This page has not been fully proofread.

शिव-सिद्धायतनम् ]
 
पूर्वंभागः ।
 
२७१
 
अतिदवीयस्तया तु तस्य प्रदेशस्य प्रयत्नव्याप्तलोचनोऽपि विलोकयन्न किंचिद्ददर्श । तमेव
केवलमनवरतं शब्द शुश्राव । कुतूहलवैशाच गीतध्वनिप्रभवजिज्ञासया कृतगमनबुद्धिर्दत्तप
यणमिन्द्रायुधमारुह्य प्रियगीतैः प्रथमप्रस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवमी बैंकु-
लैलालवङ्गलवलीलतालोलकुसुमसुरभिपरिमलया लिकुलविरुतिमुखरितया तमालनीलया वि-
डागमदवीथ्येव पश्चिमया वैनलेखया निमित्तीकृत्य तं गीतध्वनिमभिप्रतस्थे ।
 
क्रमेण च संमुखागतैः, अच्छ निर्झर जलकणजालजनितज डिमभिः, जर्जरितभूर्जवल्कलैः,
धूर्जटिवृष रोमन्थ फेन बिन्दुवाहिभिः, षण्मुखशिखण्डिशिखा चुम्बिभिः, अम्बिकाकर्णपूरपल्ल
बोल्लासनदुर्ललितैः, उत्तरकुरुकामिनी कर्णोत्पलप्रेङ्खोलनदोहदिभिः, ओकम्पितककोलैः, नमे-
4
 
,
 
ककुभं प्रति चक्षुत्रं प्राहिणोत्प्रेरयामास । तस्येति । पूर्वोक्तप्रदेशस्य गीतस्थलस्यातिदवीयस्तयातिदूरतया
प्रयत्नेनात्युद्यमेन व्यापते व्यापारिते लोचने नेत्रे येनैवंभूतोऽपि विलोकयन्पश्यन्न किंचिद्ददर्शालोकया-
मास । केवलमनवरतं निरन्तरं तमेव शब्दं शुश्रावाकर्णयामास । कुतूहलेति । कुतूहलवशात्कौतुकवशाच
गीतध्वनेः प्रभव उत्पत्तिस्तस्य जिज्ञासा ज्ञातुमिच्छा तया कृता विहिता गमने बुद्धिर्येनैवंभूतः । दत्तेति ।
दत्तमारोपितं पर्याणं पल्ययनं यस्मिन्नेतादृशमिन्द्रायुधमश्वमारुह्यारोहणं कृत्वा तया पश्चिमया वनलेखया ।
तीरस्येति शेषः । तं पूर्वोत्तं गीतध्वनिं निमित्तीकृत्य निदानीकृत्याभिप्रतस्थे संमुख जगाम । किंविशिष्टः ।
उपेति । उपदिश्यमानः कथ्यमानो वर्त्म मार्गो यस्य सः । कैः । अप्रार्थितैरप्ययाचितैरपि वनहरिणैररण्य-
मृगैः । अथ तानेव विशिष्टि - प्रियेति । प्रियं वल्लभं गीतं गानं येषां तैरत एव प्रथममादौ प्रस्थितैः
प्रचलितैः । अथ वनलेखां विशेषयन्नाह – बकुलेति । बकुलः केसर: एला चन्द्रवाला । 'पृथ्वीका चन्द्रवा-
लैला निष्कुटिर्बहुला' इत्यमरः । लवङ्गो देवकुसुमवृक्षः, लवलीनाम्नी लता वल्लीविशेषः । तासां लोलानि चञ्च-
लानि कुसुमानि पुष्पाणि तेषां सुरभिघ्रणतर्पणः परिमलो गन्धो यस्यां सा तया । अलीति । अलिकुलानां
भ्रमरसमूहानां या विरुतिः शब्दविशेषस्तया मुखरितया वाचालितया । तमालेति । तमालास्तापिच्छास्तैन-
लयाऽसितया । श्यामत्वसाधर्म्यादाह - दिङ्गागेति । दिशां नागा हस्तिनस्तेषां मदवीथ्येव दानश्रेण्येव ।
क्रमेणेति । क्रमेण परिपाट्या चकारः पूर्ववत् । अथ चन्द्रापीडं विशिनष्टि-पुण्यैरिति ।
पुण्यैः पवित्रैः कैलासमारुतै रजताद्रिवायुभिरभिनन्द्यमान आनन्द्यमानः । अथ मारुतानां विशेषणानि ।
संमुखागतैरभिमुखागतैः । अच्छेति । अच्छानि निर्मलानि यानि निर्झरजलानि प्रस्रवणपानीयानि तेषां
कणा बिन्दवस्तेषां जालं समूहस्तेन जनित उत्पादितो जडिमा जाड्यं यैस्तैः । जर्जरितेति । जर्जरितानि
शिथिलीकृतानि भूर्जानां मृदुत्वचां वल्कलानि चोचानि येस्तैः । धूर्जटीति । धूर्जटिरीश्वरस्तस्य यो वृषो
बली वर्दस्तस्य रोमन्थश्चर्वितचर्वणं तस्य फेनो डिण्डीरस्तस्य बिन्दून्वहतीत्येवंशीला वाहिनस्तैः । षण्मु-
खेति । षण्मुखस्य कार्तिकेयस्य यः शिखण्डी मयूरस्तस्य शिखा चूडा तच्चुम्बिभिस्तत्स्पर्शकारिभिः । अम्बि
केति । अम्बिकायाः पार्वत्याः कर्णपूरस्य कर्णावतंसस्य यः पल्लवः किसलयं तस्योल्लासन मूवकरणं
तत्र दुर्ललितं दुश्चेष्टितं येषां तैः । उत्तरेति । उत्तरदिग्वर्तिनां कुरूणां क्षेत्रविशेषाणां याः कामिन्यः स्त्रिय-
स्तासां कर्णोत्पलानां श्रवणकुवलयानां प्रेङ्खोलने आन्दोलने दोहदोऽभिलाषो विद्यते येषां तैः । आकस्पीति ।
आकम्पिता आधूनिताः कक्कोलाः कोशफला यैस्ते तथा तैः । नमेर्विति । नमेरैवो वृक्षविशेषास्तेषां
 
a
 
टिप्प० - 1 येषां तैरित्यर्थ उचितः, मारुतानामेव शीतलत्वस्य वर्णनीयत्वात् । 2 छायावृक्षा: 'छाया•
वृक्षो नमेरुः स्यात्' इति 'स्त्रिग्धच्छायातरुषु वसतिम्' इति मेघदूत टीकायां मलिनाथवतः शब्दार्णवः ।
 
पाठा० - १ गीतशब्दम् २ प्रभवाच्च ३ ध्वनित ४ सप्तच्छदबकुल ५ सरस्तीरवन ६ अनिर्जरजल.
७ वृषभ, ८ उल्लसन ९ आकम्पित कमलैर्नवकुसुममालापांसुवाहिभिः; आकम्पितकङ्कोलैः.