This page has not been fully proofread.

२७६
 
कादम्बरी ।
 
[ कथायाम्-
कैलास पादस्य ज्योत्स्नावदातया प्रभया धवलयतस्तं प्रदेशं भूतलभागसंनिविष्टं भगवतः
शूलपाणे: शून्यं सिद्धायतनमपश्यत् ।
 
,
 
सच्च पवनोद्वैतैरितस्ततः समापतद्भिः केतकीगर्भधूलिभिर्धवलीक्रियमाणकायः पशुपति-
दर्शन हेतोर्बलादिव प्रतिपाद्यमानो भस्मव्रतमायतनप्रवेशपुण्यैरिव परिगृह्यमाणः प्रविश्या-
द्राक्षी चतुः स्तम्भस्फटिक मण्डपिकातलप्रतिष्ठितम् अचिरोद्भूतैरार्द्रार्दलशिखरगलज्जलबिन्दु-
भिरूविपाटित चन्द्रबिम्बदलैरिव निजागृहासावयवैरिव शेषफणाशकलैरिव पाञ्चजन्यसहो-
दरैरिव क्षीरोदहृदयाकारैरुपपादित मौक्तिक मुकुट विभ्रमैः शुचिभिर्मन्दाकिनी पुण्डरीकैः कृता-
चैनम् अमलमुक्ताशिलाघटितलिङ्गम् अशेषत्रिभुवनवन्दितचरणम्, चराचरगुरुम्,
चतुर्मुखम् भगवन्तं त्र्यम्बकम् ।
 
,
 
,
 

 
,
 
प्रागेवोक्तः । अथ कैलासपादं विशेषयन्नाह - ज्योत्स्नेति । ज्योत्स्ना कौमुदी तद्वदवदातया शुभ्रया प्रभया
कान्त्या तं प्रदेशं तत्पार्श्ववर्तिभूभागं धवलयतो धवलीकुर्वतः ।
 
तञ्चेति । तदायतनं प्रविश्य तन्त्र प्रवेशं कृत्वा भगवन्तं माहात्म्यवन्तं त्र्यम्बकं गौरीनाथमद्राक्षीद्ददर्शेत्य-
न्वयः । अथ चन्द्रापीडं विशेषयन्नाह - पवनेति । पवनेन वायुनोद्धूतैः कम्पितैरितस्ततः समापतद्भिर्यत्रतत्र
निपतद्भिः केतक्याः प्रसिद्धाया गर्भधूलिभिर्मध्यरेणुभिर्धवली क्रियमाणेः शुश्रीक्रियमाणः कायो देहो यस्य सः ।
पाण्डुरत्वसाम्येनाह - पशुरिति । पशुपतेरीश्वरस्य यद्दर्शनमवलोकनं तस्य हेतोः तदर्थमित्यर्थः । बलादिव
हठादिव भस्मतं विभूतिव्रतं प्रतिपाद्यमान इवाङ्गीक्रियमाण इव । धूलीनां शुचित्वात्पुण्यानामपि तथाविध-
त्वात् तत्साम्येनाह — आयेति । आयतनं चैत्यं तत्रः यः प्रवेशस्तस्माद्यानि पुण्यानि श्रेयांसि तैः परिगृह्यमाण
इवोपादीयमान इव । अथ सिद्धायतनं विशेषयन्नाह - चतुरिति । चत्वारः स्तम्भाः स्थूणा यस्यामेतादृशी या
स्फटिकमण्डपिका चन्द्रकान्तलघुमण्डपस्तस्यास्त लेऽधोभागे प्रतिष्ठितमवस्थितम् । पुनः कीदृशम् । शुचिभिः
पवित्रैर्मन्दाकिनी स्वर्धुनी तस्याः पुण्डरीकैः सिताम्भोजैः कृतं विहितमर्चनं पूजनं यस्य तत् । अथ पुण्डरीकाणि
विशेषयन्नाह–अचिरेति । अचिरोद्भूतैः स्वल्पकालोत्खातैरार्द्राणि चार्द्राणि चार्द्रार्द्राणि तैः । जलखिन्नैरि-
त्यर्थः । दलेति । दलानां पत्राणां शिखराण्यग्रभागास्तेभ्यो गलन्तः स्रवन्तो जलस्याम्भसो बिन्दवो विप्रुषो
येषु तैः । गलज्जलबिन्दुसाम्येनोत्प्रेक्षते - ऊर्ध्वेति । ऊर्ध्वं विपाटितं भिन्नं यच्चन्द्रबिम्बं शशिमण्डलं तस्य
दलैः खण्डैरिव । तत्राप्यमृतस्य गलद्विन्दवो भवन्तीति भावः । अत्र शुक्लत्वसाम्यादाह - निजेति । निजः
स्वकीयो योऽट्टहासो महान्हासस्त स्यात्र यवैरिवापघनैरिव । शेषेति । शेषस्य नागाधिपतेः फणा स्फटा तस्याः
शकलैः खण्डैरिव । अर्धविकसितत्वसाम्यादाह - पाश्चेति । पञ्चजने पाताले भवः पाञ्चजन्यो जनार्दनशङ्ख
स्तस्य सहोदरैरेकोदरसमुत्पन्नैरिव । हृदयस्य पुण्डरीकाकारत्वात्तत्साम्येनाह - क्षीरेति । क्षीरोदस्य यद्धृदयं
स्वान्तं तद्वदाकार आकृतिर्येषां तैः । अग्रसंकुचितत्वसाम्येनाह - उपेति । उपपादितो विहितो मौक्तिकानां
रसोद्भवानां मुकुटविभ्रम उष्णीषभ्रान्तिर्यैः । अथ स्थावररूपमधिकृत्य त्र्यम्बकं विशेषयन्नाह – अमलेति ।
अमला निर्मला या मुक्ताशिला मौक्तिकशिला तस्या घटितं निर्मितं लिङ्गं यस्य स तम् । जङ्गमरूपमधिकृ
त्याह - अशेषेति । अशेषं यत्रिभुवनं त्रिविष्टपं तेन वन्दितौ नमस्कृतौ चरणौ यस्य स तम् । चरेति ।
चराचरस्य जीवलोकस्य गुरुं हिताहितप्राप्तिपरिहारोपदेष्टारम् । चतुरिति । चत्वारि मुखानि यस्य स
 
टिप्प० - 1 गर्भधूलिभिरिति पाठस्वीकारः प्रामादिकः । 'पवनोद्धूतैः' इति पुंविशेषणाऽयोगात् ।
'स्त्रियां धूलिः' इति कोशोक्तेः । तस्मात् 'धूलिपटलै' रिति पाठ उचितः । 2 अर्थात् केतकधूलिभिर्धवली-
क्रियमाणो नास्ति किंतु सिद्धाश्रमप्रवेशजन्यैः शुचिभिः पुण्यैरेव गृहीतशरीर इत्याशयः । 3 'अचिरो-
द्धृतैः' इत्येव पाठ उचितः ।
 
पाठा० - १ तलभागनिविष्टम्. २ शूलपाणे: सिद्धायतनम् ३ उद्धृतैः ४ समाघट्टद्भिः
६ अचिरोद्धतैः . ७ आर्द्रार्द्रदलशिखर; आर्द्रार्द्रशिखर.
 
G
 
"
 
५ धूलिधवलैः.