कादम्बरी /300
This page has not been fully proofread.
अच्छोदसरः ]
आलोकमात्रेणैवापगतश्रमो
मिथुनानुसरणमेतदालोकयतः
पूर्वभागः ।
२६७
मैनस्येवमकरोत्
- 'अहो निष्फलमपि मे तुरङ्गमुख-
सर: सफलतामुपगतम् । अद्य परिसमाप्तमीक्षणयुगलस्य द्रष्ठ -
व्यदर्शनफलम्, आलोकितः खलु रमणीयानामन्तः, दृष्ट आह्वादनीयानामवधिः, वीक्षिता
मनोहराणां सीमान्तलेखा, प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः, विलोकिता दर्शनीयाना-
मवसानभूमिः । इदमुत्पाद्य सरः सलिलममृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता
स्वसृष्टिः । इदमपि खल्वमृतमिवं सर्वेन्द्रियाहादनसमर्थमतिविमलतया चक्षुषः प्रीतिमुपज-
नयति, शिशिरतया स्पर्शसुखमुपहरति, कमलसुगन्धितया घ्राणमाप्याययति, हंसमुखरतया
श्रुतिमानन्दयति, स्वादुतया रसनामाह्लादयति । नियतं चास्यैव दर्शनतृष्णया न परित्यजति
भगवान्कैलासनिवासव्यसनमुमापतिः । न खलु सांप्रतमाचरति जलशयनदोहदं देवो रथा-
आलोकेति । आलोकमात्रेणैव निरीक्षणमात्रेणैवापगतो दूरीभूतः श्रमः क्लान्तिर्यस्यैवंविधश्चन्द्रापीडस्तदृष्ट्वा
विलोक्य मनसि चित्त एवमकरोदेवमघटयत् । अहो इति । अहो इत्याश्चर्ये । निष्फलमपि निरर्थकमपि मे
मम तुरङ्गमुखमिथुनस्य किंनरमिथुनस्यानुसरणमनुगमनं सफलतां कृतार्थतामुपगतम् । प्राप्तमित्यर्थः । किं कुर्वतो
मम । एतत्सरः कासारमालोकयतो दृग्विषयी कुर्वतः । अद्येति । अद्यास्मिन्दिने परिसमाप्तं परिपूर्णम् ।
संपूर्ण जातमित्यर्थः । किं तदित्याकाङ्क्षायामाह - ईक्षणेति । ईक्षणयुगलस्य द्रष्टव्यं दर्शनीयं यद्वस्तु तस्य
दर्शनमवलोकनं तस्य फलं व्युष्टिः । खल्विति । खलु निश्चितम् । रमणीयानां मनोहराणामन्तः प्रान्त
आलोकितो वीक्षितः । एतदपरं रमणीयं नास्तीत्यर्थः । दृष्ट इति । आह्लादनीयानां प्रमोदकारिणामवधिर्मर्यादा
दृष्टोऽवलोकितः । प्रमोदजनकमेतदन्यत्किमपि नास्तीति भावः । वीक्षितेति । मनोहराणां चित्तहारिणां
सीमाया अन्तलेखा प्रान्तलेखा वीक्षिता नयनविषयीकृता । अतः परं चित्तहृत्किमपि नास्तीति भावः ।
प्रत्यक्षेति । प्रीतिजननानां प्रीत्युत्पादकानां परि सामस्त्येनाप्तिः प्राप्तिः परिसमाप्तिः प्रत्यक्षीकृतेन्द्रियगो
चरीकृता । विलोकितेति । दर्शनीयानां द्रष्टुं योग्यानामवसानभूमिः प्रान्तभूमिश्चरमकथा वा विलोकिता
वीक्षिता । इतःपरं दर्शनीयं नास्तीति भावः । इदमिति । इदममृतं पीयूषं तद्वद्रसो यस्यैवंविधं सरसस्त-
टाकस्य सलिलं पानीयमुत्पाद्य निर्माय वेधसा ब्रह्मणोत्पादयता जगत्सृजता स्वसृष्टिः स्वकीयनिर्मितिः पुन-
रुक्ततामिव नीता प्रापिता । एकमेव वस्तु नामान्तरेण विहितमिति भावः । अमृतगुणोपपादने पुनरुक्ततां
स्पष्टयन्नाह - इदमिति । इदमपि । खलु निश्चितम् । इदं प्रत्यक्षोपलभ्यमानमप्यमृतमिव पीयूषमिव
सर्वेषामिन्द्रियाणामाह्लादनं प्रीणनं तत्र समर्थ बलिष्ठमतिविमलतयातिस्वच्छतया चक्षुषो नेत्रस्य प्रीतिं स्नेह-
मुत्युत्पादयति । तथा शिशिरः शीतलस्तस्य भावस्तत्ता तथा करणभूतया स्पर्शसुखमुपहरति करोति ।
तथा कमलस्य नलिनस्य सुगन्धो यस्मिंस्तस्य भावस्तत्ता तया घ्राणं नासिकामाप्याययति प्रीणयति । तथा
हंसैर्मरालैर्मुखरो वाचालस्तस्य भावस्तत्ता तया श्रुतिं श्रोत्रमानन्दयति प्रीणयति । तथा स्वादुतया मिष्टतया
रसनां रसज्ञामाहादयति प्रीणयति । नियतमिति । नियतं निश्चितम् । अस्यैव सरस एव दर्शनतृष्णया-
वलोकनलोभेनोमापतिर्भगवानीश्वरः । कैलासेति । कैलासो रजताद्रिस्तत्र । यो निवासोऽवस्थानं स एव
व्यसनमासक्तिस्तन्न परित्यजति न जहाति । न खल्विति । खलु निश्चितम् । रथाङ्गपाणिश्चकपा-
'णिर्देवः कृष्णः सांप्रेतमिदानीं जले पानीये शयनं स्वापस्तस्य दोहदम भिलाषं नाचरति न करोति । पूर्वं जल-
टिप्प० – 1 अधोमुखः पपात टीकाकारः । इदानीमपि समुद्रे शेत एव नारायणः, ततश्च जलशयन-
दोहदं नाचरतीति कथं संगच्छते । तस्मात् 'रथाङ्गपाणिर्जलशयनदोहदं सांप्रतं युक्तं नाचरति, यदिदं सरो
विहाय लवणपयस्युदन्वति स्वपिति' इत्यर्थ उचितः । 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः ।
पाठा० -१ आलोकन २ मनस्यकरोत् ३ तुरग ४ अवलोकिता, ५ उपाहरति ६ दोहदयितः,