्द्रलेखोत्कण्ठाम् इन्दुमूर्तिमिव
स्वर्भानुभयकृतत्रिनयनशरणगमनाम् ऐरावतदेहच्छविमिव गजाजिनावगुण्ठनोत्कण्ठित
शितिकण्ठचिन्तितोपनताम्, पशुपतिदक्षिणमुखहासच्छविमिव बहिरंगत्य कृतावस्थानाम्,
 
."
 
-
 
स्वरूपमपहाय । ननु द्रव्यत्वाभावेऽङ्गानि शरीरावयवास्तन्निष्पादने या उपकरणसामध्यपेक्षिता सा न
स्यात् । तस्याश्च द्रव्यात्मककार्ये जननेऽसामर्थ्यादत आह - अङ्गेति । तदप्यपहाय । न चाभाव एव
दूषणम् । अलौकिक प्रसिद्धेः दूषणस्यैव भूषणत्वात् । अध्वरक्रियायाः स्त्रीत्वमाश्रित्याह- अध्र इति ।
अध्वरो दक्षस्य यज्ञस्तस्य किया कर्म तामिव । उभयसादृश्यमाह - उद्धतेति । उद्धता अनार्या ये गणा
मनुष्यवृन्दाः पार्षदाश्च तैर्यः कचग्रहः केशग्रहस्तस्माद्यद्भयं तेनोपसेवितः सपर्याविषयीकृतरूयम्बक ईश्वरो
यया सा ताम् । दक्षप्रजापतिनाध्वर ईश्वरो नाहूतः । तेन गणाः प्रेषिताः । तैरध्वरविनाशो विध्वस्त इति
पुराणप्रसिद्धम् । रतिरिति । रतिर्मनोभवस्य स्त्री तामिव । उभयोः साम्यं स्पष्ट माह- मदनेति ।
मदनेन कंदर्पेण पीडितो यो देहः शरीरं तन्निमित्तं तदर्थम् । मदनोपशान्त्यर्थमित्यर्थः । सा च हरप्रसन्नतायां
स्यादित्याशयेनाह - हर इति । हरस्येश्वरस्य प्रसादनार्थं प्रसत्त्या आगृहीता स्वीकृता हराराधनेश्वरसपर्या
यया सा ताम् । मदनस्य देह इव देहो यस्यैवंविधः पुण्डरीकमुनिस्तन्निमित्तं तदर्थमित्यर्थो वा । पक्षे
मदनदेहनिमित्तम् । शेषं पूर्ववत् । ईश्वरेण कंदर्पदेहो भस्मसात्कृतः, पश्चाद्रत्येश्वरं सेवया प्रसन्नीकृत्य नवीन-
देहः कारित इति पुराणप्रसिद्धम् । क्षीरोदेति । क्षीरसमुद्रस्याधिदेवताधिष्ठात्री लक्ष्मीस्तामिव । उभयं विशे-
षयन्नाह -- सहेति । महादेवस्य निकटे कन्याया महाश्वेतायाश्चन्द्रलेखासहवासात्परिचितिविशेषतो दृष्टायां
हरचन्द्रलेखा यामुत्कण्ठाद्भुतातिशयो यस्याः सा ताम् । पक्षे क्षीरोदधौ समुद्रे यः पूर्वचन्द्रेण सहवासस्तेन
परिचिता निर्णीता हरस्य चन्द्रकला तस्यामुत्कंठा रणरणकं यस्या इति बहुव्रीहिः । इन्दुरिति । इन्दु-
श्चन्द्रस्तस्य मूर्तिः शरीरं तामित्र । उभयोः सादृश्यार्थमाह - स्वर्भानुरिति । स्वर्गतो योऽत्युचो भानुः
सूर्यस्तस्यातपलक्षणं भयं तस्मात्कृतं विहितं त्रिनयनस्य शम्भोरछायावशाच्छरणे गृह आगमनं यया सा
ताम् । पक्षे स्वर्भानुः सैहिकेयः । शरणार्थं त्राणार्थम् । शेषं पूर्ववत् । ऐरावतेति । ऐरावतो हस्तिमल-
स्तस्य देहच्छवि: शरीरत्वक् तामिव । उभयोः साम्यमाह - गजेति । गजाजिनेन हस्तिचर्मणावगुण्ठनमा-
च्छादनं तस्मिन्नुत्कण्ठितो यः शितिकण्ठो महादेवस्तस्य चिन्तितं समीहितमुपनतं पूरितं यया सा ताम् ।
पक्षे गजाजिनावगुण्ठनोत्कण्ठितेश्वरस्य चिन्तितेनापेक्षयोपनतां प्राप्ताम् । पशुपेति । पशुपतिरीश्वरस्तस्य
दक्षिणमुखस्यापसव्याननस्य यो हासो हास्यं तस्य छविः शोभा तामिव । अत्र दक्षिणग्रहणं प्रायशस्तत्र
हास एवेति तदर्थम् । उभयोः साम्यमाह - बहिरिति । स्वस्थानान्मुखाच्च बहिरागत्य कृतमस्थानं यये
त्यभङ्गश्लेषः । श्वेतत्वपवित्रत्वसाम्यादाह — शरीरिणीं देहधारिणीं रुद्रस्येश्वरस्योद्धूलनमर्दनं तस्य भूतं
 
-
 
टिप्प० - 1 'अध्वरक्रियामिव' इति सामान्यतः पाठाश्रयणमज्ञानम्, नहि सामान्ययज्ञे केशाकर्षणं
विहितम् । तस्मात् 'दक्षाध्वरक्रियामिव' इत्येव पाठ उचितः । 2 अशुद्धमिदम्, गणाः प्रमथा इत्येवो-
चितम् । 3 प्रलापप्रायमिदम् । राहोर्भयेन कृतं त्रिनयनस्य शिवस्य शरणगमनं यथा ईदृशीं चन्द्रस्य
मूर्तिमिव । अस्मिन्नर्थे महाश्वेतापक्षे योजनस्य काssवश्यकता ? एवमग्रेपि बोध्यम् ।
 
पाठा० •१ मङ्गल. २ एवं. ३ दक्षाध्वर. ४ उद्धृत ५ निरन्तर भस्मोलुण्ठनसिताङ्ग रतिम्. ६ क्षीरोदधि.
७ उत्कण्ठाकृष्टाम्; उत्कण्ठो कृष्टाम्. ८ शरणागमना, ९ निर्गत्य,