This page has not been fully proofread.

अच्छोदसरः ]
 
पूर्वभागः ।
 
२६५
 
क्वचिद्वरुणहंसोपात्तकमलवनमकरन्दम्,
 
कचिद्दिग्गजमज्जनजर्जरित जरन्मृणालदण्डम्, कचि-
त्र्यम्बकवृष॒भविषाणकोर्टिंखण्डित तटशिलाखण्डम्, कचिद्यममहिषशृङ्ग शिखरविक्षिप्त फेनपि -
ण्डम्, कचिदैरावतदशन मुसलखण्डितकुमुदखण्डम्, यौवनमिवोत्कलिकाबहुलम्, उत्कण्ठि-

तमिव मृणालवलयालंकृतम्, महापुरुषमिव मीनैमकरकूर्मचक्रप्रकटलक्षणम्, षण्मुखचरित-
मित्र श्रयमाणक्रौञ्च वनिताप्रलापम्, भारतमिव पाण्डुधार्तराष्ट्रकुलपक्षकृतक्षोभम्, अमृत
 

 
जलक्रीडावर्णनम् । क्वचिदिति । कस्मिंश्चित्प्रदेशे वरुणस्य प्रचेतसो हंसेन गरालेनोपात्तो गृहीतः कमलव-
नस्य नलिनखण्डस्य मकरन्दो मरन्दो यस्मिंस्तत्तथा । क्वचिदिति । दिग्गजानां दिग्दन्तिनां मजनेनान्त
विगाहनेन जर्जरिताः शिथिलीभूता जरन्मृणालदण्डा बहुकालीन बिसदण्डा यस्मिंस्तत्तथा । क्वचिदिति ।
त्र्यम्बकस्येश्वरस्य यो वृषभो बलीवर्दस्तस्य विषाणकोटि: शृङ्गाग्रभागस्तया खण्डिता मेदितास्तटस्य तीरस्य
शिलाखण्डा यस्य तत् । क्वचिदिति । यमस्य कृतान्तस्य यो महिषः कासरस्तस्य शृङ्गं विषाणं तस्य शिख-
रममभागस्तेन विक्षिप्त इतस्ततः पर्यस्तः फेनपिण्डो डिण्डीरपुञ्जो यस्मिन् । क्वचिदिति । ऐरावतो हस्ति-
मल्लस्तस्य दशना दन्तास्त एव स्थूलत्वदृढत्वसाम्यान्मुसलान्ययोग्राणि तैः खण्डितं पाटितं कुमुदखण्डं कैरव-
वनं यस्मिन् । अथ प्रकारान्तरेण तदेव विशेषयन्नाह - यौवेति । यौवनं तारुण्यं तद्वदिव । उभयसाम्यं
प्रदर्शय नाह-उदिति । उत्कलिका तरङ्गसंततिस्तया बहुलं दृढम् । 'तरङ्गभङ्गवीच्यूयुत्कलिका'
इति कोशः । पक्ष उत्कलिका हल्लेखा । 'हल्लेखोत्कलिका च' इति कोशः । विविधकामाभिलाषस्तया
बहुलम् । व्याप्तमित्यर्थः । उदिति । उत्कण्ठितमुन्मनसम् । अर्थाद्विरहिजनम् । तदिव । तत्सदृशमित्यर्थः ।
उभयोः साम्यमाह — मृणालेति । मृणालानां तन्तुलानां वलयैः समूहैरलंकृतम् । उन्मना अपि
दाहज्वरोपशमनार्थं मृणालवलयालंकृतः स्यादित्यभङ्गश्लेषः । महेति । महांश्चासौ पुरुषश्चेति कर्मधारयः ।
तद्वदिन । उभयोर्विशेषणमाह - मीनेति । मीना मत्स्याः, मकरा जलचरविशेषाः, कूर्माः कच्छपाः,
चा जलचारिविशेषाः, प्रकटा बहिर्हश्यमाना लक्षणाः सारसाः सारस्यश्च यस्मिन् । पक्षे मकरादीनि
चक्रान्तानि प्रकटानि स्पष्टानि लक्षणानि चिह्नानि यस्मिन् । महापुरुषस्य हस्तपादाद्यवयवेषु मकरादीनि
चिह्नानि भवन्तीति सर्वप्रसिद्धम् । ननु 'सारसी लक्ष्मणा सानुसौमित्रौ श्रीमति त्रिषु' इति रुद्रकोषा-
दिदर्शनात्कथमत्र लक्षणाशब्दप्रयोग इति चेन्न । 'लक्षणश्चैव सारसः' इत्यमरमालायां निर्मकारस्यापि
दर्शनात् । षण्मुखेति । षण्मुखः कार्तिकेयस्तस्य चरितमाचरणं तद्वदिव । श्रूयेति । श्रयमाण आकर्ण्य -
मानः क्रौञ्चः पक्षिविशेषस्तस्य या वनिता स्त्री तस्याः प्रलापः प्रकर्षेण शब्दो यस्मिन् । पक्षे कार्तिकेयेन क्रौञ्च -
दैत्यो हतः । अत एव तस्य वनितायाः प्रलापो रुदैनं यस्मिन् । तथा भारतं व्यासप्रणीतं शास्त्रं तद्वदिव ।
पाण्डिति । पाण्डवः श्वेतवर्णा ये धार्तराष्ट्रा हंस विशेषास्तेषां कुलं समूहस्तस्य पक्षा वाजास्तैः कृतो
विहितः क्षोभो विग्रहो यस्मिन् । पक्षे पाण्डुरम्बात्मजः धार्तराष्ट्रो दुर्योधनः तयोः कुले अन्वयौ तयोः पक्षौ
ख़जनौ ताभ्यां कृतः क्षोभश्चित्तवैव्यं यस्मिन् । अमृतेति । अमृतार्थ पीयूषार्थ यन्मथनम् । समुद्रस्येति
 
टिप्प० - 1 विरहेण उन्मनस्कमित्यर्थः । 2 चक्रवाका इति प्रसिद्धोऽर्थः । 3 रोदनमित्याशयः ।
4 विपरीतमेतत् । कृष्णवर्णा इत्युचितम् । 'राजहंसास्तु ते चब्रुचरणैर्लोहितैः सिताः । मलिनैर्मल्लिका-
क्षास्ते धार्तराष्ट्राः सितेतरैः' इत्यमरः ।
 
पाठा० -१ हंसाक्रान्तविकचकमलवनखण्डम् ; हंसाक्रान्तकमलमकरन्दम् ; हंसाघातकमलवन मकरन्दम्. २ मृणा
लजालदण्डम्. ३ धवलवृषभ, ४ कोदण्ड, ५ प्रकटमीन मकर कूर्मचक्रलक्षणम्.
 
३४ का०