कादम्बरी /287
This page has not been fully proofread.
२५४
कादम्बरी ।
[ कथायाम्-
।
द्धमति कदलिकावनान्तरेषु मयूखमाली । सर्वतश्च मदजलमुचां करिणामेलापरिमलसुरभिणि
वेणिकावाहिनि मैदवारिणि निरन्तरममा निपतितमधुकर कुलके लकलकलिला कालिन्दीजल-
कल्लोलकलितेव भाति भूतधात्री । सैन्यभरसंक्षोभभयात्सरित इव गेगनतलमुत्पतिता आच्छा-
दयन्त्येता दिक्चऋवालमिन्दुधवला ध्वजपचयः । सर्वथा चित्रं यन्नाद्य विघटितसकलकुलशै-
लसंधिबन्धा सहस्रशः शकलीभवति बलभरेण धरित्री, यद्वा बलभरपीडितवसुधाधारणविधुरा
न चलन्ति फणिनां पत्युः फणाभित्तयः' इत्येवं वदत एव तस्य युवराजः समुच्छ्रितानेकतोरणां
'तृणमय प्राकार मन्दिरसहस्रसंबाधामुल्लासितघवलपटमण्डपशतशोभिनीमावासभूमिमवाप ।
तरवर्ती कदलिकावनान्तरेषु रम्भाकाननान्तरेषु मयूखमाली सूर्यः शिखरदेशेषु ध्वजाग्रभागेषु स्खलितं
स्खलनां प्राप्तं मण्डलं बिम्बं यस्यैवंभूतः प्रतिरोधनिवृत्यर्थं ध्वजान्गणयन्निव संख्यां कुर्वन्निव कुतूहलामती-
त्युत्प्रेक्षा । ध्वजानामुच्चतोत्कर्षो व्यङ्ग्यः । कदलिकावन मिति सूर्यप्रदर्शनोपलक्षणमात्रं न त्वन्यत् । करिमदो-
त्कर्षमाह -- सर्वतश्चेति । मदजलमुचां मदस्राविणां करिणां हस्तिनामेलायाश्चन्द्रबालाया यः परिमल आमो-
दस्तद्वत्सुरभिणि सौरभ्ययुक्ते । वेणिकावाहिनीति । वेणिका प्रवेणी तया वहति गच्छतीत्येवंशीलं तस्मिने-
वंभूते मदवारिणि दानजले निरन्तरं मना । समन्ततो जलक्लिन्नेत्यर्थः । एवंभूता भूतधात्री पृथ्वी । तामेव
विशिनष्टि—निपतितेति । निपतितं पर्यस्तं यन्मधुकरकुलं भ्रमरसमूहस्तस्य यः कलकलः कोलाहलस्तेन
कलिला गहना । 'कलिलं गहनं' इति कोशः । अत्र च श्यामताद्रवत्वाभ्यां मदवारिणः, शब्दविशेषैः श्याम-
तापरिमाणविशेषैश्च भ्रमरकुलस्य साम्येनोत्प्रेक्षते - कालिन्दीति । कालिन्दी यमुना तस्या जलकल्लोल्लैः पानी •
यतरङ्गैः कलितेन भाति शोभते । सैन्येति । सैन्यस्य बलस्य यो भरस्तजनितो यः संक्षोभः क्षुब्धता तल्ल-
क्षणं यज्ञ्यं त्रासस्तस्माद्गगनतलं व्योमतलमुत्पतिताः स्वच्छत्वनैर्भल्यसाधर्म्यात्सरित इव नद्य इव एताः प्रत्य-
क्षोपलक्ष्यमाणा इन्दुव चन्द्रवद्धवलाः शुभ्रा ध्वजपङ्कयो वैजयन्ती श्रेण्यो दिक्चक्रवालं ककुप्समूहमाच्छादयन्त्या-
वृण्वन्ति । सर्वथेति । सर्वथा सर्वप्रकारेणैतच्चित्रं महदाश्चर्यम् । एतत्किमित्याह - यदिति । यदद्य विध-
टिता विशेष प्राप्ताः सकलाः समग्रा ये कुलशैलास्त एव संधिबन्धा अस्थिबन्धा यस्या एवंभूता धरित्री वसुं
धरा बलभरेण सैन्यसंमर्देन सहस्रशः सहस्रधा न शकलीभवति । न सहस्रधा जायत इत्यर्थः । एतदाश्चर्य मि.
व्यर्थः । एतच्छङ्कां दूरीकर्तुं पक्षान्तरमाह - यद्वेति । यद्वा बलभरेण सैन्यभरेण पीडिता या वसुधा तस्या
धारणं तेन विधुराः पीडिताः फणिनां पत्युः शेषनागस्य फणाभित्तयः फणकुड्यानि न चलन्ति । अत एवेयं
तदाघारेण तिष्ठतीत्यर्थः । इत्येवं पूर्वोक्त प्रकारेण तस्य वैशम्पायनस्य वदतो ब्रुवत एव युवराजश्चन्द्रापीड आवा.
सभूमिं निवासभूमिमवाप प्रापॆत्यन्वयः । अथ तां विशेषयचाह-समुच्छ्रितेति । समुच्छ्रितान्युच्चान्यनेका नि
तोरणाने बहिराणि यस्यां ताम् । 'बहिर्द्वारं तु तोरणम्' इति कोशः । तृणेति । तृणमयो यवसमयो यः
प्राकारी प्रस्तरिमन्यन्मन्दिरस गृहदशशतं तेन विद्यते संबाधः सांकर्यं यस्याम् । उल्लासितेति ।
उल्लासित मुलासं प्राप्तं यद्धवलंपटस्य श्वेतवस्त्रस्य मण्डपशतं जनाश्रयशतं तेन शोभिनीं शोभायुक्ताम् ।
टिप्प० -1 पताकाममूहान्तरालेषु, इत्यर्थोऽयमत्र, कदलिका ( रम्भा) कानन स्याऽप्रसक्तत्वात् । व्या-
ख्यातं च पूर्वम्- 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति । 2 विघटिताः सकलानां कुलशैलानां
सन्धिबन्धाः ( संयोगबन्धनानि ) यस्याः सा, इति व्याख्योचिता । 3 पृथिव्याः शकलीभवनासंबन्धेऽपि,
कणानां स्खलना संबन्धेपि, तत्संबन्धवर्णनादतिशयोक्तिः । 4 विपरीतमिदम् । मन्दिरसहस्रेण संबाधां
गहनां ( व्याशाम् ) इत्यर्थ: । 'संकटं ना तु संबाधः कलिलं गहनं समे' इत्यमरः ।
घाटा०-१ सदवारिणि ममा निरन्तरनिंपतित २ कलकलकलिता; कलकलालिका; कलकलललिता. ३ कलिका-
कवलिता ४ सैन्य संक्षोभ ५ घरणिमपहाय गगन ६ संच्छादयन्ति ७ द्विजपचय: ० ८ शैलबन्धा. ९ दलन्ति.
१० मन्दिरसंबाधा. ११ संशोभिनी.