This page has not been fully proofread.

२५०
 
कादम्बरी ।
 
[.कथायाम्-
तुषारेण, सैन्यभरपीडित महीतलमूर्च्छान्धकारेण, चलद्वैलजलदकाल कदम्बकुसुमोद्गमेन, दिवस-
करकरकमलवनोद्दलन द्विपयूथेन, गगनमहीतलप्लावनप्रलयपयोधिपूरेण, त्रिभुवनलक्ष्मीशिरो-
वगुण्ठनपटेन, महावराहकेसरनिकरकर्बुरेण, प्रलयानलघूमराजिमांसलेन, पातालतलादिवो-
त्तिष्ठता, चरणेभ्य इव निर्गच्छता, लोचनेभ्य इव निष्पतता, दिग्भ्य इवागच्छता,
नभस्तलादिव पतता, पवनादिवोल्लसता, रविकिरणेभ्य इव संभवता, अनपहृतचेतनेन
निद्रागमेन, अनत्रगणितसूर्येणान्धकारेण अधर्मकालोपस्थितेन भूमिगृहेण, अनुदित
तारागणनिवहेन बहुलनिशाप्रदोषेण, पैतितसलिलेन जलधरसमयेन, अभ्रान्तभुजं-

 
$
 
तेषां खण्डनं कर्तनं तस्मिंस्तुषारेण नीहारेण । कमलानां विध्वंसन एतस्यैव सामर्थ्यात् । सैन्येति ।
सैन्यभरेण बलभरेण पीडितमाकान्तं यन्महीतलं पृथ्वीतलं तस्य मूर्च्छा निश्चेष्टता तत्रान्धकारेण तिमिरेण ।
चलदिति । चलद्गच्छद्वलं सैन्यं तदेव जलदकाल: मेघसमयस्तत्र कदम्बकुसुमोद्गमेन नीपपुष्पोद्गमेन ।
दिवसेति । दिवसकरः सूर्यस्तस्य कराः किरणास्त एव कमलवनं नलिनखण्डं तस्योद्दलनं मूलत उच्छेदनं
तस्मिन्द्विपयूथेन हस्तिसमूहेन । गगनेति । गगनमेव महीतलं पृथ्वीतलं तस्य प्लावनमाक्रमणं तस्मिन्प्रलयः
कल्पान्तस्तस्य यः पयोधिः समुद्रस्तस्य पूरेण लवेन । त्रिभुवनेति । त्रिभुवनस्य त्रिविष्टपस्य या लक्ष्मीः
श्रीरतस्याः शिरोचगुण्ठन पटेनोत्तमालाच्छादन वस्त्रेण । महेति । महावराह आदिवराहस्तस्य केसरनिकरः
सटासमूहस्तद्वत्कर्बुरेण मलिनेन । प्रलयेति । प्रलयस्य कल्पान्तस्यानलो वह्निस्तस्य या धूमराजिर्दहन केतन-
पङ्किस्तद्वन्मांसलेन पुष्टेन । पातालेति । पातालतलाद्वडवामुखतलादुत्तिष्ठतेवोत्थानं कुर्वतेव । चरणेति ।
चरणेभ्यः पादेभ्यो निर्गच्छतेव निर्गमनं कुर्वतेव । लोचनेति । लोचनेभ्यो नेत्रेभ्यो निष्पततेव पतनं
कुर्वतेव । दिग्भ्य ऐन्यादिभ्य आगच्छतेवागमनं कुर्वतेव । नभ इति । नभस्तलाब्योमतलात्पततेव पतनं
कुर्वतेव । पवनेति । पवनात्समीरणादुल्लसतेवोल्लासं प्राप्नुवतेव । रवीति । रविकिरणेभ्यः सूर्यरश्मिभ्यः
संभवतेव प्रादुर्भवतेव । अनेति । निद्रायाः प्रमीलाया आगमः समागमस्तेन । अत्र तु स्वप्नादिविलक्षणं
बाह्यं ज्ञानं तस्त्रादित्यत आह - अनेति । अनपहृतमगृहीतं चेतनं चैतन्यं येनैवंविधेनेत्यर्थः । अत एवा-
लौकिक एवेति भावः । अनवेति । अनवगणितोऽनिराकृतः सूर्यो भानुर्येनैवंभूतेनान्धकारेणेव तमिस्रेणेव ।
अघर्मेति । अधर्मकाल उपस्थितेन प्राप्तेन भूमिगृहेण वसुधामध्यसदनेन । घर्मकाले तु तदीप्सितं स्यादत
एवोक्तम्- -अघर्मकालेति । 'अधर्मकालोपस्थितेन' इति पाठे धर्मकालस्तपस्याचरणादौ तस्येष्टत्वात् । अत एवो.
कमधर्मकालेति । अनुदितेति । अनुदित उदयं न प्राप्तस्तारागणनिवहो नक्षत्रसमूहो यस्मिन्नेवंभूतेन
बहुलनिशा कृष्णपक्षरात्रिस्तस्याः प्रदोषेण यामिनीमुखेन । पतितेति । पैतितं त्रस्तं सलिलं पानीयं
यस्मिन्नेवंभूतेन जलधर समयेन वर्षाकालेन । अञ्चेति । अभ्रान्ता अप्रचलिता भुजंगमाः सर्पा यस्मिन्नेवं विधेन
 
9
 
टिप्प० - 1 गगनरूपमहीतलस्य प्लावने ( जलद्वारा तिरोधाने ) प्रलयपयोधेः पूरः ( प्रवाहः ) तेन,
इति सरलोप्यर्थः कठिनीकृतष्टीकयेति धन्यासौ । 2 प्रत्येकचरणलग्नतया एनमुत्प्रेक्षा । एवमग्रेऽपि सर्वत्र
बोध्यम् । 3 निद्रा चेतनामपहरति, किन्तु इदं रजश्वेतनां न हरति अन्यत्सर्व निद्रातादात्म्यमिति, अधि-
काभेदरूपकट । प्राचां मते-अधिकारूढ वैशिष्ट्य रूपकम् । प्राचीनतराणां (वामनादीनाम्) मते तु- एक-
गुणहानिकल्पनायां समग्रगुणदार्ढ्य विशेषोक्तिरिति विशेषोक्तिः । एवम सर्वत्र । 4 'अपतितसलिलेन'
इत्येव पाठः । न पतितं वृष्टं वर्षाजलं यत्रेति तदर्थः । सर्वत्र नजूसमासप्रसङ्गे स्पष्टेपि उत्पाठाsपरिज्ञानं
मौढ्यमेव टीकाकृतः ।
 
पाठा० -१ सेनाभर; सैन्यतुरग. २ बहलबद्दल ३ दिवसकरकमल; दिवसकरकिरणकमल, ४ अनपहृतलोचनेना •
नवगणित, ५ अपतित ६ भुजङ्गेन.