This page has not been fully proofread.

2
 
२५२
 
कादम्बरी ।
 
[ कथायाम्-
अथ निजमदोष्मसंतप्तानां दन्तिनां दिशि दिशि करविवरनिःसृतैः क्षरद्भिः क्षीरोदधवलैः
शीकरासारैः, कर्णपल्लवप्रहतिविसृतेन च विसर्पता दानजलबिन्दुदुर्दिनेन, हेषार व विप्रकीर्णैश्च
वाजिनां लालाजललवजालकैरुपशमिते रजसि, पुनरपि जातालोकासु दिक्षु, सागरादिवोन्मन्न-
मालोक्य तदपरिमाणं बलमुपजातविस्मयः सर्वतोद्त्तदृष्टिर्वैशम्पायनश्चन्द्रा पीडमाबभाषे-
'युवराज, किं न जितं देवेन महाराजाधिराजेन तारापीडेन यज्ञेष्यसि, का दिशो न वशीकृता
या वशीकरिष्यसि, कानि दुर्गाणि न प्रसाधितानि यानि प्रसाधयिष्यसि, कानि द्वीपान्तराणि
नात्मीकृतानि यान्यात्मीकरिष्यसि, कानि रत्नानि नोपार्जितानि यान्युपार्जयिष्यसि, के वा न
प्रणता राजानः, कैर्न विरचितः शिरसि बालकमलकुकालकोमलः सेवा जलिः, कैर्न मसृणी-
कृताः प्रतिबद्धद्देमपट्टेलेलाटै: सभाभुवः, कैर्न घृष्टाः पादपीठे चूडामणयः, कैर्न प्रतिपन्ना वेत्र.....
 
अथेति । तदनन्तरं वैशम्पायनश्चन्द्रापीडमाबभाषेऽभिदधावित्यन्वयः । कस्मिन्सति । रजस्युपशमिते
शान्ति प्राप्ते सति । कैः । निजेति । निजमदस्यात्मीयदानस्य य ऊष्मा तापस्तेन संतप्तानां प्रज्वलितानां
दन्तिनां हस्तिनां दिशि दिशि शंकराः झुण्डादण्डास्तेषां विवराणि रन्ध्राणि तेभ्यो विनिःसृतैर्बहिरागतै-
रत एव क्षरद्भिः सवद्भिः । क्षीरोदः क्षीरसमुद्रस्तद्वद्धवलैः शुः । शीकरा वातास्तवारिविप्रुषस्तेषामासारा
वेगवत्यो वृष्टयस्तैस्तथा । कर्णा एव पलवास्तेषां प्रहतिः प्रकर्षण हननं तया विसृतेनेतस्ततो विक्षिप्तेन ।
अत एव विसर्पता प्रसरता दानजलबिन्दुदुर्दिनेन मदवारिपृषन्मेघजनिततमसा । तथा वाजिनां तुराणां
हेषारवा हेषाशब्दास्तैर्विप्रकीर्णैर्विक्षिप्तैः । 'हेषा हेषा तुरङ्गाणां गजानाम्' इति कोशः । एवंविधैः । लाला-
जलं मुखनिष्ठचूतजलं तस्य लवाः खण्डांस्तेषां जालकैः समूहैः । 'समवायो निकुरम्बं जालं निवहसंच यौ'
इति हैमः । पुनरपीति । रजःशमनानन्तरं जातः प्रकटीभूत आलोकः प्रकाशो याखेवंभूतासु दिक्षु
ककुप्सु । कृष्णत्वसाम्यादाह - सागरेति । सागरात्समुद्रादुन्मनमिवोपर्यागत मिवापरिमाणमसंख्यं बलं सैन्य-
मालोक्य निरीक्ष्य । अथ वैशम्पायनं विशेषयन्नाह - उपेति । उपजातः समुत्पन्नो विस्मयश्चित्रं यस्य सः ।
सर्वत इति । सर्वतोऽभितो दत्ता प्रेरिता दृष्टिर्येन सः । अन्वयस्तु प्रागेवोक्तः । किमुवाचेलाह-
युवराजेति । हे युवराज, देवेन पूज्येन तारापीडेन महाराजाधिराजेन किमिति प्रश्ने । न जितं वशी-
कृतम् । सर्वमेव जितमित्यर्थः । यद्भवांस्त्वं जेष्यसि वशीकरिष्यसि । तथा का दिशः ककुभो न वशीकृता
नात्मसात्कृता यास्त्वं वंशी करिष्यसि स्वायत्तीकरिष्यसि । कानि दुर्गाणि कोट्टानि न प्रसाधितानि न गृही-
तानि यानि त्वं प्रसाधयिष्यसि ग्रहीष्यसि । तथा कानि द्वीपान्तराण्यन्तरीपान्तराणि नात्मीकृतानि यानि.
त्वमात्मीकरिष्यसि । तथा कान्यनिर्दिष्टाभिधेयानि रत्नानि स्वस्वजातावत्युत्कृष्टवस्तूनि नोपार्जितानि नोपार्ज-
नाविषयीकृतानि यानि त्वमुपार्जयिष्यस्युपार्जनां करिष्यसि । अथ च के राजानो नृपा न प्रणता न नमस्कारं
कृतवन्तः । तथा कैर्नृपै राजभिर्न विरचितो न विहितः शिरस्युत्तमाङ्गे बालकमलस्य नवीननलिनस्य कुलो
मुकुलं तद्वत्कोमलो मृदुरेताहक्सेवाञ्जलिः सपर्यानियामकं पाणियोजनम् । तथा कैर्भूपतिभिः प्रतिबद्धाः
संनद्धा हेमपट्टाः कनकपट्टा येष्वेवं भूतैर्ललाटैर्भालैः सभाभुवः समाजक्षोण्यो न मसृणीकृता न लक्षणीकृताः ।
तथा कै राजभिर्नृपैः पादपीठे पदासने चूडामणयः शिरोमणयो न घृष्टा न घर्षणं प्रापिताः । तथा कैर्नृपै-
चैत्रलता वेतसयष्टयो न प्रतिपन्ना न स्वीकृताः । एतेन सर्वे प्रतीहारतां प्राप्ता इति सूचितम् । तथा कैर्भूपति-
५ सागरसलिलादिव.
 
पाठा० -१ संतप्तानां दिशि दिशि २ क्षीरोदक्षोद, ३ विलुतेन, ४ पुनरुपजात.
किमजितम्. ७ के न. ८ वेत्रयष्टयः