This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
ङ्गपाणिर्यदिदममृतरससुरभिसलिलमपहाय
 
लवणरसपरुषपयस्युदद्भवति स्वपिति । नूनं चेदं न
प्रथममासीत्सरो येन प्रलयवराहंघोणाभिघात भीती भूतधात्री कलशयोनिपानपरिकलितस-
कलसलिलं सागरमवतीर्णा, अन्यथा यद्यत्रागाधानेकपातालगम्भीराम्भसि निमना भवेन्म-
हासरसि किमेकेन महावराहसहस्रैरपि नासादिता भवेत् । नूनं चास्मादेव सलिललेशमा-
दायादाय महाप्रलयेषु प्रलयपयोदाः प्रलयदुर्दिनान्धकारितर्देश दिशः प्लावयन्ति भुवनान्त-
राणि । मन्ये चे यत्सृष्टेरर्वाक्सलिलमयं ब्रह्माण्डरूपमादौ भुवनमभूत्तदिदं पिण्डीभूय सरो-
व्यपदेशेनावस्थितम्' इति विचारयन्नेव तस्य शिलाश कलकर्कश वालुकाप्रायम्, विद्याधरो•
वृतसनालकुमुद कलापार्चिता नेकचारुसैकतलिङ्गम्, अरुन्धतीदत्तार्घ पयःपर्यस्तरक्तकमलशो-
२६८
 
P
 
शयनापेक्षाकारणमाह - यदिति । यदिति हेत्वर्थे । इदममृतवत्पीयूषवद्रसो यस्मिन्नेवंविधं यत्सुरभिसलिलं
सुगन्धिपानीयं तदपहाय त्यक्त्वा लवणो यो रसस्तेन परुषं रूक्षं पयो यस्मिन्नेवंभूत उदन्वति समुद्रे स्वपिति
शयनं करोति । अतो नूनं निश्चितम् । इदं प्रथममादौ नासीन्नाभूत् । एतदभावादेव कृष्णः समुद्रे
शयनं करोतीति भावः । कारणान्तरमाह - येनेति । येन कारणेनेदं प्रथमतो नासीदत एव भूतधात्री भूतानां
प्राणिनां धात्री धारणक्षमा । एतदपेक्षया । नूनं सागरं समुद्रमवतीर्णा मध्यप्रविष्टा । अथ तां विशेष-
यन्नाह
- प्रलयेति । प्रलये कल्पान्ते योऽवताररूपो वराहस्तस्य या घोणा नासा । उपलक्षणं चैतत् ।
तेन दंष्ट्राया ग्रहणम् । तयाभिघातः प्रहारस्तस्माद्भीता त्रस्ता सती । उपर्यागतेति शेषः । सागरं विशेष
यन्नाह - कलश इति । कलशयोनिरगस्तिस्तेन पानार्थं परिकलितं चिन्ताविषयीकृतं सकलं समग्र सलिलं
यस्य स तम् । अनेनातिन्यूनत्वमेतस्य ध्वनितम् । यदि सरसः समुद्रो महत्तरः स्यात्तदैकवराहघोण । भिघात -
मात्रेण भीत उपर्यागतो न भवेदेव । अत एवाग्रे व्यतिरेकमुखेन समर्थयन्नाह -- अन्यथेति । पूर्वोक्तविप
र्यये । यद्यत्र महासरसि निमना बुडिता भवेत्स्यात् । अगाध इति । अगाधमतलस्पृक् एवंविधानि यान्य-
नेकानि पाताला नि । वडवामुखानीति यावत् । गंभीरं गम्भीरमम्भो यस्मिन् । किमिति । एकेन वराहेण
किम् । न किमपीत्यर्थः । महेति । महावराहसहस्रैरपि नासादिता न प्राप्ता भवेत् । एतेन कल्पान्तेऽप्ये-
तस्यावस्थानं सूचितमिति भावः । नूनमिति । नूनं निश्चितम् । महाप्रलयेषु कल्पान्तेषु प्रलयपयोदाः
कल्पान्तमेघा अस्मादेव सरसः सलिललेशं जललेशमादायादाय गृहीत्वा गृहीत्वा भुवनान्तराणि त्रिभुवन-
विवराणि प्लावयन्ति जलमयीकुर्वन्ति । अथ प्रलयमेघान्विशेषयन्नाह - प्रलयेति । प्रलयकालीनं यदुर्दिनं
मेघजं तमस्तेनान्धकारिता अन्धकारवदाचरिता दश दिशो यैस्ते तथा । मन्ये चेति । अहमिति मन्ये
जानामि यच्चादौ सृष्टेर्विश्वनिर्मितरर्वाक्सलिलमयं जलमयं ब्रह्माण्डरूपं भुवनं त्रिविष्टपमभूत्तदिदं पिण्डी-
भूयैकीभूय सरोव्यपदेशेन तटाक मिषेणावस्थितमिति विचारयन्नेव चिन्तयन्नेव चन्द्रापीड: सरसो दक्षिणतीरं
दक्षिण दिग्वर्ति प्रतीरमासाद्य प्राप्य तुरगादश्वादवततारावतीर्णवान् । अथ दक्षिणतीरं विशेषयन्नाह - शिलेति ।
शिलाशकलवच्छिलाखण्डवकर्कशाः कठिना या वालुकाः सिकतास्ताः प्रायो बाहुल्येन यस्मितत् । विद्येति ।
विद्याधरैर्व्योमचारिभिरुद्धृतानि गृहीतानि यानि सनालानि कुमुदानि कैरवाणि तेषां कलापः समूहस्तेनार्चितानि
पूजितान्यने कान्यसंख्यानि चारूणि मनोहराणि जलोज्झितं पुलिनं सैकतं तत्र स्थितानि लिङ्गानीश्वरसंबन्धीनि
यस्मिंस्तत् । अरुन्धतीति । अरुन्धया वसिष्ठपत्न्या दत्तं यदर्घपयः पूजार्थं जलं तस्मात्पर्यस्तानि पतितानि
 
1
 
टिप्प० -- 1 शुद्धोऽयं प्रलापः । पृथिवीकथायां विवक्षितायां स्त्रीत्वं संबध्यम् । 2 अगाधपातालवत्
गंभीरम् । ( अतलस्पार्शे ) अम्भः यत्र तस्मिन् । 3 अशुद्धमिदम् । कुमुदकलापेन अर्चितानि अनेकानि
चारूणि सैकतलिङ्गानि ( वालुकानिर्मित शिवलिङ्गानि ) यस्मिन् तत् । इत्यर्थः ।
 
पाठा० -१ अभिभूता, २ अगाध; अनेक. ३ आदाय महा. ४ दिश: ५ यत्तत्सलिलमयम् ६ पिण्डीभूतम्.
७ अर्चितम् ८ दत्तदिनकरार्ष; दत्तदिन करार्ध्य; हस्तदत्तदिनकरार्घ ९ पर्यस्तारक्त.