कादम्बरी /297
This page has not been fully proofread.
२६४
कादम्बरी ।
शतशो भगवतः खण्डपरशोर्मजनोन्मज्जनक्षोभचलित
[ कथायाम्-
जलक्षालितवामार्धकपोलगलितलावण्यप्रवाहानुकारिणा
चूडामणिचन्द्रखण्डच्युतेनामृतरसेन
मिश्रितजलम्, उपकूलतमालवन-
सलिलप्रदेशैगंभीरतरम्, दिवाप्यु -
प्रतिबिम्बान्धकारिताभ्यन्तरैर्दृश्यमानरसातलद्वारैरिव
पजातनिशाशङ्कुश्चक्रवाक मिथुनैः परिहियमाणनीलोत्पलवनगहनम् असकृत्पितामहपरि-
पे्ररितकमण्डलुपैरिपूतजलम्, अनेकशो वालखिल्यकदम्बककृतसंध्योपासनम्, बहुशः सलि-
लावतीर्णसावित्रीभग्नदेवार्चनर्कमलसहस्रम् सहस्रशः सप्तर्षिमण्डलस्नानपवित्रीकृतम्,
सर्वदा सिद्धवधूधौत कल्पलतावल्कलपुण्योदकम्, उदकक्रीडादोहदागतानां च गुह्यकेश्वरान्तः -
पुरकामिनीनां मकरकेतुचापचक्राकृतिभिरतिविक टैरावर्तिभिर्नाभिमण्डलैरापीतसलिलम्,
,
स्तस्माच्युतेन सस्तेनामृतरसेन पीयूषद्रवेण मिश्रितमेकीभूतं जलं पानीयं यस्य तत्तथा । अथ पीयूषरसं
विशेषयन्नाह – जलेति । जलेन क्षालितौ धौतौ यो वामार्धकपोलो पार्वतीगलात्परप्रदेशौ ताभ्यां गलितं
च्युतं यनावण्यं सौन्दर्यं तस्य य: प्रवाहो रयस्तस्यानुकारिणा । तत्सदृशेनेत्यर्थः । उपेति । उपकूल उपकण्ठे
यत्तमालवनं तापिच्छवनं तस्य प्रतिबिम्बः प्रतिच्छाया तेनान्धकारवदाचरितान्यभ्यन्तराणि मध्यप्रदेशा येषां
। अत्रान्धकारिताभ्यन्तरत्वसाम्येनोत्प्रेक्षते - दृश्यमानेति । दृश्यमानरैसातलद्वारैरिव वीक्ष्यमाण-
वडवामुखप्रतीहारैरिव । एवंभूतैः सलिल प्रदेशैः पानीयस्थलैर्गभीरतरं गम्भीरतरम् अत एव पूर्वोक्तसाम्या -
देवाह - दिवापीति । दिवापि दिवसेऽप्युपजाता समुत्पन्ना निशायास्त्रियामायाः शङ्कारेका येषां तैश्चक्र-
बाकमिथुनैः कोकद्वन्द्वैः परि सामस्त्येन ह्रियमाणं त्यज्यमानं यन्नीलोत्पलवनमिन्दीवरखण्डं तेन गहनं
निबिडम् । असकृदिति । असकृन्निरन्तरं पितामहेन ब्रह्मणा परिपूरितो भृतो यः कमण्डलुः कुण्डिका
तेन परि सामस्त्येन पूतं पावनं जालं जीवनं यस्य तत्तथा । अनेकश इति । अनेकशो वारंवारं वालखिल्याः
सूर्यपुरःसरा मुनयस्तेषां कदम्बकं समूहस्तेन कृतं विहितं संध्योपासनं संध्यावन्दनं यस्मिंस्तत्तथा । बहुश
इति । अनेकशः सलिले जलेऽवतीर्णोत्तीर्णा या सावित्री हुताशनपत्नी तया भग्नमुन्मूलितं देवार्चनार्थ
कमलानां नलिनानां सहस्रं यस्मिंस्तत् । सहस्रश इति । सहस्रवारं सप्तर्षीणां मरीचिप्रभृतीनां मण्डलं
समूहस्तस्य स्नानमाप्लवस्तेन पवित्रीकृतं पावनीकृतम् । सर्वदेति । सर्वदा सर्वकालं सिद्धवधूभिः सिद्धा-
ङ्गनाभिर्धीतानि क्षालितानि यानि कल्पलताया मन्दारव्रतत्या वल्कलानि चोचानि तैः पुण्यानि पवि-
त्राण्युदकानि जलानि यस्मिंस्तत्तथा । उदकेति । उदकस्य जलस्य या क्रीडा केलिस्तस्या दोहदोऽभि -
लाषस्तेनागतानां प्राप्तानां गुह्यकेश्वरस्य कुबेरस्यान्तःपुरका मिनीनामवरोधस्त्रीणां मकरकेतुः कंदर्पस्तस्य
चापचक्रमारोपितं धनुस्तद्वदाकृतिराकारो येषां तैरतिविकटैरतिविपुलैरावर्ता विद्यन्ते येषु तैरावर्तिभिः ।
एवंभूतैर्नाभिमण्डलैस्तुन्दकूपिका समूहैरापीतं ग्रस्तं सलिलं जलं यस्य तत्तथा । इदं च नाभिपर्यन्त-
टिप्प० -1 एकवचनमेव ग्रन्थानुकूलम् । 2 दृश्यमानं रसातलस्य द्वारं येषु तैरिव स्थितैः । अन्ध-
कारमाहात्म्यादस्य सलिलप्रदेशा अतीव निम्रतरा अत एव रसातलस्य द्वारमपि ( यद्धि अतीव निम्नम् )
दृश्यत इत्याशयः ।
पाठा
७ पुण्यीकृतोदकम्
Opis
•१ लावण्यानुकारिणा० २ संमिश्रित ३ गम्भीरतरम् ४ परिपूरित ५ देवतार्चन, ६ कमलमू