This page has not been fully proofread.

किन्नरमिथुनाऽप्राप्तौ निर्वेदः ]
 
पूर्वभागः ।
 
२५९
 
मैतिक्रामति । न चागच्छता मया तुरगवेगवशात्किन्नरमिथुने बैद्धदृष्टिनास्मिन्न विरलतरु-
शतशाखागुल्मलतासंतानगहने निरन्तरनिषेतितशुष्कपर्णाव कीर्णतले महावने पन्था निरूपितो
येन प्रतिनिवृत्त्य यास्यामि । न चास्मिन्प्रदेशे प्रयत्नेनापि पेरिभ्रमता मया मर्त्यधर्मा
कश्चिदासाद्यते यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रुतं हि मया बहुशः कथ्यमान-
मुत्तरेण सुवर्णपुरं सीमन्तलेखा पृथिव्याः सर्वजनपदानाम्, ततः परतो निर्मानुषमरण्यम्,
तञ्चातिक्रम्य कैलासगिरिरिति । अयं च कैलासः । तदिदानीं प्रतिनिवृत्त्यैका किना स्वयमुत्प्रे
क्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम् । आत्मकृतानां हि दोषाणां नियतमनु●
भवितव्यं फलमात्मनैव' इत्यवधार्य वामकरतलचलितरश्मिपाशस्तुरंगमं व्यावर्तयामास ।
भगवान्भानुरधुना
 
निवर्तिततुरंगमञ्च पुनश्चिन्तितवान् – 'अयमुद्भासितप्रभाभास्वरो
दिवसश्रियो रशनामणिरिव मध्यम लंकरोति । परिश्रान्तश्चायमिन्द्रायुधः । तदेनं तावदागृहीतक
 
करोति । न चेति । अस्मिन्महावने महाविपिन आगच्छतागमनं कुर्वता मया पन्था मार्गों न च निरूपितो न
ज्ञातः । कस्मात् । तुरगस्येन्द्रायुधस्य यो वेगो रयस्तद्वशात्तदनुरोधात् । कीदृशेन मया । बद्धेति ।
तस्मिन्किनर मिथुने बद्धा स्थापिता दृष्टिर्येन स तथा तेन । अथ वनं विशेषयन्नाह – अविरलेति । अविरलानि
निविडानि । अन्योन्य संबद्धानीत्यर्थः । यानि तरुशतानि वृक्षशतानि, शाखाः स्कन्धशाखाः, गुल्मा विटपाः, लताः,
शाखाभ्यः प्रादुर्भूताः शाखाः, एतेषां संतानं परम्परा तेन गहने कलिले । निरेति । निरन्तरं प्रत्यहं निपतितानि
सस्तानि यानि शुष्कपर्णानि शुष्कपत्राणि तैरवकीर्णं व्याप्तं तलमधोभागो यस्य तैस्मिन् । येन पथा प्रतिनिवृत्त्य
व्याघुट्य यास्यामि गमिष्यामि । न चेति । अस्मिन्प्रदेशे प्रयत्नेनाप्युद्योगेनापि परिभ्रमता परिभ्रमणं कुर्वता मया
कश्चित् मर्त्यधर्मा मनुष्यो न चासायते न प्राप्यते यः पुमान्सुवर्णपुरगामिनं पन्थानं मार्गमुपदेक्ष्यत्युपदेशं करि-
ष्यति । मया बहुशोऽनेकवारं कथ्यमानं प्रतिपाद्यमानम् । जनैरिति शेषः । श्रुतमाकर्णितमुत्तरेण सुवर्णपुरम् ।
तद्विशेषयन्नाह - सर्वेति । सर्वजनपदानां समग्रदेशानां पृथिव्या वसुधायाः सीमन्तलेखा सीमन्तः केशवेशस्तस्य
लेखेव लेखा । ततः परतोऽग्रतो निर्मानुषं मनुष्यरहितमरण्यं काननम् । तदरण्यमतिक्रम्योलङ्घ्य कैलासगिरिरिति ।
अयं चेति । अयं प्रत्यक्षः कैलासः । तदिदानीं प्रतिनिवृत्त्य व्याघुट्यैकाकिना मया स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य विलोक्य
विलोक्य दक्षिणामपाचीं आशां दिशं केवलमङ्गीकृत्य स्वीकृत्य गन्तव्यं गमनीयम् । आत्मना कृतानां स्वयमाचरि-
तानां दोषाणां दुष्कर्मणां नियतं निश्चितं फलमात्मनैव स्वयमेवानुभवितव्यमनुभवविषयीकर्तव्यम् । इत्यवधार्येति
निश्चित्य । वामेति । वामकरतलेन सव्यपाणितलेन चलितः कम्पितो रश्मिपाशः खलीनं येन स तुरंगममिन्द्रायुधं
•व्यावर्तयामास निवर्तयामास ।
 
निवर्तिततुरंगमश्चेति । निवर्तितः पश्चाद्वलितस्तुरंगम इन्द्रायुधो येनैवंभूतः पुनस्तदनन्तरं चिन्तित -
वान्ध्यातवान् । तदेव दर्शयति
- अधुनेति । अधुना सांप्रतमयमुद्भासितातिप्रकटीभूता या प्रभा कान्तिस्तया
भास्वरः शोभमानो यो भगवानैश्वर्यवान्भानुः सूर्यो दिवसत्रियो वासरलक्ष्म्या रशनामणिरिव मेखलारत्नमिव
मध्यमवलनम् । सूर्यपक्षे मध्यं मध्यभागम् । अलंकरोति विभूषयति । परिश्रान्तः खिन्नश्चायमिन्द्रायुधः ।
तत्तावदादावेनमश्वम् । आगृहीतेति । आगृहीता आत्ताः कतिपये कियन्तो दूर्वायाः शतपर्वायाः प्रवालकवलाः
 
टिप्प० -- 1 अनेन हि घोटकपदचिह्नदर्शनेन परावर्तनमध्यसंभवमिति सूचितम् । 2 सुवर्णपुरम्
उत्तरेण सुवर्णपुरादुत्तर दिशि, इत्यन्वयो योग्यः । 'एनपा द्वितीया' इति एनप्योगे द्वितीया । 3 अन्ना-
प्यन्वये आन्तष्टीकाकारः । पृथिव्याः सर्वजनपदानां (लोक निवासस्थानानाम्) सीमान्तलेखा अवधिः ।
इत्यन्वयः । 4 इदमज्ञानम् । 5 वलित इत्येव पाठः । परावर्तनार्थं तिर्यकृत्य धृत इति तदर्थः ।
 
पाठा०
 
•१ अपचक्राम. २ निबद्ध ३ तस्मिन् ४ पतित ५ परिभ्रमता मर्त्यधर्मा ६ वलित ७ व्यावर्तित-
• तुरङ्गश्च. ८ नभस्तलमध्यम्,