कादम्बरी /305
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
रुकुसुमपांसुपातिभिः, पशुपतिजटाबन्धार्तवासुकि परिपीतशेषैः, आह्लादिभिः पुण्यैः कैलास-
मारुतैरभिनन्द्यमानो गत्वा च तं प्रदेशं सर्वतो मरकतहरितैः, हारिहारीतरुतिरमणीयैः,
भ्रमद्भृङ्गराजनैखरजर्ज रितजरैठकुड्यलैः, उन्मदकोकिलकुल कवलीकृत सहकारकोमलाप्रपल्लवैः,
उन्मदषट्चरणचक्रवालवाचालितविकचचूतकलिकैः, अचकितच कोरचुम्बित मरिचाङ्कुरैः, च
म्पकपरागपुञ्जपिञ्जरकपि जलजग्धपिप्पलीफलैः फलभरनिकैरपीडितदाडिमनीडप्रसूतकल-
विङ्कः, प्रक्रीडितर्कपिकुलकरतलताडनतरलिततोडी पुढै, अन्योन्यकुँपितकैपोतपक्षपालीपौतित-
कुसुमैः, कुसुमरजोराशिसारसारिकाश्रितशिखरैः, शुकशत मुख नखशिखरशतकलितफलस्फीतैः,
२७२
कुसुमानि पुष्पाणि तेषां पांसवो रजांसि पातयन्तीत्येवंशीलास्तैः । पशुपतीति । पशुपतेरीश्वरस्य जटा
सटा तस्या बन्धो नियन्त्रणं तेनार्तः पीडितो यो वासुकिर्नागराजस्तेन परिपीता आस्वादितास्तेभ्यः शेषा
अवशिष्टास्तैराह्लादिभिः प्रमोदकारिभिः । तं प्रदेशं स्थानं गत्वा स चन्द्रापीडः पादपैर्वृक्षैः परिवृतं चन्द्रप्रभना-
म्नश्चन्द्रप्रभाभिधानस्य कैलासपादस्य रजताद्रिपर्यन्तपर्वतस्य तलभागनिविष्टमधोदेशस्थितं भगवतः
पाणेः शंभोः शून्यं जनवर्जितं भूतलभागे संनिविष्टं स्थापितं सिद्धायतनं चैत्यमपश्यदित्यन्वयः । अथ पाद-
पाविशेषयन्नाह – सर्वत इति । सर्वतः समन्तान्मरकतमश्मगर्भं तद्बद्धरितैनलितैः । हारीति । हारिणो
मनोहरा ये हारीता मृदङ्कुरास्तेषां रुतयः शब्दास्तै रमणीयैर्मनोहरैः । भ्रमदिति । भ्रमन्तश्चलन्तो ये
भृङ्गराजा धूम्याटाः पक्षिणस्तेषां नखरा नस्त्रास्तैर्जर्जरितानि श्लथीकृतानि जरठानि कठिनानि कुलानि
येषां तैः । उन्मदेति । उन्मदान्यत्युत्कृष्टमदयुक्तानि यानि कोकिलकुलानि पिकसमूहाः तैः कवलीकृता
भक्षिताः सहकारस्याग्रस्य कोमला मृदवोऽग्रपल्लवाः प्रान्तकिसलयानि येषु तैः । उन्मदेति । उन्मदा ये
षट्चरणा भ्रमरास्तेषां चक्रवालं समूहस्तेन वाचालिता मुखरीकृता विकचाः स्फुटाश्वतकलिकाः सहकार-
कोरका येषु तैः । अचकित इति । अचकिता अत्रस्ता ये चकोरा विषसूचकास्तैश्चुम्बिताश्चर्विता मरि-
चानां श्वेतशोभाजनानामङ्कराः प्ररोहा येषु ढैः । चम्पकेति 1 चम्पको हेमपुष्पकस्तस्य यः परागः पौष्पं
रजस्तस्य पुञ्जः समूहैस्तद्वत्पिञ्जराः पीतरक्ता ये कपिञ्जलास्तित्तिरास्तैर्जग्धानि भक्षितानि पिप्पल्या वैदेयाः
फलानि येषु तैः । फलेति । फलस्य भरो भारस्तस्य निकरः समूहस्तेन पीडिता बाधिता दाडिमाः करकास्तेषु
ये नीडाः कुलायास्तेषु प्रसूता जनिताः कलविङ्काः कुलिङ्गका येषु तैः । प्रक्रीति । प्रक्रीडितं क्रीडया प्रवृत्तं
यत्कपिकुलं गोलाङ्गूलसमूहस्तस्य करतलानि पाणितलानि तेषां ताडनेन प्रघातेन तरलितानि कम्पितानि तीडी-
पुटानि येषु तैः । अन्योन्येति । अन्योन्यं परस्परं कुपिताः कोपं प्राप्ता ये कपोताः पारावतास्तेषां पक्षपाल्यो
गरुद्वीथ्यस्ताभिः पातितानि सस्तानि कुसुमानि प्रसूनानि येषां तैः । कुस्विति । कुसुमानि पुष्पाणि
तेषां रजः परागस्तस्य राशिः समूहस्तदनुसारिण्यो याः सारिकाः पीतपादास्ताभिराश्रितानि व्याप्तानि शि-
खराणि वृक्षप्रान्ता येषां तैः । शुकेति । शुकानां कीराणां यच्छतं तस्य मुखान्याननानि नखा नखराश्च
टिप्प० - 1 'हरियल ' इति भाषायां ख्याताः पक्षिविशेषाः । 2 भृङ्गराजा भ्रमराः 'भृङ्गराजो मधु •
करे' इति हैम इति केचित् । 3 रजःपुञ्जेन ( अर्थात् तत्पतनेन ) पिञ्जरैरित्येवोचितम् । 4 चटका इव
प्रायः प्रसिद्धाः । 5 तालीपत्राणि । 6 'शारसारिका' इत्येव पाठः । रजोराशिना शाराः चित्राः याः
सारिका इति तदर्थः ।
पाठा० -१ बन्धनवासुकि. २ नख. ३ जठर ४ सहकारकोरकै: ५ चकोरचञ्चु. ६ निपीडित ७ विड-
दाडिमी. ८ चपलकपिलकपि. ९ नाडि, १० कलहकुपित. ११ कपोतपोतर्सहतलोललक्ष; कपोतपोतपक्ष. १२ पतित.
१३ सारसिकामिश्र. १४ शिशिरैः.