This page has not been fully proofread.

२६६
 
कादम्बरी ।
 
[ कथायाम्-
मथनसमयमिव तीरंकासाराव स्थित शितिकण्ठपीयमान विषम्, कृष्णबालचरितमिव तटकदम्ब-
शाखाधिरूढहरिकृतजलप्रपातक्रीडम्, मदनध्वजमिव मकराधिष्ठितम् दिव्य मिवानिमिष-
लोचनरमणीयम्, अरण्यमिव विजृम्भमाणपुण्डरीकम्, उरगकुलमिवानन्तशतपत्र पद्मोद्धा-
सितम्, कंसबलमिव मधुकरकुलोपगीयमानकुवलयापीडम्, केंद्रस्तनयुगलमिव नागसहस्रपी-
सपयोगण्डूषम्, मलयमिव चन्दनशिशिरवनम् असत्साघनमिवादृष्टान्तम्, अतिमनोहर-
माहादनं दृष्टेरच्छदं नाम सरो दृष्टवान् ।
 

 
S
 

 
-
 
-
 
शेषः । तस्य यः समयः कालस्तमिव । तीरेति । तीरं तटम्, कासारं प्रान्तदेशं तत्रावस्थिता ये शिति-
कण्ठा बर्हिणस्तैः पीयमानमास्वाद्यमानं विषं जलं यस्मिन् । पक्षे तीरे क्षीरोदस्येति शेषः । तस्मिन्नव-
स्थितो यः शितिकण्ठो महेश्वरस्तेन पीयमानं भक्ष्यमाणं विषं कालकूटं यस्मिन् । 'कालकूटाम्भसोर्विषम्'
इत्यनेकार्थः । तथा कृष्णेति । कृष्णस्य जनार्दनस्य यद्वालचरितं बाल्यावस्थायां क्रीडितं तद्वदिव ।
उभयोः साम्यमाविष्कुर्वन्नाह - तटेति । 'तटं तस्यैव सरसः' इति कोशः । तस्मिन्ये कदम्बा नीपास्तेषां
शाखास्तस्यामधिरूढो यो हरिर्गोलाङ्गूलस्तेन कृता विहिता जलप्रपातलक्षणा क्रीडा यस्मिन् । पक्षे तदं
यमुनायाः । हरिः कृष्णः । शेषं पूर्ववत् । मदेति । मदनस्य कन्दर्पस्य यो ध्वजः केतुस्तद्वदिव
उभयोः सादृश्यमाह - मकर इति । मकरो जलजन्तुस्तेनाधिष्ठितमाश्रितम् । पक्षे मकराकृतिरूपं चिह्नम् ।
दिव्येति । दिवि भवं दिव्यं तद्वदिव । उभयोः साम्यार्थमाह - अनिमिषेति । अनिमिषास्तिमयस्तेषां
लोचनानि नेत्राणि तै रमणीयं मनोहरम् । पक्षेऽनिमिषलोचना देवाः । शेषं पूर्ववत् । अरण्येति । अरण्यं
काननं तद्वदिव । उभयोः साधर्म्यमाह - विजृम्भेति । विजृम्भमाणानि विनिद्राणि पुण्डरीकाणि सिताम्भो-
आनि यस्मिंस्तत्तथा । पक्षे विजृम्भमाणाः सन्त उज्झितनिद्राः पुण्डरी काश्चित्रकायाः । 'चित्रकायः पुण्डरीकः'
इति कोशः । शेषं पूर्ववत् । उरगेति । उरगाः सर्पास्तेषां कुलमन्वयस्तद्वदिव । उभयोः सादृश्यमाविःकु-
बन्नाह - अनन्तेति । अनन्तान्यसंख्यानि यानि शतपैत्राणि पुष्पविशेषाणि, पद्मानि कमलानि, तैरुद्भासितं
शोभितम् । पक्षेऽनन्तो नागाधिपः, शतपत्रो नागविशेषः, पद्मश्च । शेषं पूर्ववत् । कंस इति । कंसो दैत्य-
स्तस्य बलं सैन्यं तद्वदिव । उभयसाम्यार्थमाह - मध्विति । मधुकराणां भ्रमराणां कुलानि समूहाः
तैरुपगीयमानानि गानविषयी क्रियमाणानि कुवलयान्युत्पलानि तान्येवापीडः शेखरो यस्मिंस्तत्तथा । पक्षे
कुवलयापीडो गजः । शेषं पूर्ववत् । कद्रू इति । कदूर्नागमाता तस्याः स्तनयुगलं कुचयुग्मं तद्वदिव ।
उभयोः साम्यं प्रदर्शयन्नाह - नागेति । नागसहस्रैर्हस्तिसहस्रैः पीता आस्वादिताः पयसो गण्डूषालुका
यस्मिंस्तत् । पक्षे नागाः सर्पाः । पयो दुग्धम् । शेषं पूर्ववत् । मलयेति । मलयो मलयाचलस्तद्वदिव ।
उभयोस्तुल्यतामाह - चन्दनेति । चन्दनं मलयजं तद्वच्छिशिरं शीतलं वनं जलं यस्मिन् । 'कीलालं
भुवनं वनं घनरसः' इत्यभिधान चिन्तामणिः ।पक्षे चन्दनानां शिशिराणि वनानि काननानि यस्मिन् ।
असदिति । असत्साधनमसद्धेतुस्तद्वदिव । शब्दापेक्षया तयोः साधर्म्यमाह - नेति । न दृष्टो न वीक्षि-
तोऽन्तोऽवसानं यस्य तत् । पक्षे न विद्यते दृष्टान्तो निश्चितसाध्यवान्यस्मिन् । तदभावादसद्धेतुत्वमिति
भावः । अतिमनोहरम् । अतिसुन्दर मित्यर्थः । दृष्टेर्नेत्रस्याह्लादनम् । प्रमोदजनकमित्यर्थः ।
 
-
 
टिप्प० -- 1 अनिमिषे (निमेषरहिते) लोचने येषामित्यर्थ उचितः, मत्स्यानां नयनयोर्निमेषाभावात् ।
2 ब्याघ्रा इति स्पष्टोऽर्थो वक्तव्यः । 3 शतपत्र - पद्मयोरापाततः पौनरुत्त्यभासनं पर्यन्ते च शतसंख्याक-
पत्र विशिष्टकमले पर्यवसानात्पुनरुक्तवदाभासोऽलंकारः । तथा च अनन्तानि यानि शतपत्रविशिष्टानि
पद्मानि तैरुनासि तमित्यर्थोऽत्र बोध्यः । 4 मदजलसौरभलोभाद् मधुकरैरुपगीयमानस्तदाख्यो हस्ती यत्रे.
रुपर्थः। 5 गोष्यवान् मनुष्यस्वादित्यादौ मसद्धेतौ निश्चितसाध्य (गोटव) वरस्थलं ( दृष्टान्तः ) नास्तीत्यर्थः ।
 
T:
 
पाठा० -१ तीराबस्थित. २ बालकृष्ण. ३ शाखारूढ़ ४ उपनीयमान ५ कद्रू.