This page has not been fully proofread.

किन्नरमिथुनाऽप्राप्तौ निर्वेदः ]
 
पूर्वभागः ।
 
२५७
 
किरातानां सुवर्णपुरं नाम निवासस्थानं नातिविप्रकृष्टं पूर्वजलनिधेर्जित्वा जग्राह । तत्र च
निखिलघरंणीतलपर्यटनखिन्नस्य निजबलस्य विश्रामहेतोः कतिपयान्दिवसानतिष्ठत् ।
 
एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य मृगयाँनिर्गतो विचरन्कानने शैलशिखरादवतीर्ण य
दृच्छया किंनर मिथुनमद्राक्षीत् । अपूर्वतया तु समुपजातकुतूहल: कृतग्रहणाभिलापस्तत्समी
पमादरादुपसर्पितरगः समुपसर्पन्, अदृष्टपूर्वपुरुषदर्शनत्रासप्रधावितं च तेत्पलायमानमनु-
सरन्ननवरतपाणिप्रहार द्विगुणीकृतजवेनेन्द्रायुधेनैकाकी निर्गत्य बैलसमूहात्सुदूरमनुसेसार ।
'ॲत्र गृह्यते, इदं गृहीतम् इदं गृहीतम्' इत्यतिरभसाकृष्टचेता महाजवतया तुरंगमस्य मुहूर्त -
मात्रेणैक पदमिवासहायस्त स्मात्प्रदेशात्पञ्चदशयोजनमात्र मध्वानं जगाम । तच्चानुबध्यमानमालो
कयत एवास्य संमुखापतितमचलतुङ्गशिखर मारुरोह । आरूढे च तस्मिन्शनैः शनैस्तदनुसा-
रिणीं निवर्स दृष्टिम्, अचलशिखर प्रस्तरप्रतिहतगतिप्रसरो विवृततुरंङ्गेश्चन्द्रापीड स्तस्मिन्काले
 
.
 
किरातानां भिल्लानां म्लेच्छानां वा सुवर्णपुर नाम निवासस्थानं जित्वा जयं कृत्वा जग्राह गृहीतवान् ।
कीदृशम् । पूर्वजलनिधेः पूर्वसमुद्रान्नातिविप्रकृष्टं नातिदूरम् । तत्र चेति । तस्मिन्स्थले निखिलं समग्रं यद्धर-
णीतलं पृथ्वीतलं तत्र पर्यटनं परिभ्रमणं तेन खिन्न॑स्य रीणस्य निजबलस्यात्मीय सैन्यस्य विश्रामहेतोः क्लान्ति -
निवृत्त्यर्थं कतिपयान्कियतो दिवसान्वासरानतिष्ठदवस्थानमकारयत् ।
 
एकदा विति । एकस्मिन्समये तंत्रस्थ एव तस्मिन्स्थाने स्थित एवेन्द्रायुधमश्वमारुह्यारोहणं कृत्वा
मृगयार्थमा खेटकार्थं निर्गतः कानने वने विचरन्गच्छञ्शैलशिखरागिरिशृङ्गादवतीर्णमुत्तीर्ण यदृच्छया स्वेच्छया
किंनरमिथुनं तुरवदन युग्ममद्राक्षीदवलोकयांचकार । अपूर्वतयाद्भुततया । तु पुनरर्थकः । समुपजातं समु-
पक्षं कुतूहलमाश्चर्यं यस्य सः । कृतेति । कृतो विहितो ग्रहणे स्वीकारेऽभिलाष इच्छाविशेषो येन सः ।
तदिति । तस्य किंनरमिथुनस्य समीपं पार्श्वमादराद्बहुमानादुपसर्पितस्तद्दिशं प्रति प्रेरितस्तुरगो वाहो येन स
तथा समुपसर्पन्समीपे गच्छन् । अदृष्टेति । अदृष्टपूर्वमनवलोकितपूर्वं यत्पुरुषदर्शनं मानुषेक्षणं तस्माद्यस्त्रास
आवस्मिकं भयं तेन प्रधावितं प्रकर्षेण प्रतिष्ठितं प्रस्थितं तत्किनरमिथुनं पलायमानं पलायनं कुर्वाणमनु-
सरन्ननुगच्छन् । अनेति । अनवरतं निरन्तरं यः पाणिप्रहारो हस्ताभिघातस्तेन द्विगुणीकृतो द्विभागाधि-
कीभूतो जवो वेगो यस्यैवंविधेनेन्द्रायुधेनाश्वेनैकाक्यसहायो बलसमूहात्सैन्यसंदोहान्निर्गत्य निर्गमनं कृत्वा
सुदूरमतिविप्रकृष्टमनुससार पश्चाद्ययौ । अत्रेति । अत्रास्मिन्स्थले गृह्यते ग्रहणविषयीक्रियते । मयेति
शेषः । इदं किंनरमिथुनं गृहीतम् । इदं गृहीतमिति पूर्वोक्तप्रकारेणातिरभसादतिवेगेनाकृष्टमाकर्षितं चेतो
यस्य स तथा च । अथ च तुरंगमस्याश्वस्य महाजवतया महावेगतया मुहूर्तमात्रेण घटिकाद्वयेनैकपदमि-
वैकवारमिव । अत्र सादृश्य इवशब्दः । एक्वारसदृशमित्यर्थः । असहायोऽद्वितीयस्तस्मात्प्रदेशात्पञ्चदशयो-
जनमात्रं पञ्चदशयोजनपरिमितमध्वानं मार्ग जगाम ययौ । अस्य राज्ञस्तत्पूर्वोक्तमनुबध्यमान मनुबन्धविषयी -
क्रियमाणं किंनर मिथुनमालोकयत एव विलोकयत एव संमुखापतितमभिमुखागतम् । शिखर विशेषणम् । अच-
लतुङ्गशिखरं पर्वतोच्चसानुमाहरोहारोहणं चकार । आरूढेति । तस्मिन्किनरमिथुन आरूढे सति शनैः शनै-
मन्द मन्दं तदनुसारिणीं तत्पृष्ठगामिनीं दृष्टिं चक्षुः निवर्त्य निवर्तनविषयीकृत्य । अचलेति । अचलस्य
पर्वतस्य शिखराणि सानूनि तेषां प्रस्तरा ग्रावाणस्तैः प्रतिहतः प्रतिरुद्धो गतिप्रसरो गमनप्रचारो यस्य सः ।
अत एव विधृतो गसनात्प्रतिषिद्धस्तुरङ्ग इन्द्रायुधाश्वो येनैवंविधश्चन्द्रापीडस्तस्मिन्काले तस्मिन्समये समुपारूढो
टिप्प० - 1 परिश्रान्तस्येति सरलोऽर्थः । 2 अदृष्टपूर्वस्य पुरुषस्य दर्शनात् त्रास इत्युचितम् ।
 
पाठा० -- १ विप्रकृतम्. २ धरणि. ३ विनिर्गतः ४ काननम् ५ शिखरावतीर्णम् ६ अपूर्वदर्शनतया.
७ तुरङ्ग ८ समुपससर्प ९ पलायमानमनवरत १० पाणिप्रहार. ११ निजबल. १२ उपससार. १३ अत्र गृह्यतेऽत्र
गृह्यते. १४ प्रस्तरशकल. १५ तुरंगम:.
 
३३ का०