This page has not been fully proofread.

शिव-सिद्धायतनम् ]
 
पूर्वभागः ।
 
२७५
 
भिरिव प्रलम्बवालपल्लव स्पृष्टभूतलैः अप्रमत्तपार्थिवैरिव पर्यन्तावस्थित बहुगुल्मकैः, दशितै-
रिव भ्रमरसंघातकवचावृतकायैः, प्रेमाणाभिमुखैरिव वानरकराङ्ग लिस्पृष्ठगुजैः, अवनिपा-
लशयनैरिव सिंह पादाङ्किततरुतलैः आरब्धपश्चतपः क्रियै रिवोच्छिखशिखिमण्डल परिवृतैः,
दीक्षितैरिव कृतकृष्णसारविषाणकण्डूयनैः जरगृहमुनिभिरिव जैटालवालकैमण्डलघरैः,
इन्द्रजालिकैरिव दृष्टिहारिभिः पादपैः परिवृत्तं चन्द्रप्रभनाम्नस्तस्य सरसः पश्चिमे तीरे
 

 
"
 

 
महान्तोऽतिस्थूला ये करिणो हस्तिनस्तैरिव । उभयोस्तुल्यतां प्रदर्शयन्नाह - प्रलम्बेति । प्रलम्बा लम्बाय-
माना ये बालपल्लवा नवीन किसलयानि तैः करणभूतैः स्पृष्टं संघट्टितं भूतलमधः प्रदेशो येषां तैः । पक्षे बाल-
पल्लवाश्चमरप्रान्ताः । शेषं पूर्ववत् । शोभातिशयार्थ हस्तिनां कर्णे चामराणि बध्यन्त इति सर्वप्रसिद्धम् ।
अप्रमत्तेति । अप्रमत्ताः सावधाना ये पार्थिवा राजानस्तैरिव । एतयोः सादृश्यमाह - पर्यन्त इति । पर्यन्ते
प्रान्तेऽवस्थिता बहवोऽनेके गुल्मका गुच्छका येषु तैः । पक्षे गुल्मका: सेनाविशेषाः । 'एकेभैकरथा
त्र्यश्वा पत्तिः पञ्चपदातिका । सेना मुखं गुल्मः' इति कोशः । दंशितेति । दंशितैर्वर्मितैरिष । 'दंशितो
वर्मितः सज्जः' इति कोशः । एतयोस्तुल्यत्वमाह - भ्रमेति । भ्रमराणां शिलीमुखानां यः संघातः समूहः
स एव कवचं वर्म तेनावृत आच्छादितः कायो देहो येषां तैः । पक्षे भ्रमेरा आवर्तास्तेषां संघातः समूहो
येष्वेवंविधानि कवचानि संनाहाः । शेषं पूर्ववत् । प्रमाणेति । प्रमाणं तोलनं तत्राभिमुखाः संमुखास्तैरिव ।
उभयोः प्रकारान्तरेण भङ्गमाह - वानरेति । वानरा गोलाङ्गलास्तैः कराङ्गुलिभिः करशाखाभिः स्पृष्टा
आश्लिष्टा गुञ्जा येषु तैः । पक्षे वेति विकल्पार्थः । नराङ्गुलयो मनुष्याङ्गुलयः । शेषं पूर्ववत् । सुवर्णपरिमाणे
गुञ्जाया एव ग्रहणमिति लोकप्रसिद्धम् । अवनीति । अवनिपाला राजानस्तेषां शयनैस्तपैरिव । एतयोः
सादृश्यं प्रदर्शयन्नाह – सिंहेति । सिंहपादैर्हर्यक्ष चरणैरङ्कितानि चिह्नितानि तरुतैलानि वृक्षाधोभागा येषां
तैः । पक्षे सिंहपादेष्वकिता एतादृशानि तलानि । शेषं प्राग्वत् । आरब्धेति । आरब्धा प्रस्तुता पञ्चतपः-
क्रिया पञ्चाग्निसाधनकर्म यैस्तैरिव । एतयोः शब्दसादृश्यमाह - उच्छिखेति । उच्छिखमूर्ध्वचूडं यच्छि-
खिमण्डलं मयूरसमूहस्तेन परिवृतैः परिवेष्टितैः । पक्ष ऊर्ध्वं शिखा ज्वाला यस्यैवंभूतं शिखिमण्डलं वह्निम-
ण्डलम् । शेषं प्राग्वत् । दीक्षिता यज्ञे गृहीतव्रतास्तैरिव । एतयोः साम्यमाविः कर्तुमाह- कृतेति । कृतं
विहितं कृष्णसारैर्मृगैर्विषाणानां शृङ्गाणां कडूयनं कण्डूया येषु तैः । 'कण्डूः कण्ड्यनं खर्जूः कण्डूया' इत्यभि
धानचिन्तामणिः । पक्षे कृष्णसारविषाणेन कण्डूयनम् । शेषं प्राग्वत् । दीक्षितानामयमाचारो यन्मृगविषाणैः
कण्डूयनं विधीयत इति । जरेति । जरन्तो ज्यायांसो ये गृहमुनय आश्रमतापसास्तैः पञ्च(?) मुनीनामपल्यानि
न भवन्तीति गृहपदं तैरिव । एतयोः सादृश्यप्रदर्शनार्थमाह - जटेति । जटाः शिफाः, आलवालक आवापः
तस्य मण्डलं परिवेषस्तं धरन्तीति धरैः, पक्षे जटायुक्ता ये बालाः स्तनंधयास्त एव कैमण्डलधरा
पानीयसमूहधरा येष्विति बहुव्रीहिः । इन्द्रेति । इन्द्रजालिका मायिकास्तैरिव । उभयोः सादृश्यमाह-
दृष्टीति । दृष्टयो नेत्राणि तेषां हारिभिर्हरणशीलैः । नेत्राभिरामै रित्यर्थः । पक्षे दृष्टिवञ्चकैः । अन्वग्रस्तु
 
टिप्प० - 1 भ्रमरसंघात ( अमरसमूह )वत् स्थितैः (कृष्णवर्णैः ) कवचैः वर्मभिः आवृता देहा येषां
तैरिव कवचयुक्तवीरपुरुषैः । इत्यर्थो वाच्यः । 2 प्रमादोयं टीकाकृतो यदयं पाठः स्वीक्रियते-
- तस्मात्
'सिंहपादाङ्किततलैः' इत्येव पाठ: । केसरिणां पादैश्चरणचिह्नैरङ्कितानि तलानि तरुतलानि येषु इति
वृक्षपक्षे । सिंहानां पादैरिव पादै: पल्यङ्कपादकैश्चिह्नितानि तलानि शयनतलानि येषु तैरिति अवनिपाल-
पक्षेऽर्थः । 3 घिगिदम् । जटायुक्ता ये बालकास्तेषां मण्डलं समूहं घरन्तीत्यर्थः ।
 
पाठा०-
-१ संपात. २ प्रयाण. ३ पादाङ्किततः ४ दीर्घजटा. ५ कमण्डलु.