कादम्बरी /303
This page has not been fully proofread.
२७०
कादम्बरी ।
[ कथायाम्-
लानि, शिशिरांशुरिव करायैः स्पृष्ट्वा कुमुदानि, फणीवाभिनन्ध जलतरङ्गवातान्, अनङ्गशर-
प्रहारातुर इवोरसि निधाय नलिनीदलोत्तरीयम्, अरण्यगज इव शीकरार्द्रपुष्करोपशोभित-
करः सैर:सलिलादुदगात् । प्रत्ययभन्न शिरैश्च समृणाल कैर्जलकणिकाचितैः कमलिनीपलाशै-
लतामण्डपपरिक्षिप्ते शिलातले स्वस्तरमास्तीर्य निधाय शिरसि पिण्डीकृतमुत्तरीयं निषसाद
मुहूर्तं विश्रान्तश्च तस्य सरस उत्तरे तीरप्रदेशे समुच्चरन्तमुन्मुक्तकवलेन निश्चलश्रवणपुटेन
तन्मुखीभूतेनोद्रीवेणेन्द्रायुधेन प्रथममाकर्णितं श्रुतिसुभगं वीणातत्रीझंकार मिश्रममानुषं
गीतँशब्दमशृणोत् । श्रुत्वा च कुतोऽत्र विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः संभूतिरिति समु-
पजात कौतुकः कमलिनीलसंस्तरादुत्थाय तामेव गीतसंपातसूचितां दिशं चक्षुः प्राहिणोत् ।
J
स्वादं कृत्वा । शिशिरांशुरिव हिमांशुरिव कुमुदानि कैरवाणि करायैर्हस्तायैः स्पृष्ट्वा स्पर्श कृत्वा । फणीव
भुजंग इव जलतरङ्गवातानम्भःकल्लोलसमीरानभिनन्द्य संस्तूय । अनङ्गशरप्रहारातुर इव कामबाणानुविद्ध
इव नलिनीदलोत्तरीयं कमलिनीपत्रवैकक्ष्यमुरसि वक्षसि निधाय संस्थाप्य । अरण्यगज इव वनकरीव शीकरे
णामुन्नं पुष्करं कमलं झुण्डाग्रं च तेनोपशोभितः करो हस्तः शुण्डा च यस्यैवंभूतश्चन्द्रापीडः । लतेति ।
लतार्लक्षणो यो मण्डपो जनाश्रयस्तेन परिक्षिप्ते वलयिते । 'परिक्षिप्तं वलयितम्' इति कोशः । एवंभूते
शिलातले पृथुप्रस्तरोपरि सस्तर मास्तीर्यास्तरणं कृत्वा ततः पिण्डीकृतं पिण्डतां प्रापितं यदुत्तरीयं निवसनं
शिरसि मस्तकस्याधोभागे निधाय संस्थाप्य निषसाद शयनं चकारेत्यन्वयः । कैः स्रस्तरं कृतवानित्याका-
ङ्खायामाह — कमलिनीति । कमलिनी नलिनी तस्याः पलाशैः पत्रैः । कीदृशैः । प्रत्यग्रं तत्कालं भग्नानि
खण्डितानि शिरींसि प्रान्तानि येषां तैः समृणालकैः सतन्तुलैः । स्वार्थे कप्रत्ययः । जलस्य पानीयस्य याः
कणिकाः सूक्ष्मविप्रुषस्ताभिराचितैर्व्याप्तैः । कियन्मात्रं सुप्त इत्याकाङ्क्षायामाह — मुहूर्तेति । मुहूर्त घट
काद्वयं विश्रान्तः कृतविश्रामः । चकारः समुच्चयार्थः । अथ च तस्य सरस उत्तर उत्तरदिक्संबन्धिनि
तीरप्रदेशे तटप्रदेशे चन्द्रापीडः सम्यक्प्रकारेणोत्प्राबल्येन चरन्तं प्रसरन्तं गीतशब्दं गेयध्वनिमशृणोदा-
कर्णयत् । एतद्विशेषयन्नाह — उन्मुक्तेति । उत्प्रावल्ये मुक्तस्त्यक्तः कवलो ग्रासो येन स तेन निश्चलं स्थिरं
श्रवणपुटं कर्णपुढं यस्य स तेन तन्मुखीभूतेन तदभिमुखीभूतेनोगी वेणोर्ध्वकन्धरेणैवं विधेनेन्द्रायुधेन प्रथममादा-
वाकर्णितं श्रुतम् । कीदृशम् । श्रुतिसुभगं कर्णमनोहरं वीणा वलकी तस्यास्तत्र्यः प्रसिद्धास्तासां झंका-
रोऽव्यक्तशब्दस्तेन मिश्रं संपृक्तम् । अमानुषम् । दिव्यमित्यर्थः । श्रुत्वेति । श्रुत्वाकर्ण्य । चारः पूर्ववत् ।
इति समुपजातं समुत्पन्नं कौतुक्रमाश्चर्य यस्य स तथा । इतिशब्दद्योत्यमाह — कुत इति । अत्र विगतमर्त्य-
संपातेऽमानुषे प्रदेशे गीतध्वनेः संभूतिः प्रभवः कुतः स्यात् । कमलिनीति । कमलिनी नलिनी तस्या दलैः
पत्रैर्यः संस्तरः प्रस्तरस्तस्मादुत्थायोत्थानं कृत्वा गीतसंपातेन गेयोत्पत्त्या सूचितां ज्ञापितां तामेव दिशं
।
टिप्प० - 1 कुमारपक्षे अङ्गुलिभिः, चन्द्रपक्षे किरणायैः । 2 संस्तुत्येति योग्यम् । 3 नलिनीदलरूप-
मुत्तरीयम् । 4 इदमपि भ्रामकम् । शीकरार्द्रं यत् पुष्करं ( कमलम् ) तेन उपशोभितः करः झुण्डा
यस्य सः ( करी ) । उपशोभित कर: ( हस्तः ) यस्य सः ( युवराजः ) । 5 मण्डपाकाराभिलताभिः
परिक्षिप्ते इत्यर्थ उचितः । 6 हम्त धिक् टीकाकारम् ! 'शिरैः' इति न तृतीयायां रूपं क्वचित्संभवति ।
'प्रत्यग्रभप्नशिशिरैः' इत्येव पाठः । प्रत्यग्रं भन्नानि च तानि शिशिराणीति तदर्थः ।
पाठा० --१ आनन्द्या. २ पिधाय. ३ मलिलात्. ४ शिशिरैः ५ मण्डलपरिक्षिप्त शिलातले ६ संस्तरम् ;
प्रस्तरम्. ७ गीतम्. ८ कुतोऽत्र. ९ उपजात. १० पत्रत्रस्तरात्.
0