कादम्बरी /289
This page has not been fully proofread.
कादम्बरी
[ कथायाम्-
विश्वस्थानस्थानेषु राजपुत्रान्, संमर्जयन्दनानि, प्रतीच्छन्नुपायनानि, गृह्णन्करान, आदिशन्दे-
शव्यवस्थाम्, स्थापयन्स्वचिह्नानि, कुर्वन्कीर्तनानि, लेखय शासनानि, पूजयन्नग्रजन्मनः, प्रै-
णमन्मुनीन्, पालयन्नाश्रमान्, जनानुरागं प्रकाशयन्विक्रमम्, आरोपयन्प्रतापम्, उपचिन्व-
म्यशः, विस्तारयम्गुणान्, प्रख्यापयन्सच्चरितम्, आमृगश्च वेलावनानि, बलरेणुभिराधूसरी-
कृतसकलसागरसलिलः पृथिवीं विचचार प्रथमं प्राचीम्, ततस्त्रिशङ्कतिलकाम्, ततो वरुण-
लाञ्छनाम् अनन्तरं च सप्तर्षिताराशबलां दिशं जिंग्ये । वेर्षत्रयेण चात्मीकृताशेषद्वीपान्तरं
सकलमेव चतुरुंदधिखातवलयपरिखाप्रमाणं बभ्राम महीमण्डलम् । ततः क्रमेणाव जितसक-
लभुवनतलः प्रदक्षिणीकृत्य वसुधां परिभ्रमन्, कदाचित्कैलाससमीपचारिणां हेमजकूटनाम्नां
।
२५६
19
कुर्वन् । स्थानस्थानेष्विति । स्थानानि च स्थानानि च स्थानस्थानानि तेषु राजपुत्रान्नृपसुतानभि-
षिञ्चन्नभिषेकं कुर्वन् । रत्नानि स्वस्वजातावुत्कृष्टवस्तूनि समर्जयन् । उपायनानि प्राभृतानि प्रतीच्छन्त्री-
कुर्वन् । करान्दण्डान्गृहन्ग्रहणं कुर्वन् । देशव्यवस्थां जनपदमर्यादामादिशजाज्ञापयन् । स्खचिह्नानि खस्या-
गमन निमित्तानि स्थापयन्स्थापनां कुर्वन् । कीर्तनानि हरिगुणगानानि कुर्वन् । शासनानि ग्राम पट्टकादी नि
लेखयंल्लिपीकारयन् । अग्रजन्मनो ब्राह्मणान्पूजयन्नर्चयन् । मुनीनुषीन्प्रणमन्नमस्कुर्वन् । आश्रमान्ब्रह्मचारि
प्रभृतीन्पालयन्प्रतिपालनां कुर्वन् । जनानामनुरागो यथा स्यादेवंभूतं विक्रमं पराक्रमं प्रकाशयन्प्रकटयन् ।
प्रतापं कोशदण्डजं तेज आरोपयन्स्थापयन् । यशः सर्व दिग्गामुकमुपचिन्वन्पुष्टीकुर्वन् । गुणान्शौर्यादी वस्ता-
रयन्प्रथयन् । सच्चरितं शोभनं वृत्तं लोकेषु प्रख्यापयन्प्रकटीकुर्वन् । वेलावनानि समुद्रतीरोद्भवोपवनान्या-
मृद्गज्ञाभञ्जयन् । किंविशिष्टः । बलरेणुभिः सैन्यधूलिभिरासमन्ताद्धूसरीकृतमीषत्पाण्डुरीकृतं सकलः
समझो यः सागरः समुद्रस्तस्य सलिलं पानीयं येन सः । पृथिवीं वसुधां विचचार बभ्राम । प्रथमं क
जग्मिवानित्याशयेनाह – प्रथम मिति । प्रथममादौ प्राचीं प्राग्दिशम् । तत इति । ततः तद्गमनानन्तरं
त्रिशङ्कर्नृपतिरेव तिलको यस्यां सा तथा ताम् दक्षिणामित्यर्थः । इदं च पुराणे प्रसिद्धम् । ततो वरुणः
प्रचेता लाञ्छनं यस्याः सा ताम् । पश्चिमामाशामित्यर्थः । अनन्तरं चेति । ततः पश्चात्सप्तर्षीणां मरीचि -
प्रमुखाणां तारा नक्षत्राणि तांभिः शबलां कर्बुरां दिशमुदीचीं जिये । जितवानित्यर्थः । वर्षेति । वर्षत्रये -
णाब्दत्रयेण । सकलेति । सकलमेव समग्रमेव महीमण्डलं वसुधावलयं वभ्राम भ्रमणं चकारेत्यन्वयः ।
अथ महीमण्डलं विशिनष्टि - आत्मीति । आत्मीकृतं स्वायत्तीकृतमशेषं समग्र द्वीपान्तरमन्तरीपान्तरं
यस्मिंस्तत्तथा । चतुरिति । चतुरुदधयश्चतुःसमुद्रा एव खातवलयं तदेव परिखाप्रमाणं यस्य तत् । तत-
स्तज्जयानन्तरं क्रमेण परिपाट्या । अत्रेति । अवजितं स्वायत्तीकृतं सकलभुवनतलं समग्रवसुधातलं येन स
एवंभूतः । वसुधां प्रदक्षिणीकृत्य पृथ्व्याः प्रदक्षिणां दत्त्वा परिभ्रमन्नितस्ततः पर्यटन् । कदाचित्कस्मिंश्चि-
त्समये । कैलासेति । कैलासो रजताद्विस्तत्समीपचारिणां तत्पार्श्वगामिनां हेमजकूट इति नाम येषामेवंविधानां
।
।
टिप्प० -1 आत्मनो विक्रम-प्रतापादेर्घोषणाः इत्यर्थ उचितः, हरिगुणगानस्य समस्यात्रायामप्रसक्त-
स्वात् । 2 स्पष्टं प्रक्रमभङ्गः । सर्वत्र स्वकर्मसहितं रात्रन्तमुपात्तं न क्वचित्क्रियाविशेषणम् । अत एव 'जन-
यन् जनानुरागम्' इत्येव पाठः । 3 जि. धातोः परस्मैपदित्वादिदमशुद्धम् । अतः 'विजिग्ये' इत्येव पाठः ।
4 धन्यः ! 'हेमजकूट' इत्यपि कस्याश्चिजातेर्नाम भवतीति यस्य परिज्ञानं सोपि टीकाकरणे व्याप्रियते इति
महद्भागधेयमस्माकम् । अस्तु 'हेमकूटधानाम्' इत्येव पाठः । हेमकूटो हिमालयादुत्तरस्थितः पर्वत-
विशेषो धाम ( निवासः ) येषां तेषामिति तदर्थः ।
पाठा० - १ व्यवस्था : २ पू: प्रशस्ती:. ३ प्रीणयन्. ४ जनयञ्जनानुरागम् ५ ख्यापयन् ६ सच्चरितमु-
इषोतयन्पौरुषम्॰ ७ आमृद्गन्वेला; आमर्दयंश्च वेला. ८ विजिग्ये. ९ एवं वर्षत्रयेणात्मी, १० अम्भोधि. ११ निर्जितं;
आवर्जितं. १२ वसुंधरामु. १३ हेमकूटधाम्नाम्. हेमजानाम्नाम्.