This page has not been fully proofread.

जरूपान-विश्रामौ ]
 
२६९
 
भिंतम्, उपकूलशिलातलोपविष्टजलमानुषनिषेव्यमाणातपम् अभ्यर्णतया च कैला
 
स्नानागतमातृमंण्डलपदपङ्किमुद्राङ्कितम्,
 
अवकीर्ण भस्मसूचितमन्नोत्थितगणकदम्बकोडूल-
नम्, अवगाहावतीर्णगणपति गण्डस्थलगलितमदप्रस्रवणसिक्तम् अतिप्रमाणपादानुमीयमा-
नतृषितकात्यायनीसिंहावतरणमार्ग दक्षिणतीरमासाद्य तुरगादवततार ।
 
,
 
पूर्वभागः ।
 
S
 
अवतीर्य च व्यपनीतपर्याणमिन्द्रायुधमकरोत् । क्षितितललुठितोत्थितं च गृहीत
कतिपययवसप्रासं सरोऽवतार्य पीतसलिलमिच्छया स्नातं चोत्थाप्यान्यतमस्य समीपव-
तिनस्तरोर्मूलशाखायामपगतसैलीनं हस्तपाशशृङ्खलया कनकमय्या चरणौ बद्धा कृपाणि-
कावलूनान्क्षिप्त्वा चामतः कतिचित्सरस्ती रैदूर्वाप्रवालकवलान्पुनरपि सलिलमवततार ।
ततश्च प्रक्षालितर्केर युगलश्चातक इव कृत्वा जलमयमाहारम्, चक्राह्न इवास्वाद्य मृणालशक-
यानि रक्तकमलानि तैः शोभितं विराजितम् । उपेति । उपकूले तटसमीपे यानि शिलातलानि तत्रोपविष्टानि
स्थितानि जलमानुषाणि प्रसिद्धानि तैर्निषेव्यमाण सेव्यमानः आतपः सूर्यालोको यस्मिन् । कैलासस्य रजतानेर-
भ्यर्णतया समीपवर्तितया स्नानार्थमागतं यन्मातृमण्डलं ब्राह्मीप्रभृतीनां सप्तदेवीनां समुदायस्तस्य पदपङ्किश्चर-
णवीथी तस्या मुद्रा भूमौ तत्प्रतिकृतिरूपा तयाङ्कितं चिह्नितम् । अवकीर्णेति । अवकीर्णमितस्ततः पर्यस्तं
यद्भस्म भूतिस्तेन सूचितं प्रकाशितं स्नातुं मनं पश्चादुत्थितं यद्गणानां प्रमथानां कदम्बकं समुदायस्तस्य त्रिपुण्डू -
समय उद्भूलनं भस्मोद्धूलनं यस्मिंस्तथा । अवगाहेति । अवगाहार्थं जलक्रीडार्थमवतीर्ण उत्तरितो यो गण-
पतिर्गणेशस्तस्य गण्डस्थलात्करट प्रदेशाद्गलितं च्युतं यन्मदप्रस्रवणं दानक्षरणं तेन सिक्तं सिञ्चितम् । अतीति ।
अतिप्रमाणमैतिदीर्धम् । पादेति । पादैश्चरणन्यासैरनुमीयमानोऽनुमानविषयी क्रियमाणस्तृषितः पिपासितो
यः कात्यायनीसिंहो मनैस्तालाभिधस्तस्यावतरणमार्गः सरसि समागमनपन्था यस्मिंस्तत्तथा ।
 
अवतीर्येति । अश्वादवतरणं कृत्वेन्द्रायुधनामानमश्वरत्नं व्यपनीतं दूरीकृतं पर्याणं पल्ययनं यस्मादेवंभूत-
मकरोदसृजत् । अथाश्वं विशेषयन्नाह - क्षितीति । पूर्व क्षितितले पृथ्वीतले लुठितमपावृत्तं पश्चादुत्थितं
कृतोत्थानम् । गृहीतेति । गृहीता आत्ताः कतिपये कियन्तो यवसं तृणं तस्य ग्रांसा गुडेरका येन स तं ततः
पश्चात्तमश्वं सरोऽवतार्य सरोमध्ये नीत्वा पीतं सलिलमिच्छया येन न तु बलात्कारेण स्नातं कृताप्लवं चोत्थाप्यो-
त्थानं कारयित्वा पश्चात्तटमानीयान्यतमस्य कस्यचित्समीपवर्तिनस्तरोवृक्षस्य मूलशाखायां च स्कन्धशाखायां
गले निगरणे बद्ध्वा । कीदृशम् । अपगतं दूरीभूतं खलीनं मुखयन्त्रणं यस्यैवंभूतम् । कनकमय्या सुवर्णनिर्मितया
हस्तपाशशृङ्खलया हस्तबन्धनार्थं यः पाशो ग्रन्थिस्तदर्थं या शृङ्खला तया चरणौ पादौ बद्धा नियम्य कृपा-
णिका क्षुरिका तयावलूनान्कर्तितान्कतिचित्कियतः सरस्तीरस्य तटाकप्रतीरस्य दूर्वायाः शतपर्विकायाः
प्रवालकवलान्किसलयगुडेरकानग्रतः क्षिप्त्वा पुरो निधाय अन चकारः क्रियासमुच्चयार्थः पुनरपि
द्वितीयवारमपि सलिलं नीरमवततारोत्तीर्णवान् । स्वयमिति शेषः । ततश्च तदनन्तरं प्रालितं कर-
युगलं हस्तयुग्मं येनैवंभूतः सरः सलिलादुदगादुदतिष्ठदित्यन्वयः । चातक इव तोकक इव जलमयं पानीय
मयमाहारं प्रत्यवसानं कृत्वा विधाय । चक्राह्न इव रथाङ्गनामेव मृणालशकलानि बिसखण्ड न्यावाद्या-
टिप्प० – 1 पुंस्त्वं योग्यम् । 2 इदमपि क्वाचित्कम् । अन्यथा अष्ट मातरः सुप्रसिद्धाः । 3 इद-
मध्यनुचितम् । अतिप्रमाणैः अतिदीधैः पादैः पदचिह्नः अनुमीयमान इति योजना योग्या । 4 इदमपि
नवीनं श्रूयते ।
 
पाठा० - १ उपशोभितम् २ मण्डलमुद्राङ्कितम् ३ अवतीर्ण ४ वृन्द. ५ अवगाहन. ६ गण्डस्थलमद.
७ पद. ८ अवतार. ९ दक्षिणम्. १० अवतीर्य, ११ अखलीनम्. १२ चरेण १३ तीरप्ररूढदूर्वा १४ स्वयमपि,
१५ करचरण. १६ जलमाहारम्. १७ चक्राह्वयः•
 

 
.