This page has not been fully proofread.

२४८
 
कादम्बरी ।
 
[ कथायाम्-
9.
 
सटासंनिभः, क्वचित्परिणतरल्लकरोमपल्लवमलिनः, कचिदुत्पेन्नोर्णा तन्तुपाण्डुरः, कचिंजरठ-
मृणालदण्डघवलः, क्वचिज्जरत्क पिकेर्शेकपिलः, कचिंद्वरवृर्षंभरोमन्थ फेन पिण्डपाण्डुरः, त्रिपथ-
गाप्रवाह इव हरिचरणप्रभवः, कुपित इव मुञ्चन्क्षमाम् आरब्धपरिहास इवं रुन्धन्नय-:
नानि, तृषित इव पिबन्करिकरसीकरजलानि, पक्षवानिवोत्पतन्गगनंतलम् अलिनिवह इव
चुम्बन्मदलेखाम्, मृगपतिरिव रचयन्करिकुम्भस्थलीषु पदम्, उपात्तविजय इव गृह्णन्पता-
काम्, जरागम इव पाण्डुरीकुर्वन्शिरांसि, मुद्रयन्निव पक्ष्माग्रसंस्थितो दृष्टिम्, आजिघ्नन्निव
मकरन्दमधुबिन्दुपङ्कलनः कर्णोत्पलानि, मदकलकरिकर्णतालताडनत्रस्त इव विशन्कर्णशङ्को-
दरविवराणि, पीयमान इवोन्मुखीभिरवनिपतिमुकुटमणिपत्रभङ्गमकरिकाभिः, अभ्यर्च्यमान
 
,
 
उष्ट्रस्तस्य सटा जटास्ताभिः संनिभः सदृशः । कचिदिति । क्वचित् परिणतः पक्कवया यो रहेको हुण्ड-
स्तस्य रोमपलवस्तनूरुह किसलयस्तद्वन्म लिनः कृष्णः । क्वचिदिति । क्वचित् उत्पन्नः समुद्भूतो य ऊर्णा-
तन्तुर्जालकारकस्तद्वत्पाण्डुरः श्वेतरक्तः । क्वन्चिदिति । क्वचित् जरठो दीर्घकालीनो यो मृणालदण्डो
बिसदण्डस्तद्वद्धवलः शुभ्रः । क्वचिदिति । जरञ्जरीयान्यः कपिर्वनौकास्तस्य केशा अलकास्तद्वत्कपिलः
पिङ्गलः । क्वचिदिति । क्वचित् वरः प्रधानो यो वृषभो बलीवर्दस्तस्य रोमन्थश्चर्वितचर्वणं तस्मिन्यः
फेनपिण्डः कफपुञ्जस्तद्वत्पाण्डुरः श्वेतरक्तः । कीदृशः । त्रिपथगा गङ्गा तस्याः प्रवाहः स्रोतस्तद्वदिव हरिचरण-
प्रभवः । हरयोऽश्व विष्णुश्च । कुपित इव कोपं प्राप्त इव । किं कुर्वन् । क्षमां पृथ्वीं मुञ्चंस्त्यजन् । पक्षे क्षमां
क्षान्तिम् । आरब्धेति । आरब्धः प्रस्तुतः परिहासो हास्यं येनैवंविध इव । किं कुर्वन् । नयनानि लोचनानि
रुन्धन्नाच्छादयन्, उपहासकारिणो लोचनाच्छादनं लोकेऽपि प्रसिद्धम् । तृषित इव पिपासित इव करिणां
हस्तिनां करसीकरजलानि शुण्डादण्डोद्गतवातास्तवारीणि पिबन्पानं कुर्वन् । अदृश्यतां प्रापयन्नित्यर्थः ।
पक्षेति । पक्षवानिव गरुत्मानिव । तत्कृत्यमाह - उदिति । गगनतलमाकाशतलमुत्पतन्गच्छन् । उभयोरेक-
धर्मत्वात्तदुपमानम् । अलीति । अलीनां भ्रमराणां निवहः समूहस्तद्वदिव । किं कुर्वन् । मदलेखां दानरेखां
चुम्ब॑श्च॒म्बनं कुर्वन् । चुम्बनस्य संस्पर्श विशेषत्वात्तदुपमानम् । मृगेति । मृगपतिः सिंहस्तद्वदिव । किं कुर्वन् ।
करिकुम्भस्थलीषु गजशिरसः पिण्डस्थलीषु पदं स्थानं चरणं वा रचयन्विदधत् । उपात्तेति । उपात्तः खीकृतो
विजयो दस्युक्षयरूपो येन स तद्वदिव पताकां वैजयन्तीं गृह्णन्नाददत् । जरेति । जरा विस्रसा तस्या आगम-
स्तद्वदिव । तत्कृत्यमाह - शिरांस्युत्तमाङ्गानि पाण्डुरीकुर्वन्श्वेतीकुर्वन् । शुक्लतापादनसाधर्म्याज्जराया उपमा-
नम् । मुद्रयन्निति । पक्ष्म नेत्ररोम तदग्रसंस्थितस्तत्पुरोवतीं दृष्टिं मुद्रयन्निव संकोचयन्निव । मकरन्देति ।
मकरन्दो मरन्दस्तस्य मधु रसस्तस्य बिन्दुपकः पृषत्कर्दमस्तत्र लग्नः संयुक्तः कर्णोत्पलानि श्रोत्रकुवलयान्या-
जिघ्रन्निव गन्धं गृह्णन्निव । मदेति । मदेन दानवारिणा कला मनोज्ञा ये करिणो हस्तिनस्तेषां कर्णताला-
स्तैस्ताडनं प्रहार प्रदानं तेन त्रस्त इव भीत इव । कर्णाः श्रोत्राः, शङ्खो भालश्रवोन्तरम् तेषामुदरविवराणि
मध्यच्छिद्राणि विशन्प्रविशन् । उन्मुखीभिरिति । उन्मुखीभिरूर्ध्वमुखीभिरवनिपतयो राजानस्तेषां मुकुटाः
 
-
 

 
टिप्प० - 1 हरिणविशेषः । "रलकः कम्बले स्मृतः । तथैव कम्बलमृगे" इति हैमः । 2 वस्तुतस्तु
'पत्रोर्णतन्तुपाण्डुरः' इत्येव पाठः । पत्रसंबन्धिनी ( लकुवादिपत्रेषु ऊर्णाया उत्पन्नत्वात् ) ऊर्जा यन्त्र
तत्पत्रोर्णम्, परिष्कृत कौशेयवस्त्रं तस्य तन्तुवत् पाण्डुरः । 'पत्रोर्ण धौतकौषेयम्' इत्यमरः ।
 
पाठा० -१ घटा. २ पत्रोर्णतन्तुपाण्डुर: ३ जरठवत् ४ केशर ५ हर ६ वृषाभरणां शुकेन. ७ पताका: •
८ पाण्डरी. ९ बिन्दुलग्न: १० आविशन्. ११ करिकर्ण. १२ मणिभङ्ग.