कादम्बरी /310
This page has not been fully proofread.
महाश्वेता ]
पूर्वभागः ।
२७७
तस्य च दक्षिणां मूर्तिमाश्रित्याभिमुखीमासीनाम्, उपरचितब्रह्मासनाम्, अतिविस्ता-
रिणा सर्वदिङ्खलावकेन प्रलयविद्भुत क्षीर पयोधिपूरपाण्डुरेणातिदीर्घकालसंचितेन तपोराशि-
नेव सर्वतो विसर्पता पादपान्तरैत्रिस्रोतोजलनिभेन पिण्डीभूय वहतेव देहप्रभावितानेन
सगिरिकाननं देन्तमयमिव तं प्रदेशं कुर्वतीम्, अन्यथैव धवलयन्त कैलासगिरिम्,
अन्तर्द्रष्टुरपि लोचनपथप्रविष्टेन श्वेतिमानमिव मनोनयन्तीम्, अंतिधवलप्रभापरिगतदेहतया
स्फटिकगृहगतामिव दुग्धसलिलममामिव विमलचेलांशुकान्तरितामिव आदर्शतलसंक्रान्तामिव
शरद भ्रपटलतिरस्कृतामिव अंपरिस्फुटविभाव्यमानावयवाम् पञ्चमहाभूतमयमपहाय द्रव्या-
.)
चतुर्मुखस्तम् । ननु महादेवस्य पञ्चवऋत्वात्कथमत्र चतुर्मुखोपवर्णन मिति वाच्यम् । सामान्यतस्तन्निवासिनः
प्रयोजनवशाच्चतुर्मुखस्यापि संभवात् ।
तस्य त्र्यम्बकस्य दक्षिणामपसव्यां मूर्ति प्रतिमामाश्रित्याश्रयणं कृत्वाऽभिमुखीं संमुखीमासीनां निषण्णां प्रति-
पनं स्वीकृतं पाशुपतमीश्वरसक्तं व्रतं नियमविशेषो यया तां कन्यकां महाश्वेताभिधानां ददर्शेति दूरेणान्वयः ।
इतः कन्यकां विशेषयन्नाह - उपेति । उपरचितं निर्मितं ब्रह्मासनं ध्यानासनं यया सा ताम् । पुनः किं कुर्व-
तीम् । सगिरिकाननं तं प्रदेश दन्तमयमिव गजदन्तनिर्मितमिव कुर्वतीं प्रणयन्तीम् । केन । देहप्रभावितानेन
शरीरकान्तिकलापेन । अथ प्रभावितानं विशेषयन्नाह - अतीति । अतिशयेन विस्तारिणा प्रसरणशीलेन ।
सर्वेति । सर्वदिङ्मुखानां प्लावकेनाच्छादकेन । प्रलयेति । प्रलयः कल्पान्तस्तेन विलुतो विस्तृतो यः क्षीर-
पयोधिस्तस्य पूरो रयस्तद्वत्पाण्डुरेण शुभ्रेण । उज्वलत्वसाम्यादाह — अतीति । अतिदीर्वोऽत्यायतो यः का-
लोऽनेहा तेन संचितेनैकत्रीकृतेन विसर्पता प्रचलता तपोराशिना तपःसमूहेनेव । अतिस्वच्छत्वादाह -
पादपेति । पादपान्तरैर्वृक्षान्तरैः प्रतिबन्धकीभूतैः पिण्डीभूय समूहीभूय वहतेव त्रिस्रोतोजलनिभेन गङ्गा-
म्भःसदृशेन । कैलासस्य श्वेतत्वादेतस्य च तदतिशयवत्त्वादाह - अन्यथेति । भिन्नप्रकारेण तेनैव देहप्रभा
वितानेन कैलासगिरिं रजताद्रिं धवलयन्तीं श्वेतिमानमापादयन्तीमिव । द्रष्टुरिति । तेनैव प्रभावितानेन
द्रष्टुरपि विलोकयितुरप्यन्तर्लोचनपथप्रविष्टेन नेत्रमध्यमार्गगतेन मनश्चित्तं श्वेतिमानं शुक्लिमानं नयन्तीमिव
प्रापयन्तीमिव । अतीति । अतिधवलातिशुभ्रा या प्रभा कान्तिस्तया परिगतो व्याप्तो देहो यस्यास्तस्या
भावस्तत्ता तया । तथा च देहस्य प्रभारूपस्वच्छद्रव्यान्तरितत्वान्न परिस्फुटं विभाव्यमाना ज्ञायमाना
अवयवा अपघना यस्याः । स्वच्छद्रव्यान्तरितत्वसाम्येनोत्प्रेक्षते - स्फटिकेति । स्फटिकञ्चन्द्रकान्तस्तस्य
गृहं धाम तत्र गतामिव प्राप्तामिव । दुग्धेति । दुग्धसलिले क्षीरोदे मनामिव ब्रुडितामिव । विमलेति ।
विमलं निर्मलं यच्चेलांशुकं वस्त्रविशेषस्तेनान्तरितामिव व्यवहितामिव । आदर्शति । आदर्शतलं मुकुरतले
तत्र संक्रान्तामिव प्रतिबिम्बितामिव । शरदिति । शरद्धनात्ययस्तस्या अभ्रपटलानि मेघवृन्दानि तैस्ति-
रस्कृतामन्तर्हितामिव । अपरिस्फुटावयवत्वादेवाशङ्कते – पञ्चेति । पञ्चमहाभूतमयं पृथिव्यायात्मकं द्रव्य-
रूपमङ्गनिष्पादनोपकरणकलापं शरीरजनकसामग्रीमपहाय दूरीकृत्य केवलेन धवलगुणेनैवोत्पादितां निर्मि-
ताम् । शौक्लयातिशयवत्त्वादिति भावः । केचिदपहायेत्यस्योभयंत्र संबन्धमाहुः । तथा - धवलगुणे-
नेवोत्पादितायास्तस्याः पृथिव्याद्यनात्मकत्वे द्रव्यत्वमेव न स्यादित्यत आह - द्रव्येति । द्रव्यात्मकं
www
टिप्प० - 1 अज्ञानमेवेदम् । 'तदूर्ध्वभाग: संजातश्चतुर्वऋश्चतुर्भुजः । पद्मकेशरगौराङ्गकायो ब्रह्मा
महेश्वरः ॥' इति कालिकापुराण ( द्वादशाध्याय ) वचनाचतुर्मुखी अपि शिवस्य मूर्तिः । दक्षिणाभि
मुखीमित्यर्थः । 3 'चन्द्रमयमिव' इत्येव पाठः कविहृदयानुकूलः, प्रमाणं चात्र सहृदयहृदयम् ।
पाठा०
-१ अभिमुखम् २ परिप्लुत ३ पयोधिपयःपूर ४ तपोराशिनैव विसर्पता ५ हृतमयम् ; चन्द्रमयम्.
६ लोचनपथं प्रविश्य ७ अतिबहल, ८ चीनांशुक ९ परिस्फुट