कादम्बरी /307
This page has not been fully proofread.
२७४
कादम्बरी ।
[ कथायाम्-
वस्थानैः, कुमुदैरिवादत्तदिनंकर प्रवेश शिशिराभ्यन्तरैः, दाशरथिबलैरिवाञ्जननीलनलपरिगत-
'प्रान्तैः, प्रासादैरिव सपारावतैः, भवनतापसैरिव संनिहितवेनासनैः, रुद्रैरिव नागलताबद्ध-
परिकरैः, उदधिकूलपुलिनैरिव निरन्तरोद्भिन्न प्रवाललताङ्कुरजालकैः, अभिषेकसलिलैरिव
सर्वौषधि कुसुमफल किसलयसनाथैः, आलेख्यगृहैरिव बहुवर्णचित्रपत्र शकुनिशतै संशोभितैः,
कुरुभिरिव भारद्वाजद्विजोपसेवितैः, महासमरमुखैरिव पुंनागसमाकृष्टशिलीमुखैः, महाकरि-
स्था॒नं॑ यैषा॑ तैः । पक्षे घनो मेघः । कुमुदैरिति । कुमुदानि कैरवाणि तैरिव । उभयोः साम्यमाह - अद्-
त्तेति । न दत्तो यो दिनकराणां सूर्यकिरणानां प्रवेशस्तेन शिशिरं शीतलमभ्यन्तरं मध्यभागो येषां तैरि-
त्यभङ्गश्लेषः । दाशेति । दाशरथी रामस्तस्य बलानि सैन्यानि तैरिव । अञ्जनेति । अञ्जनवन्नीलााने
यानि नलानि तृणानि तैः परिगतो व्याप्तः प्रान्तो येषां तैः । पक्षेऽञ्जननीलनलाः कपयः । शेषं पूर्ववत् ।
प्रासादेति । प्रासादा देवगृहास्तैरिव । 'प्रासादो देवभूपानाम्' इत्यभिधानचिन्तामणिः । भङ्गश्लेषमाह-
सेति । सह पारावतैर्मर्कटैर्वर्तमानाः सपारावतास्तैः । 'पारावतः कलरवे गिरौ मर्कटतिन्दुके' इत्यने-
कार्थः । पक्षे पारावतः कपोतः । भवनेति । भवने गृहे स्थिता ये तापसाः परिव्राजका स्तरिव । एतत्सा-
म्यमाह - संनीति । संनिहिताः समीपवर्तिनो वेत्रा वृक्षविशेषा असनाः प्रियका येषां तैः, पक्षे संनिहि-
तानि वेत्रासनानि विष्टरविशेषा येषामिति बहुव्रीहिः । रुद्वैरिति । रुद्रा- ईश्वरा एकादश तैरिव । एत-
साम्यमाह -- नागेति । नागलता ताम्बूली । 'ताम्बूलवली ताम्बूली नागपर्यायवल्लयपि' इत्यभिधानचि-
न्तामणिः । तया बद्धः परिकरः परिधिर्येषां तैः । पक्षे नागाः सर्पा एव लता तया बद्धः, अर्थाजटायाः
परिकरो येषामिति बहुव्रीहिः । उदधीति । उदधेः समुद्रस्य कूलं तटं तस्य पुलिनानि जलोज्झित प्रदेशा-
स्तैरिव । 'पुलिनं तज्जलोज्झितम्' इति कोशः । उभयोः सादृश्यमाविष्कुर्वन्नाह – निरन्तरमिति ।
निरन्तरं सततमुद्भिन्नानि प्रकटितानि प्रवाला नत्रपलवा लताङ्कुरा वल्लीप्ररोहाश्च तेषां जालकानि वृन्दानि
येषु तैः । पक्षे प्रवाललंता विद्रुमलता । शेषं पूर्ववत् । अभीति । अभिषेकार्थं यानि सलिलानि जलानि
तैरिव । एतत्साम्यमाह - सर्वेति । सर्वाः समग्राश्च ता ओषध्यः फलपाकान्तास्तासां यानि कुसुमफल-
किसलयानि तैः सनाथैः सहितैः । पक्षे मङ्गलकर्मणि सर्वौषधी प्रसिद्धा । आलेख्येति । आलेख्यं चित्रं
तेन युक्तां गृहास्तैरिव । उभयोः सादृश्यमाह - वह्निति । बहुवर्णैरनेकरागैश्चित्राणि पत्राणि पिच्छानि येषा -
मेवंभूतानां शकुनीनां पक्षिणां शतं तेन संशोभितैर्विराजितैः । पक्षे बहुवर्णोपेतानि यानि चित्राण्यालेख्यानि
तेषु यानि पत्रा।णि बाह्यानि । शकुनयः पक्षिणः । शेषं पूर्ववत् । कुरुभिरिति । कुरवः कुरुवंशोद्भवा राजा-
नस्तैरिव । एतयोः सादृश्यमाह - भारेति । भारद्वाजा व्याघ्राटा ये द्विजाः पक्षिणस्तैरुपसेवितैः, पक्षे
भारद्वाजो द्रोणः । महेति । महान्ति प्रकृष्टानि यानि समरमुखानि सङ्ग्राम प्रारम्भास्तैरिव । 'मुखमुपाये
प्रारम्भे श्रेणिनिःसरणास्ययोः' इत्यनेकार्थः । एतयोः साम्यार्थमाह - पुंनागेति । पुंनागैरृक्षविशेषैः समाकृष्टाः
समाकर्षिताः शिलीमुखा भ्रमरा येषु तैः । पक्षे पुंनागाः प्रकृष्टपुरुषाः । शिलीमुखा बाणाः । शेषं पूर्ववत् ।
टिप्प० - 1 अशुद्धमिदम् । परिव्राजकानामासनप्रयोजनाभावात् । अत एव भवनतापसैरिव गृहस्थ-
तपस्विभिरिव इति व्याख्यानमुचितम् । 2 निरन्तरं उद्भिन्नं तरङ्गाघातेन उत्थितं विद्रुमलतानाम् क्षुद्र-
क्षुद्रखण्डसमूहो येषु तैरिति पूर्णपदस्यार्थः । 3 सुरामांसीत्यादयः पूर्वसूचिता इत्यर्थः । 4 नानारङ्गेषु
चित्रेषु यानि पत्राणि वाहनानि ( हस्त्यश्वादीनि ) शकुनयः पक्षिणश्च तेषां शतेन शोभितैरित्यर्थः ।
पाठा० -१ दिनकरकर. २ नीलनलाञ्जन, ३ शोभितैः ४ भारद्वाजोपसेवितैः; भारद्वाजद्विजोत्तमसेवितैः.