कादम्बरी /28
This page has been fully proofread twice.
'हन्त पुनरपि निर्घृणया मयैव देवः पुण्डरीको निपातितः' इति सोरस्ताडं विलपन्तीं महाश्वेताम् 'अचिरादेव पुनः समागमो भवेत्' इत्याश्वास्य कपिञ्जलः श्वेतकेतोः समीपमुदपतत् । गते तस्मिन् पुनः समागमोपदेशेन समाश्वास्यमाना कादम्बरी शिलातले चन्द्रापीड- तनुमवस्था प्रयता देवोचितं पूजयन्ती तस्थौ । इतो जलदकालात्यये चन्द्रापीडवार्तामादाय प्रतिगतदूतमुखेन 'शापच्युतदिव्यप्रकृतीना- मखिलं मङ्गलोदर्कं भविष्यतीति' समाश्वासेन मरणव्यवसायान्निवार्य -माणा अपि तारापीडशुकनासादयः सान्तःपुरपरिजनाः स्नेहवशादखिलप्रजाभिरनुगम्यमानाश्चन्द्रापीडदर्शनाय तत्राजग्मुः । तत्र च शयानस्येवाऽविकृतां चन्द्रापीडस्य तनूमालोक्य
विस्मिताः सर्वे सौन्दर्य - पातिव्रत्याधिदेवतामन्वहमुपचरन्तीं कादम्बरीमभिननन्दुः । कादम्बरीमहाश्वेताप्रबन्धेन राजोचितसपर्ययोपचर्यमाणोपि सप्रजापरिजनो राजा तपस्वि- जनचर्ययाऽऽश्रमभूमिमिमामधितष्ठौ ।
हारीतप्रमुखानामृषीणां सविधे सर्वमिमं वृत्तान्तं कथयित्वा भगवान् जाबालि: सस्मितमवादीत् - 'योऽयं कामोपहततया दिव्यलोकात्परिभ्रश्य वैशम्पायननामा शुकनाससूनुरभूत्स एवैष
कुपितस्य पितुराक्रोशान्महाश्वेताशापाच्चास्यां शुकजातौ पतितोऽस्ति'- । "
राज्ञः शूद्रकस्य सविधे शुकः स्ववृत्तान्तं कथयति यत् –' एवं वदत्येव जाबालौ सुप्तप्रबुद्धस्येव मे सकलविद्यानां पूर्वपरिचितवस्तूनां च परिचयो यथावदभूत्, आसीच्च मनुजस्येव
वाक् । जाबालिपुत्रेण हारीतेन स्नेहादुपचर्यमाणोपि चन्द्रापीड - महाश्वेतादीनां स्मरणवशादुत्कण्ठया ताम्यन् पक्षोद्भेदपर्यन्तं कालं तत्र यथाकथंचिदगमयम् । पितुः ( श्वेतकेतोः ) समीपादागतेन कपिञ्जलेन दुर्दैवावसानं यावत्तत्रैवावस्थातुमागृहीतोऽपि उत्पतनसामर्थ्योदये एव महाश्वेतादीनां दर्शनार्थमुत्तरदिङ्मुखो नभस्युदपतम् । अशक्ततया क्षुत्तृड्भ्यां परीतोऽहं विश्रमार्थं
यावन्निशि मार्गतरौ विश्राम्यामि तावदेव प्रातस्तन्तुपाशैर्बद्धं चाण्डालहस्तगतं चात्मानमालोकयम् । ततः पक्कणाधिपतिदुहित्रा चाण्डालदारिकया पञ्जरे निबध्य मुनिभोजनोचितैः फलादिभिरेव यौवनमुपनीतोऽस्मि । कियत्कालानन्तरमेकदा प्रातरकस्मादात्मानं सुवर्णपञ्जरगतं तां च चाण्डालदारिकामीदृशीमपश्यं यादृशी देवेनाद्य दृष्टा । यावदहमाश्चर्यमिदं जिज्ञासितुं मौनमुत्सृजामि
तावदेव सेयं मामादाय देवपादमूलमायाता । तत्केयम्, किमर्थं वाऽहमाबध्य इहानीत इत्यस्मिन्विषये भवानिवाहमप्यनपगत- कुतूहल एवास्मि" इत्युक्त्वा शुको विरराम ।
प्रवृद्धकुतूहलेन राज्ञाऽऽहूता चाण्डालकन्यका त्वागत्य स्वतेजसा राजानमभिभवन्ती प्रागल्भ्येन बभाषे– 'कादम्बरीलोचनानन्द चन्द्र ! सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अस्मिन् शुकजन्मन्यपि पित्रा निषिद्धेपि सोयं परिचितप्रणयाय प्रस्थित इत्यनेन स्वयं कथितम् । अहमस्य दुरात्मनो जननी श्रीः । दुर्दैवशमनपर्यन्तं मर्त्यलोके एवैनमभिरक्षितुं पित्राऽस्य समादिष्टा, तथाप्रस्थितमेनमिहानीतवती । भवतश्चास्य च शापावसानसमयः । तद् द्वावपि दुःखबहुले तनू परित्यज्य सममेव स्वेष्टजनसमागम- सुखमनुभवतम्' इति कथयन्त्येव विद्युदिव चमत्कृत्य क्षितेर्गगनमुदपतत् ।