कादम्बरी /282
This page has not been fully proofread.
दिग्विजयप्रस्थानम् ]
पूर्वभागः ।
,
इव तुरगमुख विक्षेपवितै: फेनपलवकुसुमस्तबकैः अनुगम्यमान इव मत्तगजघटाकुम्भ-
भित्तिसंभवेन धातुधूलिवलयेन, आलिङ्ग्यमान इव चलवामरकलापविधुतेन पटवासपांसुना,
प्रोत्साह्यमान इव नरपतिशेखर सहस्रपरिच्युतैः कुसुमकेशररजोभिः, उत्पातराहुरिव दिवस-
करमण्डलमकाण्ड एव पिबन्, नृपप्रस्थानमंङ्गलप्रेतिसरवलयमालिकासु गोरोचनाचूर्णाय-
मानः, ऋकचकृतचन्दनक्षोदधूसरो रेणुरुत्पपात ।
२४९
अपरिमाणबल संघट्टसमुपचीयमानश्च शनैः शनैः संहरन्निव विश्वमशेष मकालकालमेघपटल-
मेदुरो विस्तारमुपगन्तुमारेभे । तेन च क्रमेणोपचीयमानबहलमूर्तिना, दिग्विजयमङ्गलध्वजेन
रिपुकुलकमलप्रलयनीहारेण, राजलक्ष्मीविलासपटवासचूर्णेन, अहितातपत्रपुण्डरीकखण्डन-
किरीटानि तेषां मणयश्चन्द्रकान्तावास्तत्र पत्रभङ्गमकरिकास्ताभिः पीयमाने इव । तुरगेति । तुरगाणां
वाजिनां मुखान्याननानि तेषां विक्षेपाः प्रसारणक्रियाविशेषास्तेभ्यो विलुतैर्गलितैः फेनो मुखकफस्तस्य पल्लवाः
मस्ताः पुष्पगुच्छास्तैरभ्यर्च्यमांन इव पूज्यमान इव । मत्तेति । मत्ता मदयुक्ता
ये गजा हस्तिनस्तेषां घटाः समूहास्तासां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तेभ्यः संभव
उत्पत्तिर्यस्यैवंविधन धातुर्गैरिकादि: कुम्भस्थलशोभार्थमनुलिप्यते तस्य धूलिवलयेन रजोवलयेनानुगम्यमान
इव । चलदिति । चलन्वेल्लन्यश्चामरकलापो वालव्यजनसमूहस्तेन विधुतेन कम्पितेन पटवासः पिष्टातस्तस्य
पांसुर्धूलिस्तेनालिङ्ग्यमान इवाश्लिष्यमाण इव । नरेति । नरपतीनां राज्ञां शेखरसहस्रमवतंससहस्रं तस्मा-
परिच्युतैः स्ररतैः कुसुमानां पुष्पाणां केसराणि किजल्काः तेषां रजांसि परागास्तैः प्रोत्साह्यमान इव प्रोत्साहं
प्राप्यमाण इव । उत्पातैः उड्डीयमानो राहुः सैंहिकेयस्तद्वदिवाकाण्ड एवाप्रस्ताव एव दिवसकरभण्डलं सूर्यबिम्बं
पिबन्मसन् । नृपेति । नृपाणां राज्ञां प्रस्थानमङ्गलेषु याः प्रतिसरा हस्तसूत्राणि तेषां वलयमालिका वलय-
श्रेण्यस्तासु गोरोचनाचूर्णायमानो गोरोचनं प्रसिद्धं तत्क्षोदवदाचरमाणः । ऋकचेति । ऋकचं करपत्रकं तेन
कृतो यश्चन्दनक्षोदो मलयजचूर्ण तद्वद्धूसरः । अन्वयस्तु प्रागेवोक्तः ।
।
अपेति । अपरिमाणमसंख्यं यद्वलं सैन्यं तस्य संघट्टः संमर्दस्तेन समुपचीयमानः उपचयं प्राप्य
माणः । चकारः पुनरर्थंकः । शनैः शनैर्मन्दमन्दमशेषं समग्रं विश्वं संहरन्भिव तिरोधानं कुर्वशिव ।
अकालेति । अकालेऽप्रस्तावे यत्कालं कृष्णं मेघपटलमभ्रवृन्दं तद्वन्मेदुरः पुष्टो विस्तारमुपसरणमुपगन्तुं
प्राप्तुमारेभे । प्रारम्भं चकारेत्यर्थः । तेनेति । तेन पूर्वोक्तेन रेणुना । चकारः पुनरर्थः । ऋमेति । क्रमेण
परिपाट्योपचीयमाना पुष्टिं प्राप्यमाणा बहला दृढा मूर्तिर्देहो यस्य स तेन । दिगिति । दिशां ककुभां यो
विजय आत्मसात्करणं तत्र यन्मङ्गलं विघ्ननिवारक दधिदूर्वादि तस्य ध्वजेन केतुना । मुख्यमङ्गलेनेत्यर्थः ।
रिपुरिति । रिपवो दस्यवस्तेषां कुलानि गोत्राणि तान्येव कमलानि नलिनानि तेषां प्रलयः क्षयस्तस्मिन्नी-
हारेण । हिमप्रतिमेनेत्यर्थः । राजेति । राजलक्ष्मीनृपश्रीस्तस्या विलासो विलसनं तदर्थं पटवासचूर्णेन
पिष्टातक्षोदेन । अहितेति । अहितानां विपक्षाणां यान्यातपत्राणि छत्राणि तान्येव पुण्डरीकाणि कमलानि
पाठा
4
टिप्प० - 1 तदुभ्यन्तरगतत्वात् । 2 परागरजसामपि तत्पृष्ठगामित्वात्प्रकृष्ट मुत्साहं प्राप्यमाण हवे-
व्युत्प्रेक्षा । 3 असमये उदयात् उत्पातसूचको यो राहुरित्यर्थो वक्तव्यः । 4 धिक् । दधिदूर्वादेः काऽन्त्र
कथा ? किन्तु-दिग्विजयस्य मङ्गलध्वजेन माङ्गलिक केतुदण्डस्वरूपेण । ध्वजेवदुत्थानसादृश्यात् रजसि
ध्वजत्वरूपणमित्यर्थः ।
-१ विधूतेन. २ प्रसार्यमाण: ; प्रोत्सार्यमाण: ३ मङ्गलवलय. ४ प्रतिसरमालिकासु. ५ खण्ड.
३२ का०