कादम्बरी /288
This page has not been fully proofread.
दिग्विजय: ]
पूर्वभागः ।
तस्यां चावतीर्य राजवत्सर्वाः क्रियाञ्चकार । सर्वेश्च तैः समेत्य नरपतिभिरमायैश्च
विविधाभि कथाभिर्विनोयमानस्तं दिवसमशेषमभिनव पितृवियोगजन्मना शोकावेगेनायास्य-
मानहृदया दुःखेनात्यवाहयत् । अतिवाहित दिवसश्च यामिनीमपि स्वशयनीयस्य नातिदूरे नि-
हिंतशयन
निषण्णेन वैशम्पायनेन, अन्यता समीपे क्षितितले विन्यस्तकुथप्रसुप्तया पत्रलेखया
सह, अन्तरा पितृसक्तम्, अन्तरा मातृसंबद्धम्, अन्तरा शुकनासमयं कुर्वन्नालापं नातिजात-
निद्रः प्रायेण जामदेव निन्ये । प्रत्यूषे चोत्थाय तेनैव क्रमेणानवरतप्रयाणकैः प्रतिप्रयाणकमुप-
चीयमानेन सेनासमुदायेन जर्जरयन्वसुंधराम्, आकम्पयन्गिरीन्, उर्सिंञ्चसरितः, रिक्ती-
कुर्वन्सरांसि, चूर्णयन्काननानि, समीकुर्वन्विषमाणि, दुलषन्दुर्गाणि, पूरयन्निम्नानि, निम्नय-
न्स्थलानि प्रतिष्ठता शनैः शनैश्च स्वेच्छया परिभ्रमन्, नमयन्नुन्नतान्, उन्नमयन्नवर्नतान्,
आश्वासयन्सीतान, रंक्षन्शरणागतान्, उन्मूलयन्विटपकान, उत्सादयन्कण्टकान, अभि
१
2
G
तस्यामावासभूमाववतीर्यावतरणं कृत्वा । चकारः पुनरर्थकः । राजवत्तारापीडवत्सर्वाः क्रियाः समप्रकृत्यानि
चकार कल्पयामास । सर्वैश्चेति । तैः पूर्वोक्तैः सर्वैः समर्नरपतिभिरमायैश्च । अत्र चकारः समुच्चयार्थः ।
समेत्य नृपान्तिकमागत्य विविधाभिरनेकप्रकाराभिः कथाभिर्वार्ताभिर्विनोद्यमानः क्रीडाविषयी क्रियमाणोऽशेष
समग्रं तं दिवसं दिनमत्यवाहयदत्यामत् । केन । दुःखेन कृच्छ्रेण । अथ युवराजं विशिनटि -- अभीति ।
'अभिनवः प्रत्यग्रो यः पितृवियोगोऽननुभूतजनकविरहस्तस्माज्जन्मोत्पत्तिर्यस्य स तथैवं विधेन शोकावेगेन शोच-
•तीवेशनायास्यमानमायासं प्राप्यमाणं हृदयं चित्तं यस्य स तथा । रात्रिं कथमतिक्रमितवा नित्याह- अतीति ।
अतिवाहितोऽतिक्रमितो दिवसो येनैषंभूतो यामिनीमपि त्रियामामपि स्वशयनीयस्य स्वीय शय्यायाः । नातीति ।
नातिदूरे नातिदवीयसि प्रदेशे निहितं स्थापितं यच्छयनं शयनीयं तत्र निषण्णेनोपविष्टेन वैशम्पायनेन । अन्यत
चान्यस्मिन् वैशम्पायन निषीदनव्यतिरिक्त समीपे पार्श्ववर्तिनि क्षितितले पृथ्वीतले विन्यस्ता स्थापिता या कुथा
परिस्तो मस्तत्र प्रसुप्तया कृतशयनया पत्रलेखाभिधानया करङ्कवाहिन्या सह सार्धम् । अन्तरा मध्ये पितृसक्तं
जनकसंबन्धि अन्तरा मातृसंबद्धम् । अन्तरा शुक्रनासो वैशम्पायनपिता तद्वार्ता भिर्निष्पन्नमालापमन्योन्यं
प्रीतिभाषणं कुर्वन्विदधन्नातिजाता न बाहुल्येन समागता निद्रा प्रमीला यस्य स तथा । प्रायेण बाहुल्येन
जाग्रदेव निद्राभाववानेव निन्ये निनाय । प्रत्यूषे चेति । प्रत्यूषे प्रभाते चोत्थायोत्थानं कृत्वा तेनैव क्रमेण
पूर्वोतपरिपाट्यानवरत प्रयाणकैर्निरन्तरगमनैः । प्रतीति । प्रतिप्रयाणकं प्रयाणं प्रयाणं प्रत्युपचीयमानेन पुष्टतां
प्राप्यमाणेन सेनासमुदायेन सैन्यसंघातेन प्रतिष्ठता चलता वसुंधरां धात्रीं जर्जरयञ्छिथिलतामापादयन् ।
गिरी पर्वताना कम्पयंस्तरलतां नयन् । सरितो नदीः उत्सिञ्चजलं दूरीकुर्वन् । सरांसि तटाकानि रिक्तीकुर्वञ्छू
न्यीकुर्वन् । जलेनेति शेषः । काननानि चनानि चूर्णयन्क्षोदी कुर्वन्विषमाणि कठिनानि समीकुर्वन्सरलीकुर्वन् ।
दुर्गाणि कोट्टानि दलयन्खण्डयन् । निम्नानि गभीराणि पूरयन्पूर्णांकुर्वन् । स्थलानि स्थलप्रदेशान् निम्नयन्स-
गम्भीरतामापादयन् । शनैः शनैर्मन्दं मन्दं स्खेच्छया खातन्त्र्येण परिभ्रमन्पर्यटन् । उच्चतानुचान् नमयज्ञ-
•म्रतामापादयन् । अवनतान्प्रणतान् उन्नमयनुच्चतां प्रापयन् । भीतांस्त्रस्ताना श्वासयन्नाश्वासनां कुर्वन् । शरणा-
गतांस्त्राणार्थं प्राप्तान्रक्षन्पालयन् । विटंपकान्विटानुन्मूलयञ्जुन्मूलनां कुर्वन् । कण्टकाञ्छत्रूनुत्सादयन्दूरी-
टिप्प० - 1 व्यत्यगमयत् इत्यर्थ उचितः । 2 विषादभरेण, इत्यर्थो योग्यः । 3 अनावश्यक मिदम् ।
अत एव 'प्रातिष्ठत' इति पाठस्तत्रैव वाक्यसमाप्तिश्च 'स्थलानि निन्नय-प्रातिष्ठत (अचलत् ) इति ।
wwmedic
पाठा० • १ नातिदूरनिषण्णेन. २ शयनीयसमीपे ३ क्षितितलविन्यस्त ४ नात्युपजात. ५ प्रत्युषसि, ६ उप-
सिञ्चन्. ७ प्रातिष्ठत; न्यायवर्त्मनि प्रजाः प्रतिष्ठापयन्प्रातिष्ठत्. ८ नतान्. ९ रक्षयन्.