कादम्बरी /286
This page has not been fully proofread.
दिग्विजयप्रस्थानम् ]
पूर्वभागः ।
२५३
ताः, कैनोंडूतानि चामराणि, कैर्नोच्चारिता जयशब्दाः, केषां न पीताः किरीटपत्रमकरैः सलिल
धारा इव निर्मलास्त चरणनखमयूखराजयः । एते हिँ चतुरुदधिजलावगाहदुर्ललितबलमदा-
बलिप्ता दशरथभगीरथभरत दिलीपालर्कमान्धातृप्रतिमाः कुलाभिमानशालिनः सोमपायिनो
• मूर्धाभिषिक्ताः पृथिव्यां सर्वपार्थिवा रक्षाभूतिमिवाभिषेकपयःपात पुतैश्च डामणिपल्लवै रुद्वहन्ति
मङ्गल्यां भवचरणरजः संहतिम् । एभिरियमादिपर्वतैरिवापरैर्वृता धरित्री । एतानि चाप्यमी-
बामालावितदशदिगन्तरालानि सैन्यानि भवन्तमुपासते । तथाहि । पश्य पश्य वस्यां यस्यां
दिशि विक्षिप्यते चक्षुस्तस्यां तस्यां रसातलंमिवोद्भिरति, वसुधैव सूते, ककुम इव वमन्ति, गँ-
गनमिव वर्षति, दिवस इव सृजति बलानि । अपरिमितबलभराकान्ता मन्ये स्मरति महाभा-
रतसमरसंक्षोभस्याद्य क्षितिः । एष शिखरदेशेषु स्खलित मण्डलो ध्वजान्गणयन्निव कुतूहला-
भिश्चाभराणि वालव्यजनानि नोडूतानि न वीजितानि । एतेनास्य सर्वेऽपि राजानश्वामरग्राहिणोऽभूवन्निति
ध्वनितम् । तथा कैर्नृपतिभिर्जयशब्दा मङ्गलशब्दा नोच्चारिता नोदीरिताः । तथा केषां राज्ञां किरीटानां मुकु-
टानां पत्रमकराः पत्रेषु मकराकारा विवृतमुखास्तैः सलिलधारा इव पतत्पानीयपचय इव निर्मला: स्वच्छा-
स्तस्य तारापीडस्य यौ चरणौ पादौ तयोर्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां राजयः श्रेणयो न पीताः
न पानविषयीकृताः । एतेन सर्वेऽपि क्षितिभुजस्तारापीडस्य महाराजस्य चरणसपर्या कृतवन्त इति ध्वनि-
तम् । अथ राज्ञां स्वरूपं वर्णयन्नाह - एते हीति । हि नितम् । पृथिव्यां रत्नगर्भायामेते प्रत्यक्षोप-
लभ्यमाना ये सर्वपार्थिवाः समग्रराजानो रक्षाभूतिमिव रक्षाभस्मैमिवाभिषेकस्य यौवराज्याभिषेकस्य यः
पयःपातः सलिलपातस्तेन पूतैः पवित्रैश्चूडामणयः शिरोरत्नानि त एव पलवास्तैर्मङ्गल्यां मङ्गले हितां भव-
चरणयोस्त्वत्पादयो रजःसंहतिं रेणुसमूहमुद्वहन्ति धारयन्ति । कीदृशा राजानः । चतुरिति । चतुरुदधय-
श्चतुःसमुद्र।स्तेषां जलानामवगाहः तत्संबन्धी महाप्रलयस्तद्वद्दुर्ललितं दुश्चेष्टितं रिपुक्षयकृलक्षणं यस्मिन्नेताहरां
बलं सैन्यं तस्य मदोऽहंकारस्तेनावलिप्ता व्याप्ताः । दशरथो रामपिता, भगीरथः सगरपौत्रः, भरत आर्षभिः,
दिलीपो रघुपिता, अलर्कः प्रसिद्धः, मान्धाता युवनाश्वतनयः एतैः प्रतिमाः सदृशाः कुलस्य गोत्रस्य
योऽभिमानोऽहंकारस्तेन शालिनः शोभिनः । सोमपायिन: सोमेष्टिकारिणो मूर्धन्यभिषिक्ताः कृताभि-
षेकाः । इयमिति । एभिः पूर्वोक्तव्यावर्णितस्वरूपै राजभिरियं धरित्री वसुधा धृता धारिता । कैरिव । अपरै-
भिन्नैरादिपर्वतैरिव कुलपर्वतैरिव । एतानीति । अमीषां राज्ञामेतानि सैन्यानि भवन्तं त्वामुपासते सेवन्ते ।
की। आलावतान्यवगाहितानि दशदिशामन्तरालानि मध्यभागा यैतानि । एतदेव दर्शयति –
तथाहीति । पश्य पश्य विलोकय विलोकय । यस्यां यस्यां दिशि चक्षुर्नेत्रं विक्षिप्यते प्रेर्यते तस्यां तस्यां
दिशि रसातलमिव पृथ्वीतलमिवोद्गिरति वमति । बलानि सैन्यानीति सर्वत्र संबध्यते । वसुधेव वसुंधरेव सूते
जनयति । ककुभ इव दिश इव वमन्त्युद्गिरन्ति । गगनमिवान्तरिक्षमिव वर्षति वृष्टिं करोति । दिवस इव दिन-
मिव सृजति प्रणयति । अहमिति मन्ये जानेऽद्य क्षितिर्वसुधाऽपरिमितं यद्वलं सैन्यं तस्य भरोऽतिशयस्तेनी-
कान्ता भरिता सती । महेति । महाभारते प्रतिपादितो व्याख्यातो यः समरसंक्षोभः सङ्ग्रामसंमर्दस्तस्य
स्मरति स्मरणं करोति । अत्र स्मृत्यर्थधातुभिर्योगे 'मातुः स्मरति' इतिवत्कर्मणि षष्ठी । एष इति । एष समीप
।
2
टिप्प० - 1 भस्सेवेत्यर्थः । 2 नेदमुचितम् । चतुरुदधिजलेषु योऽवगाहः विजययात्रार्थमवतरणं तेन
दुर्ललितानां टष्टमनोहराणां बलानां सैन्यानां मदेनावलिप्ताः ( गर्विताः ) इत्यर्थः । 3 व्याज्ञानीत्यर्थः ।
पाठा-१ उद्धृतानि. २ त्वच्चरण. ३ हि ते ४ दुर्ललितवद. ५ माङ्गल्याम्; मङ्गलदाम्. ६ पश्य यस्याम्.
७ गगनतलम्. ८ महाभारतसंक्षोगस्य; महाभारत बलसमर संक्षोभस्य ९ मत्तभकरटशिखरदेशेषु. १० परिस्खलित