This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
तिपयदूर्वाप्रवालकवलं कस्मिंश्चित्सरसि शिलाप्रस्रवणे वा सरिदम्भसि वा स्नातपीतोदकमप-
नीतश्रमं कृत्वा स्वयं च सलिलं पीत्वा कस्यचित्तरोरधश्छायायां मुहूर्तमात्रं विश्रम्य ततो गमि-
घ्यामि' इति चिन्तयित्वा सलिलमन्वेषमाणो मुहुर्मुहुरितस्ततो दत्तदृष्टिः पर्यटन्नलिनीजला-
बगाहोत्थितस्याचिंरादपक्रान्तस्य महतो गिरिचरस्य वनगजयूथस्य चरणोत्थापितैः पङ्कपटलै-
राद्रकृतम्, करावकृष्ठैश्च समृणालमूलनालै : कमलकलापैः कल्माषितम्, आर्द्रार्द्रैश्च शैवल-
प्रवाल : श्यामलितोद्देशम् उद्दलितैश्च कुँमुदकुवलयकहारकुडालैरन्तरान्तरा विच्छुरितम्,
उत्खातैश्च सकर्दमैः शालूककन्दैराकीर्णम्, आखण्डितैश्च कुसुमस्तनकसोरैर्वनपल्लवैराच्छा-
दितम्, आलूनाभिश्च कुँसुमोपविष्टोल्लसत्षट्पदाभिर्वनलताभिराकुलितम्, अभिनवकुसुम-
परिमलवाहिना च तमालपल्लवसरेंसश्यामेन मैदजलेन सर्वतः सिक्तं मार्गमद्राक्षीत् ।
 
उपजातजलाशयशङ्कच तं प्रतीपमनुसर मुद्रीबहश्यैरुप रिच्छन्त्रमण्डलाकारैः सरलसाल-
२६०
 

 
पल्लवग्रासा येन स तम् । कस्मिंश्चिदनिर्दिष्टनाम्नि सरसि कासारे शिलाप्रस्रवणे वा निर्झरे वा सरिदम्भसि वा
नदीजले वा । स्नात इति । पूर्वं स्नातः पश्चात्पीतमुदकं येन स तम् । अत एवापनीतश्रमं दूरीभूतक्लमं कृत्वा
विधाय स्वयं च सलिलं पानीयं पीत्वा पानं कृत्वा कस्यचित्तरोरनिर्दिष्टनाम्नो वृक्षस्याधरछायायां मुहूर्तमात्रं विश्रय
विश्रामं गृहीत्वा ततः पश्चाद्गमिष्यामि गमनं करिष्यामि । इति पूर्वोक्तं चिन्तयित्वा ध्यात्वा सलिलमम्भोऽन्वेष-
माणो गवेषमाणो मुहुर्मुहुर्वारंवारमितस्ततो दत्ता दृष्टिर्येनैवंभूतः पर्यटन्परिभ्रमन्मार्गमध्वानमद्राक्षीदपश्यदित्यन्वयः ॥
अथ मार्ग विशेषयन्नाह - नलिनीति । नलिनी कमलिनी तया संयुक्तं जलं नलिनीजलं तस्यावगाह
आलोडनं तस्मादुत्थितस्य निःसृतस्याचिरात्स्वल्पकालादपत्रान्तस्य पश्चाद्वलितस्य महतो महीयसो गिरिचरस्य
पर्वतचारिणो वनगजयूथस्य हस्तिसमूहस्य चरणोत्थापितैः क्रमोद्भूतैः पङ्कपटलैः कर्दमसमूहैराकृतं समुन्नीकृतम् ।
तथा करावकृष्टैः करैः शुण्डादण्डैरवकृष्टैराकर्षितैर्मृणाला बिसमूलानि च नालानि च तैः सहवर्तमानैः कमलकलापैः
कल्माषितं चित्रवदाचरितमार्द्राणि चार्द्राणि चार्द्रार्द्राणि तैः शैवलप्रवालैर्जलशुककिसलयैः श्यामलितः कृष्णीभूत
उद्देशः प्रदेशो यस्य स तम् । उद्दलितैरवकृष्टैः कुमुदं श्वेतोत्पलम्, कुवलयं कुवेलम्, कहारं सौगन्धिकम् तस्य
कुमालानि मुकुलानि तैरन्तरान्तरा मध्ये मध्ये विच्छुरितं व्याप्तम् । उत्खातैरुत्पाटितैः सकर्दमैः सह पङ्केन वर्तमानैः
शालुककन्दैरुत्पलानां कन्दैः । 'उत्पलानां तु शालूकम्' इति कोशः । आकीर्णं व्याप्तम् । आ समन्तात्खण्डितैश्छिन्नैः
कुसुमानां पुष्पाणां स्तबकैर्गुच्छकैः सारैः प्रधानैर्वनपल्लवैररण्य किसलयैराच्छादितमावृतम् । आलूनाभिश्छिन्नाभिः
कुसुमोपविष्टाः पुष्पमध्यवर्तिन उल्लसन्तो दीप्यमानाः षट्पदा भ्रमरा यास्वेवंविधाभिर्वनलताभिररण्यव्रततिभिरा-
कुलितमाकीर्णम् । अभिनवेति । अभिनवः प्रत्यग्रो यः कुसुमपरिमलः पुष्पगन्धस्तद्वाहिना । तमालस्तापिच्छस्तस्य
पल्लवाः किसलयास्तद्वत्सरसश्यामेन मदजलेन दानवारिणा सर्वतो विष्वविसक्तं सिञ्चितम् । अन्वयस्तु प्रागेवोक्तः ।
 
>
 

 
उपजातेति । उपजाता समुत्पन्ना जलाशयस्य जलाधारस्य शङ्कारेका यस्य स तथा तं मार्ग प्रतीपमभि-
मुखमनुसरन्ननुगच्छन् । उद्धीवैरूर्ध्वकंधरैः पुरुषैर्दृश्यैर्द्रष्टुं योग्यैरुपरि प्रान्ते छत्रमण्डलस्यातपवारणवलयस्याकारो
येषां तैः छत्राकारैरित्यर्थः । सरलेति । सरैला अवका: साला वृक्षविशेषाः सल्लक्यो गजप्रियास्ता एव
 
टिप्प० - 1 चरणद्वारा उत्थापितैः (ऊर्ध्व नीतैः ) इत्यर्थं उचितः । 2 ग्राम्यप्रियोयं पाठः । 'कुसु-
मस्तबकशारैः' इत्येवोचितः पाठः । कुसुमगुच्छ विचित्रैः, इति तदर्थः । 3 एतन्नामका वृक्षाः ।
 
पाठा०—१ अन्विषमाणः, अन्विष्यन्; अन्वेषयन्. २ अपक्रान्तस्य च ३ अतिमहता. ४ गिरिचरस्य चरण.
५ उत्सारितैः; उत्तारितैः .. ६ करिकलभकरावकृष्टैश्च मृणालनालैः ७ कमलकुमुद. ८ खण्डितैश्च ९ शारै: १० उप-
विष्टनि॰िपष्टोच्छ्रसत् ; उपविष्टनिष्पिष्टोच्छ्रसित; उपविष्टनिष्पिष्टोद्धमत्. ११ बकुलकुसुम १२ रसश्यामेन. १३ मदजलेन
सिक्तम्. १४ उपजातजलाशङ्कश्च. १५ उद्दैव.