This page has not been fully proofread.

अच्छोदसरः ]
 
पूर्वभागः ।
 
२६३
 
तम्, आदर्शमिव प्रचेतसः, स्वच्छतया मुनिमनोभिरिव सज्जनगुणैरिव हरिणलोचनप्रभा -
 
भिरिव मुक्ताफलांशुभिरिव
रिक्तमिवोपलक्ष्यमाणम्,
 
निर्मितम् आपूर्णपर्यन्तमप्यन्तः स्पष्टदृष्टसकलवृत्तान्ततया
अनिलोडूंतजलतरङ्गसीकरधूलिजन्मभिः सर्वतः संस्थितः
संरक्ष्यमाणमिवेन्द्र चापसहस्रैः, प्रतिमा निभेनान्तः प्रविष्टसर्जेंलचर कान नशैलनक्षत्रग्रहचक्रवालं
त्रिभुवनमुद्भिन्नपङ्कजेनोदरेण नारायणमिव विभ्राणम् आसन्नकैलासावतीर्णस्य च
 

 
3
 
-
 
प्रतिबिम्बसंक्रान्तिसाम्येनाह - आदर्शति । प्रचेतसो वरुणस्यादर्शमिव मुकुरमिव । खच्छतैया उपमानान्त-
राण्याह – मुनिरित्यादि । मुनीनां वाचंयमानां मनोभिश्चितैरिव सज्जनानामाप्तानां गुणैः शौर्यादिभिरिव,
हरिणानां मृगाणां लोचनप्रभाभित्रकान्तिभिरिव, मुक्ताफलानां रसोद्भवानामंशुभिः किरणैरिव निर्मितं निष्पा-
दितम् । चतुर्ध्वप्यति निर्मलत्वमेव नियामकमुत्प्रेक्षायाम् । पुनः कीदृशमिवोपलक्ष्यमाणमित्याह – रिक्तमिति ।
रिक्तमिव शून्यमिव । तत्र हेतुमाह - अन्तरिति । अन्तर्मध्ये स्पष्टं प्रकटं यथा स्यात्तथा दृष्टोऽवलोकितः
सकलवृत्तान्तः समग्रोदन्तो यस्य तस्य भावस्तत्ता तया । तर्हि रिक्तमेव भविष्यतीत्याशयेनाह - आपूर्णेति ।
विचित्रत्वम् । एतद्वयमादायैवोत्प्रेक्षते - इन्द्रेति । इन्द्रचापसहस्रैरराखण्डलधनुः सहस्रैः संरक्ष्यमाणमिव त्राय -
माणमिव । एतदेव विशेषयन्नाह
– अनिलेति । अनिलेन वायुनोद्धता उत्क्षिप्ता ये जलतरङ्गाः पानीयक-
लोलास्तेषां सीकर धूलयस्ताभ्यां जन्मोत्पत्तिर्येषां तैः । कीदृशैः । सर्वतः समन्तात्संस्थितैः कृतावस्थानैः । अत्र
कल्लोलानां वक्रत्वात्सीकरधूलीनामपि तदवस्थत्वाच्च शैऋचापोपमानम् । पुनः सरो विशेषयन्नाह – उद्भि
नेति । उद्भिन्नानि विकसितानि पङ्कजानि कमलानि यस्मिन्नेव॑विधेनोदरेण मध्येन । यपक्ष उन्निद्रं पङ्कजं
नाभिकमलं यस्मिन्नेवंभूतेनोदरेण जठरेण नारायणमिव कृष्णमिवै त्रिभुवनं त्रिविष्टपं बिभ्राणं दधानम् । अत्र
त्रिभुवनं विशेषयन्नाह - प्रतिमेति । प्रतिमा प्रतिबिम्बं तस्य मिषेण व्याजेनान्तः प्रविष्टं मध्यप्रविष्टं
सह जलचरेण नकचकादिना वर्तमानं यत्काननं वनम्, शैलोऽद्रिः, नक्षत्राणि ऋक्षाणि, ग्रहा
मङ्गलादयः, तेषां चक्रवालं समूहो यस्मिंस्तत्तथा । पुनस्तदेव विशेषयन्नाह - आसनेति । आसन्नः समीप -
वर्ती यः कैलासो रजताद्रिस्तस्मादवतीर्णस्योत्तरितस्य शतशः शतवारं भगवतो माहात्म्यवतः खण्डपरशोरीश्वरस्य
मज्जनोन्मज्जनाभ्यां प्रतीताभ्यां यः क्षोभचिंत्तचाञ्चल्यं तेन चलितः कम्पितो यश्चूडामणिभूतश्चन्द्रखण्ड-
,
 
टिप्प० - 1 इदमध्यज्ञानम् । 'मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः' इति पूर्वमुक्ततया 'आदर्शभवनमिध
इत्येव पाठः । आदर्शभवनं दर्पणमयं गृहमिति तदर्थः । 2 इदमपि टीकाकृतोऽनभिज्ञत्वसूचकम् ।
'आदर्शभवनमिव प्रचेतसः' एतावत्पर्यन्तमुत्प्रेक्षाप्रक्रमो यः प्रचलितस्तदनुसारमन्त्र प्रकारपार्थक्यम् ।
'स्वच्छतया' इति निमित्तेन मुनिमनउपादानक निर्माणस्योत्प्रेक्षा ( अच्छोदसरसि ) इति पृथगुत्प्रेक्षा । एवं
सज्जनगुणादिष्वपि । इति चतसृणामुत्प्रेक्षाणां संसृष्टि, परस्परं निरपेक्षत्वात् । 3 आप्तानां सत्य- दया-
ऽऽर्जवादिगुणान् विहाय शौर्योपरि दृष्टिर्धन्यतैव टीकाकृतः । 4 इदमप्यज्ञानम् । उच्छलितेषु जलक्षोदेषु
सूर्यकिरणपातेन इन्द्रधनुष इव नानावर्णानां दृश्यमानत्वमित्याशयः । 5 नारायणमिव त्रिभुवनं बिभ्रा-
•णमिति टीकाकृतोक्षराणि भृशं भ्रामकाणीति उद्भिन्नपङ्कजेनोदरेण त्रिभुवनं बिभ्राणम् अत एव नारा-
यणमिव स्थितमिति सरलोऽन्वयः । व्याख्या तु टीकातो दृश्या । सरःपक्षे प्रतिबिम्बव्याजेन सकान-
नादेखिभुवनस्य धारणम्, नारायणस्तु बीजरूपेण स्थितं त्रिभुवनं स्वोदरे धारयत्येवेति तदाशयः । 6 चि
त्तचाञ्चल्यं किं टीकाकारस्य ? अस्तु । मज्जनोन्मजनाभ्यां यः क्षोभः संचलनं ( चन्द्रखण्डस्य ) तेम
चलितात् चूडामणिरूपात् चन्द्रखण्डात् गलितेन, इति स्फुटोऽर्थः ।
 
>
 
पाठा -१ आदर्शभवनमिव; आदर्शभुवनमिव २ समुपस्थितैः ३ प्रविष्टम् ४ सकानन; संकलकानन.
 
SONDER
 
9