This page has not been fully proofread.

२५८
 
कादम्बरी ।
 
[ कथायाम्-
समुपारूढ
 
S
 
श्रमस्वेदार्द्रशरीरमिन्द्रायुधमात्मानं चावलोक्य क्षणमिव विचार्य स्वयमेव विह्या-
चिन्तयत् – 'किमिति निरर्थंकमयमात्मा मया शिशुनेवायासितः । किमनेन गृहीतेनागृहीतेन
वा किंनरयुगलेन प्रयोजनम् । यदि गृहीतमिदं ततः किम्, अथ न गृहीतं ततोऽपि किम् ।
अहो मे मूर्खतायाः प्रकारः । अहो यत्किंचनकारितायामादरः । अहो निरर्थकव्यापारेष्वभि-
निवेशः । अहो बालिशचरितेष्वासक्तिः । साधुफलं कर्म क्रियमाणं वृथा जातम् । अवश्य
कर्तव्या क्रिया प्रस्तुता विफलीभूता । सुहृत्कार्यमुपपाद्यमानं नोपपन्नम् । राजधर्मः प्रवर्तितो
न निष्पन्नः । गुर्वर्थ: प्रारब्धो न परिसमाप्तः । विजिगीषुव्यापार प्रयत्नो न सिद्धः । कस्मा-
दहमाविष्ट इवोत्सृष्ट निजपरिवार एतावतीं भूमिमायातः । कस्माच्च मया निष्प्रयोजनमिदमनु-
सृतमश्वमुखद्वयमिति विचार्यमाणे सत्ययमात्मैव मे पर इव हासमुपजनयति । न जाने
कियताध्वना विच्छिन्नमितो बलमनुयायि मे, महाजवो हीन्द्रायुधो निमेष॒मात्रेणातिदूर-
व्याप्तो यः श्रमस्वेदस्तेनार्द्र स्विन्नं शरीरं देहो यस्यैवंविधमिन्द्रायुधमात्मानं चावलोक्य निरीक्ष्य क्षणमिव
क्षणसदृशं विचार्य विमर्शनं कृत्वा स्वयमेवात्मनैव विहस्य हास्यं विधायाचिन्तयञ्चिन्तितवान् । किमिति हेतोः ।
अयमात्मा मया शिशुनेव बालकेनेव निरर्थकं आयासितः प्रयासं प्रापितः । किमनेनेति । अनेन किंनर -
युगलेन किंनर मिथुनेन गृहीतेनागृहीतेन वा किं प्रयोजनं किं फलम् । यदीति चेदित्यर्थे । चेदिदं किंनरमिथुनं
गृहीतं ततः किम् । न किमपीत्यर्थः । अथ न गृहीतं ततोऽपि किम् । न किमपीत्यर्थः । अहो इत्याश्चर्ये । मे
मम मूर्खताया मूढतायाः प्रकारो भेदः । अहो इति । यत्किंचन करोतीत्येवंशीलो यत्किंचनकारी तस्य भाव
स्तत्ता तस्यामादरो बहुमानः । अहो इति पूर्ववत् । निरर्थका निःप्रयोजना ये व्यापारास्तेष्वभिनिवेशो हठः ।
अहो इति पूर्ववत् । बालिशं निन्दितं चरितं चेष्टितं येषामेवंविधेषु कृत्येष्वासक्तिस्तन्मयत्वम् । कर्मधारयों
वा । साध्विति । साधु शोभनं फलं यस्यैवंविधं कर्म क्रिया क्रियमाणं विधीयमानं वृथा जातं निष्फैलं जज्ञे ।
अवेति । अवश्यकर्तव्यावश्यकरणयोग्या क्रिया प्रस्तुता प्रारब्धा विफलीभूता निष्फलीभूता । सुहृदिति ।
सुहृत्कार्य मित्रकार्यमुपपाद्यमानं विधौयमानं नोपपन्नं न निष्पन्नम् । राजेति । राजधर्मो नीतिधर्मः प्रवर्तितः
सर्वत्र विहितो न निष्पन्नो न सिद्धिं गतः । गुरोरर्थः पितुरर्थः प्रारब्धः प्रस्तुतो न परिसमाप्तो न परिपूर्णतां
गतः । विजेतुमिच्छवो विजिगीषवस्तेषां व्यापारो व्यार्हतिस्तस्मिन्प्रयत्न उद्योगो न सिद्धो न निष्पन्नः ।
कुत एतन्न जातमिति पराभिप्रायमाशङ्ख्याह- कस्मादिति । कुतो हेतोरित्यर्थः । उत्तरं प्रदर्शयन्नाह-
अहमिति । अहमाविष्ट इव भूताभिभूत इवोत्सृष्ट उज्झितो निजपरिवारः स्वकीय परिच्छदो येनैवंभूतः ।
एतावतीमियत्प्रमाणां भूमिं वसुधामायात आगतः । कस्माद्धेतोः । मया निष्प्रयोजनं निरर्थकमिदमश्वमुख-
द्वयं किन्नरमिथुनमनुसृतमाश्रितमिति विचार्यमाणे सति विचिन्त्यमाने सत्ययमात्मैव स्वचेतन एव मे मम
पर इवान्य इव हासं हास्यमुपजनयति निष्पादयति । न जाने नाकलयामि कियताध्वना कियन्मार्गेण
विच्छिन्नं विच्छेदं प्राप्तमितो मत्सकाशाद्वलं सैन्यूमनुयाय्यनुगमनशीलमित्यर्थः । मे मम महाजवो महावेगः ।
हिं निश्चितम् । इन्द्रायुधो निमेषमात्रेण चक्षुषो निमीलनमात्रेणाति दूरमतिविप्रकृष्टमतिक्रामत्यतिक्रमणं
 
.
 
टिप्प० - 1 बालिशचरितेंषु मूढजनकर्तव्येष्वित्येवार्थ उचितः, किं बहुव्रीहिणा । 2 दिग्विजयो वृथा-
ऽभवदित्यर्थः;
:; इतः परावर्तनाभावेन तत्फलभोगासंभवात् । 3 दिग्विजयेन दुष्टनिग्रहण-शिष्टानुग्रहण.
रूपा । 4 व्यवहृतिरित्याशयः । 5 मे अनुयायि ( बलम् ) इत्येवोचितम् ।
 
पाठा० - १ समारूढ. २ चालोक्य ३ अन्वचिन्तयत् ४ गृहीतम् ५ कर्तव्यक्रिया ६ व्यापार: ७ उत्सृज्य
निजपरिवारम्; उत्कृष्टपरिवार एव ताक्तीम् . ८ यत्सत्यम्. ९ अन्वयायि. १० निमिष.