कादम्बरी /29
This page has been fully proofread twice.
जन्मान्तरस्मरणेन द्वयोरपि (शुद्रकवैशम्पायनयोः) शरीरं काष्ठीभूतमभून् । इतो मनोवृत्तिमुद्दीपयतो वसन्तस्य विजृम्भणेन सहसैव प्रोद्दीपितरागा कादम्बरी आत्मानं धारयितुमपारयन्ती तां
चन्द्रापीडतनुं रागाद्यावत्कण्ठे गृह्णाति तावदेव कादम्बरीस्पर्शतो निवृत्तशापस्यास्य पुनः पराववृते जीवः । सुप्तप्रबुद्ध इवायमवादीत् -'प्रत्युज्जीवितोस्मि तवानेन कण्ठग्रहेण । निवृत्ता सा शूद्रकाख्या तनुः । तव प्रियसख्या महाश्वेताया अपि प्रियतमो मयैव सह निवृत्तशाप:' । इत्यभिदधत्येव कपिञ्जलकरावलम्बी गगनादवतरन्पुण्डरीकोपि संमुखमदृश्यत ।
यावत्कादम्बरी प्रियसखीं महाश्वेतां प्रियसमागमप्रियाख्यानेना- भिवर्द्धयति तावदेव विलासवतीतारापीडादयोऽपि समागत्य परमं प्रमोदमन्वभवन् । चन्द्रात्मकत्वेपि तारापीडादीनां पूर्ववत्पादयोः प्रणमंस्तैश्चाशीर्भिरभिवर्द्धितश्चन्द्रापीडःस्वपित्रोस्तत्पित्रोश्च 'एष वो वैशम्पायनः' इति विनयविलक्षवदनं पुण्डरीकमदर्शयत् ।अस्मिन्नवसरे कपिञ्जलः समुपसृत्य शुकनासमवादीत् – 'एवं संदिष्टमार्यस्य श्वेतकेतुना - अयं पुण्डरीकः केवलं संवर्द्धितो मया, आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्नः स्नेहः । तद्वैशम्पायन इत्येवावगत्याऽयमविनयेभ्यो निवारणीयः' ।
अपरेद्युः सकलगन्धर्वानुगतौ मदिरा-गौरीभ्यां सह चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः । चित्ररथश्चन्द्रापीडविवाहाय स्वराजधानीं नेतुं तारापीडं प्रार्थयत । तारापीडस्तं प्रत्यवादीत् — 'गन्धर्वराज ! मदीयं सर्वस्वमपि मया ते जामातरि संक्रमितम् । संप्रत्यहं सर्व सुतसात्कृत्य तपोवन एव निवस्तुमिच्छामि।" सर्वैः सह हेमकूटं गतश्चित्ररथः कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । हंसोपि पुण्डरीकाय समं महाश्वेतया निजपदमदात् । एकदा विषण्णमुखी कादम्बरी चन्द्रापीडमूर्तिं चन्द्रमप्राक्षीत — 'आर्यपुत्र ! सर्वे वयं वियुक्ताः परस्परं
संघटिताः । सा पुनर्वराकी पत्रलेखा न दृश्यते ।' चन्द्रापीडः प्रत्यवादीत् – 'सा खलु मद्दु:दुखदुःखिता रोहिणी । शापवशान्महीमागतेन मया सह स्नेहादवतीर्णा । संप्रति मया साऽऽत्मलोकं विसर्जिता, तत्रैव तां पुनर्द्रक्ष्यसि ।'
एवं पुण्डरीके समारोपितराज्यभारः परित्यक्तस्वकार्ययोः पित्रोः पादावनुचरन् कदाचिदुज्जयिन्यां कदाचिद्धेमकूटे कदाचिच्च पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि, यथेच्छं विहरंश्चन्द्रापीडमूर्ति-
श्चन्द्रः कादम्बर्या सह, कादम्बरी महाश्वेतया सह, महाश्वेता पुण्डरीकेण सह, पुण्डरीकोपि चन्द्रमसा सह परस्परावियोगेन सुखान्यनुभवन्तः सर्वे परां कोटिमानन्दस्याऽध्यगच्छन् ।
भट्टश्रीमथुरानाथशर्मनिर्माण [^१]मुद्रितः ।
सोयं कादम्बरीसारः सतां मदयतान्मनः ॥
१ निर्माणस्यैव मुद्रा ( चिह्नम् ) संजाता यस्य सः । कादम्बरीनिर्यासः पात्रमुखे लाक्षादिमुद्राङ्कितो रसिकानां मनो मादयति । अयं कथानिष्कर्षो मथुरानाथकृतनिर्माणेनाङ्कितः सज्जनमनो हर्षयेदित्युभयोऽर्थः ।