कादम्बरी /294
This page has not been fully proofread.
जलान्वेषणम् ]
पूर्वभागः ।
२६१
सल्लकी प्रायैर विरलैरपि निःशाखतया विरलैरिवोपलक्ष्यमाणैः पादपैरुपेतेन, स्थूलकपिलवाल
केन, शिलाबहुलतया बिरलतृणोलपेन, वनद्विपदशनदलितमनःशिलाधूलि कपिलेन, आभ
ङ्गिनीभिरुत्कीर्णाभिरिव पत्रभङ्गकुटिलाभिः पाषाणभेदकमञ्जरीभिर्जटिलीकृतशिलान्तरालेन,
अनवरतगलगुग्गुलुगुमद्रवाकृतहषदा, शिखरस्स्रुतशिलाजतुरसपिच्छिलोपलेन, टैङ्कनहय-
खुरख ण्डित
हरितालक्षोदपांसुलेन, आखुनखरोत्खात बिलाव कीर्णकाञ्चनचूर्णेन, सिकतानिमग्न-
चैमरक कस्तूरिकामृगीखुरपकिना, संशीर्णङ्करलकरोमप्रकरनिचितेन विषमशिलाच्छेदोप-
विष्टजीवंजीवकयुगलेन, वनमानुष मिथुनाध्यासिततटगुहा मुखेन, गन्धपाषाणपरिमलामोदिना,
वेत्रलताप्रतानप्ररूढवेणुना, कैलासतलेन कंचिदध्वानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे
दिग्भागे जलभारौलसं जलधरव्यूहमिव बहुलक्षपान्धकारमिव पुञ्जीकृतमत्यायतं तैरुखण्ड
।
प्रायो बाहुल्येन येष्वेवंविधैरविरलैर्निबिडैरपि निःशाखतया स्कन्धशाखारहित्यतया विरलैरिवानिबिडैरिवोपल-
क्ष्यमाणैर्दृश्यमानैः पादपैर्वृक्षैरुपेतेन सहितेन । तथा• स्थूला स्थविष्टा कपिला पिङ्गला वालुका सिकता यस्मिंस्तेन ।
शिलानां बहुलता तया विरलानि स्तोकानि तृणान्युलपाश्च वल्लयो यस्मिंस्तत्तेन । वनेति । वनद्विपानामरण्य-
दन्तिनां दशनैर्दन्तैर्दलिता मर्दिता या मनःशिला मनोगुप्ता तस्या धूली रेणुस्तया कपिलेन पीतरक्तेन । आ
समन्ताद्भङ्गिनीभिर्द्विधाभवनशीलाभिरुत्कीर्णाभिरिवोत्कीर्य कर्षिताभिरिव । पत्रभङ्गः पत्रवली तद्वत्कुटिलाभिर्व-
क्राभिः पाषाणभेदकनाम्यो या मञ्जय वल्लर्यस्ताभिरजटिलं जटिलं क्रियत इति जटिलीकृतं शिलयोरन्तरालं
मध्यभागो यस्य तत्तेन । तथानवरतं निरन्तरं गलन्तः सवन्तो ये गुग्गुलुद्रुमाः पलङ्कषवृक्षास्तेषां द्रवो रसस्ते-
नाद्रकृतानि दृषन्ति प्रस्तरा यस्मिंस्तत्तेन । तथा शिखरेभ्यः सानुभ्यः स्रुतभ्युतो यः शिलाजतुरसो गिरिजद्र-
वरतेन पिच्छिला विजिला उपला यस्मिंस्तत्तेन । टङ्कनेति । टङ्कनं प्रस्तरदारकं तल्लक्षणो यो हयखुरोऽश्वश-
फस्तेन खण्डितं शकलीकृतं यद्धरितालं गोदन्तं तस्य क्षोदचूर्णं तेन पांसुलेन पांसुयुक्तेन । तथाखूनां वृषाणां
नखरैर्नखैरुत्खातान्यतिखनितानि यानि बिलानि विवराणि तेभ्योऽवकीर्णमवध्वस्तं काञ्चनचूर्ण सुवर्णक्षोदो यस्मि-
स्तत्तेन । तथा सिकतासु वालुकासु निमग्ना बुडिताश्चमरकाश्चमर्यः, कस्तूरिकामृग्यो नेपालदेशप्रसिद्धाः, तेषां
खुरपङ्कयो यस्मिंस्तत्तेन । तथा संशीर्णो विगलितो रङ्कुमृगविशेषः, रल्लैक उरभ्रः, एतयोर्यो रोमप्रकरस्तनूरुहस
मूहस्तेन निचितेन व्याप्तेन । तथा विषमा असमा ये शिलाच्छेदास्तत्रोपविष्टान्यासीनानि जीवंजीवकयुगलानि
विषदर्शन॒मृत्युकयुग्मानि यस्मिंस्तत्तेन । मयूराकृतयः पक्षिविशेषा जीवंजीवकाः । ते च दक्षिणदेश एतन्नाम्नैव
प्रसिद्धाः । वनेति । वनमानुषमिथुनैर्मनुष्याकृतिसदृशाका रैर्वनचारिविशेषैरभ्यासितान्याश्रितानि तटगुहा मुखानि
यस्मिंस्तत्तेन । गन्धपाषाण: सुगन्धद्रव्यविशेषस्तस्य परिमलो विमर्दजनितो गन्धो विद्यते यस्मिंस्तत्तेन॒ । तथा
वेत्रलता वेत्रवत्र्यस्तासां प्रताने शाखापत्र प्रचये प्ररूढा उद्गता वेणवो वंशा यस्मिंस्तत्तेन । एवंविधेन कैलासत •
लेन रजतायधोभागेन कंचित्कियन्मात्रमध्वानं पन्थानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भाग ईशा-
न्यामत्यायतमतिविस्तीर्ण तरुखण्डं वृक्षसमूहं ददर्शावलोकयामास । जलभारेण पानीयवीवधेनालसं मन्थरम् ।
कृष्णत्वसाम्यादाह — जलेति । जलधरा मेघास्तेषां व्यूहमिव समूहमिव । बहुलेति । बहुल: कृष्णपक्षस्तस्य
टिप्प० -1 'लता प्रतानिनी वीरुद् गुल्मिन्युलप इत्यपि इत्यमरः । 2 आा ( समन्तात् ) भङ्गो
( विविधभङ्गी ) स्ति यासां ताभिरित्यर्थः । 3 उन्दुरूणामित्यर्थः । 4 मृगविशेषः । 5 चकोरपक्षिणः,
'जीवंजीव: खगान्तरे । द्रुमभेदे चकोरे च ' इति हेमः । 6 गन्धक इति केचित् ।
पाठा० - १ शिलातल २ पाषाणभङ्ग ३ शिलान्तरेण ४ पिच्छिल ५ टङ्कनखरखुर. ६ बिलविप्रकीर्ण,
७ चमरकस्तूरिका. ८ संकीर्णजीर्णरङ्क; संकीर्णशङ्क; संकीर्णजीर्णरल्लक ९ प्रतानवता प्ररूद. १० अलसजलधर,
११ बहुलपक्षक्षपया. १२ विविधतरुखण्डम्.