This page has not been fully proofread.

दिग्विजयप्रस्थानम् ]
 
पूर्वभागः ।
 
२५१
 
गमेन रसातलेन, हरिचरणेनेव संवर्धमानेन त्रिभुवनमलङ्घयत रजसा । विकच-
कुवलयवनमिव नवोदकेन गगनतलमवष्टभ्यमानमलक्ष्यत क्षीरोदपाण्डुना क्षितिक्षो-
देन । बहुलरजोधूसरितमशिशिर किरण बिम्बमवचूलचामरमिव निष्प्रभमभवत् । दुकू-
लपेटघवला कदलिकेव कलुषतामाजगाम गगनापगा। नरपालबलभारमसहमाना पुनरिव
भारावतारणार्थममरलोकमारुरोह रैजोमिषेण मही । निःशेषपीता तपमन्तर्दह्यमानमिव
जलंधिजलेषु धूसरितरविरथध्वजपटमपतद वनिरजः । मुहूर्तेन च गर्भवासमिव संहार-
सागरजलमिव कृतान्तजठरमिव, महाकालमुखमिव, नारायणोदरमिव, ब्रह्माण्डमिव विवेश
पृथिवी । मृन्मय इव बभूव दिवसः । पुंस्तमथ्य इव चकाशिरे ककुभ: । रेणुरूपेणेव परि-
णतमबरतलम् । एकमहाभूतमैयमिव त्रैलोक्यमासीत् ।
 
,
 
,
 
रसातलेन पृथ्वीतलेन । संवर्ध ( मा ) नेन वृद्धि प्राप्यमाणेन । केनेव । हरिचरणेनेव विष्णुपादेनेव । यथा हरिच-
रणो बलिध्वंसनार्थ क्रमेण वृद्धि प्राप्तस्तथायमपीत्यर्थः । एवं विधेन रजसा रेणुना त्रिभुवनं त्रिविष्टपमलयत ।
क्षीरोदः क्षीरसमुद्रस्तद्वत्पाण्डुना श्वेतरक्तेने क्षितिक्षोदेन वसुधाचूर्णेन गगनतलं व्योमतलमवष्टभ्यमानं
व्याप्यमानमलक्ष्यतादृश्यत । केन किमिव । नवोदकेन नवीनपानीयेन विकचानि विकस्वराणि यानि
कुवलयान्युत्पलानि तेषां वनमिव । अत्र गगनस्य कृष्णत्वसाम्यात्तदुपमानम् । क्षितिक्षोदस्य शुक्लत्वसाम्यान-
वोदकोपमानमिति भावः । बहुलेति । बहुलं निबिडं यद्रजस्तेन धूसरितं कर्बुरी कृतम शिशिर किरणबिम्बं
चन्द्रसूर्यबिम्बमण्डलमव चूलचामरमिव हस्तिकर्णाभरण जनमिव निष्प्रभं विगतद्युत्यभवज्जज्ञे । दुक्कू
 
लेति । दुकूलं क्षौमं तदेव पटो वस्त्रं तद्वद्धवला श्वेता गगनापगा स्वर्धुनी कलुषतां मलिनतामाजगामा-
गतवती । केव । कदलिकेव रम्भेव । यथा रम्भा रजोभिः कृत्वा कृष्णत्वं याति तथैयमित्यर्थः । नरेति ।
नरपालो नृपस्तस्य बलं सैन्यं तस्य भरं वीवधमसहमानेवाक्षममाणेव पुनर्भारावतारणार्थं भारं कुत्रचित्स्था-
पयितुममरलोकं स्वर्लोकं रजोमिषेण रेणुच्छलेन मही पृथ्व्यारुरोहावरोहणं चकार । एकवारं गोरूपेण
गताभूत् । इदानीं त्वेतद्रूपेणेत्यर्थः । अत एव पुनःशब्दोपादानम् । निःशेषेति । तदवनिरजो जलधिजलेषु
सामुद्रपानीयेष्वपतत्पपातेत्यर्थः । कीदृशम् । निःशेषः समग्रः पीत आखादित आतपः सूर्यालोको येन
तदत एवान्तर्दह्यमानमिवान्तर्मध्ये प्रज्वलमानमिव । अनेन जलपाते हेतुर्दर्शितः । पुनः कीदृशम् । धूस-
रितेति । धूसरितो धूम्रवर्णीकृतो रविरथस्य सूर्यस्यन्दनस्य ध्वजपटो येन तत् । मुहूर्तेनेति । मुहूर्तमात्रेण ।
सर्वत्र सबाह्याभ्यन्तरव्यायोपमानान्याह -- गर्भेत्यादि । गर्भवासमिव भ्रूणवासमिव । संसारसागरजलमिव
कल्पान्तजलधिपानीयमिव । कृतान्तजठरमिव यमोदरमिव । महाकालमुखमिवाखण्डदण्डायमानो यः कालो
महाकालस्तस्य मुखमिव । नारायणोदरमिव जनार्दनोदरमिव । ब्रह्माण्डमिव । पृथिवी वसुंधरा विवेश सर्वत्र
प्रविष्टवतीति । सैन्यमिति शेषः । गर्भवासादिकमिव रजोरूपेण पृथिवी सैन्यं प्रविष्टेत्यर्थः । अत्र गर्भवासा-
दिभिरुपमानैः सैन्यस्यात्युत्कृष्टतायनेक धर्मावच्छिन्नत्वं सूचितम् । तदन्तःप्रवेशाच रजसोऽपि ततोऽप्या-
धिक्यमिति भावः । मृदिति । मृन्मय इव मृदो विकार इव । अन्न विकारार्थे मयद । तद्वदिव दिवसो दिनं
बभूव । पुस्त इति । पुस्तं लेप्यादिकर्म तन्मय्य इव विलिप्ता इव ककुभो दिशश्रकाशिरे शुशुभिरे । रेणु ·
रूपेणेति । रेणुरूपेण रजोमयत्वेनेवाम्बरतलं व्योमतलं परिणतं तन्मयतां गतम् । एकमिति । एकं महा
भूतं पृथिवीलक्षणं तन्मयमिव त्रैलोक्यं त्रिविष्टपमासीद्वभूव ।
 
e
 
टिप्प० - 1 श्वेतेन, इत्येव वक्तव्यम् । कः प्रसङ्गो रक्तत्वस्येति धिक् ! 2 चन्द्रपददानं केवलमज्ञानम् ।
पाठा० -१ क्षणात्क्षीरोदफेनपाण्डुना २ पट्ट ३ भरमतिगुरुम् ४ रजोनिसेन. ५ निपीत ६ प्रस्थमय्यः •
७ दिश: ८ अम्बरम्. ९