कादम्बरी /295
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
२६२
ददर्श । तच्च संमुखागतेन कुसुमरज : कषायामोदिना जलसंसर्गशिशिरेण शीकरिणा चन्दैन-
इससमस्पर्शेनालिङ्ग्यमान इव जलतरङ्गमारुतेनं कमलमधुपानमत्तानां च श्रोत्रहारिभिः कल-
हंसानां कोलाहलैराहूयमान इव विवेश ।
प्रविश्य च तस्य तरुखण्डस्य मध्यभागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः, स्फटिकभूमि-
गृहमिव वसुंधरादेव्याः, जलनिर्गमनमार्गमिव सागराणाम्, निस्यन्दमिव दिशाम्, अंशा-
वतारमिव गगनतलस्य, कैलासमिव द्रवतामापन्नम्, तुषारगिरिमिव विलीनम्, चन्द्रातप
मिव रसतामुपेतम्, हरागृहासमिव जलीभूतम् त्रिभुवनपुण्यराशिमिव सरोरूपेणावस्थि-
तम्, वैडूर्यगिरिजालमिव सलिलाकारेण परिणतम्, शरदभ्रवृन्दमिव द्रवीभूयैकत्र निस्यन्दि-
."
,
क्षपा रात्रिस्तस्याः पुञ्जीकृतं राशीकृतमन्धकारमिव ध्वान्तमिव । अत्र जलान्धकारयोर्नीलगुणसंबन्धात्साम्यं
प्रदर्शितम् । तच्चति । तत्पूर्वोक्ततरुखण्डं विवेश प्रवेशं चकारेत्यन्वयः । किं क्रियमाणः । संमुखागतेनाभिमु-
खायातेन जलतरङ्गमारुतेन पानीयवीचिसमीरणेनालिङ्ग्यमान इवाश्लिष्यमाण इव । अथ वायुं विशिष्ट--
कुसुमेति । कुसुमरजसां पुष्परागाणां कषायस्तुवर आमोदो मुखवासनो विद्यते यस्मिन्स तेन । जलेति ।
जलस्य पानीयस्य संसर्ग: संबन्धस्तेन शिशिरः शीतलस्तेन । शीकरो वातास्तं वारि विद्यते यस्मिन्स तेन ।
'अत्रास्त्यर्थे इन् । चन्दनेति । चन्दनं मलयजं तस्य रसो द्रवस्तस्य समः सदृशः स्पर्शो यस्य स तेन ।
कमलस्य नलिनस्य मधु रसस्तस्य पानमास्वादरतेन मत्तानामुत्कटानां कलहंसानां कादम्बानां श्रोत्रहारिभिः कर्ण -
रुचिरैः कोलाहलैः कलकलैराहूयमान इवाह्वानविषयी क्रियमाण इव ।
।
तस्य तरुखण्डस्य मध्यभागेऽन्तरालप्रदेशे प्रविश्य च प्रवेशं कृत्वाच्छोदं नाम यस्यैवंभूतं सरः कासारं दृष्ट-
वानालोकितवान् । अथ सरो विशेषयन्नाह - मणीति । त्रैलोक्यलक्ष्पास्त्रिभुवनश्रियो मणिदर्पणमिव रत्नाद-
र्शमिव । वसुंधरादेव्याः रत्नगर्भादेव्याः स्फटिकभूमिगृहमिव स्फटिकहर्म्यमिव । सागराणां समुद्राणां जलनिर्ग-
मनमार्गमिव वारिबहिर्गमनपन्थानमिव । दिशां ककुभां निस्यन्दैमित्र रसक्षरणमिव । गगनतलस्य व्योमतलस्य -
शावतारमिव तदंशेनावतीर्णमिव । निर्मलश्वेतरूपत्वादाह — कैलासेति । कैलासमिव रजताद्रिमिव । एतस्य
पाषाणमयत्वात्सरसश्च द्रवरूपतया साम्यं न संभवतीत्यत आह - द्रवेति । द्रवतां रसतामापनं प्राप्तम् ।
हिमजलवत्त्वादाह — तुषारेति । तुषारगिरिमिव हिमाचलमिव । तस्य दृढत्वान्नोपमानत्वमित्यत आह -
विलीति । विलीनम् विद्रुतमित्यर्थः । अमृतमयत्वादाह - चन्द्रेति । चन्द्रस्य शशिन आतपमिव प्रकाश-
मिव । तस्य तेजोरूपत्वान्न साम्यमित्याह - रसेति । रसतां जलतामुपेतं प्राप्तम् । विषवत्त्वसाम्यादाह-
हरेति । हरस्येश्वरस्य योऽट्टहासो महाहासस्तमिव । तस्य क्रियारूपत्वात्साम्यं न स्यादित्याशयेनाह – जलीति ।
जलीभूतमिव डलयोरैक्याज्जडीभूतमिव सुखजनकत्वसाम्यादाह - त्रिभिवति । त्रिभुवनस्य त्रिविष्टस्य
पुण्यराशिमिव श्रेयः समूहमिव । अस्यामूर्त्वान्न साम्यमित्याशयेनाह- - सर इति । सरोरूपेण कासाररूपेणाव:
स्थितम् । कृतावस्थानमित्यर्थः । नीलत्वसाम्यादाह — वैड्डिति । वैडूर्यं बालवायजं तन्मयं गिरिजालमिव ।
अतिकठिनत्वात्तत्तुल्यतानुपपत्तेराह - सलिलेति । सलिलाकारेण जलाकारेण परिणतं तद्रूपतामापन्नम् ।
उज्वलत्वसाम्यांदाह - शरद इति । शरत्कालीनं घनात्ययसमयसंभवं यदभ्रवृन्दं मेघपटलं तदिव । एत-
स्याकाशस्थत्वात्तत्साम्यानुपपत्तेराह
- द्रवीति । द्रवीभूय रसीभूयैकत्र स्थले निस्यन्दितं निर्गलितम् । स्वच्छ-
टिप्प० - 1 निर्गमनपथमिवेति तात्पर्यम् । 2 अतिनिर्मलत्वात्सेयमुत्प्रेक्षा । एवमप्रेऽपि ।
-
पाठा० - १ तं च. २ संमुखादागतेन. ३ कुमुद. ४ शिशिरशीकरिणा ५ रसस्पर्शन. ६ प्रविवेश ७ वसुधा-
देव्या निर्गमन, ८ अवतारभिव चलाकारं गगन; अंशावतारं जलाकारं गगन.