2024-03-30 15:37:35 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

गन्तरेण [^१]चानवरतं क्षरता [^२]मदजलधारादुर्दिनेन, कलकले- न च भुवनान्तरव्यापिना महाप्रलयकाल इव संजज्ञे । [^३]बलको- लाहलभीता इव धवलध्वजनिवहनिरन्तरावृता ययुः क्वापि दश दिशः । [^४]मलिनावनिरजःसंस्पर्शशङ्कितमिव समदगजघटा- वचूलसहस्रसंरुद्धमतिदूर [^५]मम्बरतलमपससार । [^६]प्रबल- वेत्रिवेत्रलतासमुत्सार्यमाणा इव तुरगखुररजो [^७]धूसरताभीतार्क-
किरणा मुमुचुः पुरोभागम् । इभकरसीक [^८]रनिर्वापणत्रस्तइवा- तपत्रसंच्छादितातपो दिवसो ननाश । [^९]बलभरजर्जरीकृता मदकलकरि [^१०]चरणशत [^११]खण्डिता द्वितीयेव प्रयाणभेरी
भैरवं भूमी ररास । गुल्फद्वयसे च तुरङ्गमुखविनिःसृतसितफेन- पल्लविते मदपयसि मदश्रुतां क-
 
[ टि ]-- येनैवंविधेनानवरतं निरन्तरं क्षरता स्रवता मदजलधारा दानवारिधारा तदेव दुर्दिनं मेघजं तमस्तेन । तथा भुवनान्तरव्यापि- ना विष्टपविवरप्रसरशीलेन । महाप्रलयेऽप्येतद्धर्माणां सद्भावात् । कलकलेन । सैन्येऽपि तद्दर्शनादुपमानोपमेयभावः । बलेति । बल- स्य सैन्यस्य यः कोलाहलः कलकलस्तेन भीता इव त्रस्ता इव दश-
संख्याका दिशः ककुभः क्वाप्यनिर्दिष्टस्थले ययुर्गताः । किंविशिष्टाः । धवलाः श्वेता ये ध्वजनिवहा वैजयन्तीगणास्तैर्निरन्तरं सर्वदावृता आच्छादिताः दिग्गमनेऽयमेव हेतुरिति भावः । मलिनेति । मलिनं यदवनिरजस्तस्य यः संस्पर्श: संश्लेषस्तस्माच्छङ्कितमिवारेकीकृत- मिवातिदूरमतिदविष्टमम्बरतलं व्योमतलमपससारापसृतं बभूव । अत्रार्थे हेतुगर्भितं विशेषणमाह - समुदेति । मदेन सह वर्तमाना या गजघटानेकपसमूहस्तस्य अवचूलसहस्रं कर्णाभरणसहस्रं तेन संरुद्धं संच्छन्नम् । अत्र गजातिशयत्वं व्यङ्ग्यम् । प्रबलेति । प्रब- लाः प्रकृष्टबलयुक्ता ये वेत्रिणो द्वारपालकास्तेषां वेत्रलता वेतसयष्ट- यस्ताभिः समुत्सार्यमाणा इव दूरीक्रियमाणा इव । तुरगेति । तुर- गाणामश्वानां खररजः शफधूलिस्तेन या धूसरतेषत्पाण्डुता तया [^1]भीता इवार्ककिरणाः सूर्यरश्मयः पुरोभागमभागं मुमुचुस्त- त्यजुः । अनेन तुरङ्गाणां भूयस्त्वं वेगातिशयः खुरनिक्षेपशक्तिविशे- षश्च व्यज्यते । इभेति । इभा हस्तिनस्तेषां करसीकरा: झुण्डादण्डो द्गतजलपृषतास्तैर्निर्वापणमपनयनं तेन त्रस्त इव [^2]चकित इव ।
आतपत्रेति । आतपत्रैश्छत्रै: संच्छादित आतपो रविप्रकाशो यस्मि- न्नेवंभूतो दिवसो ननाश नाशं प्राप्तवान् । बलेति । बलभरेण सैन्य- भारेण जर्जरीकृताः श्लथीकृता मदेन कला मनोहरा ये करिणो हस्तिनस्तेषां चरणशतमङ्घ्रिशतं तेन खण्डिता भिन्ना द्वितीयापरा प्रयाणभेरीव प्रस्थानदुन्दुभि [^3]रिव भैरवं कठोरं भूमिर्वसुधा रास शब्दं चकार । शब्दविशेषजनकत्वसाम्यादुत्प्रेक्षा । 'रस शब्दे' इति धातोर्लिटि रूपम् । मदेति । मदतां दानवारि क्षरतां करिणां गजा- नां मदपयसि पदे पदे पदातयः पत्तयः प्रचस्खलुः प्रस्खलनं प्रापुः । अथ मदपयो विशिनष्टि–गुल्फ [^4]द्वयसे चरणग्रन्थिपरिमिते । अत्र प्रमाणे द्वयसच् । तुरङ्गेति । तुरङ्गमुखेभ्योऽश्वव-
 
[^1]F. 'समुत्सार्यमाणा इव' इति पूर्वमुत्प्रेक्षितत्वात्पुनरियमुक्ति- रज्ञानमेव । तस्मात् 'रजोधूसरमर्ककिरणाः' इत्येव पाठः । वेत्रलतासमुत्सार्यमाणा इव रजोधूसरं पुरोभागम् (अर्ककिरणाः ) मुमुचुः । अर्ककिरणेषु अपसार्यमाणत्वरूपक्रियाया उत्प्रेक्षा। किञ्च परित्यागे तुरङ्गखुररजोधूसरपदस्यार्थी हेतुरिति पदार्थहेतुकं काव्य लिङ्गं च । कार्येण अर्ककिरणेषु राजपुरोभागपरित्यागरूपसाधा- रणजनव्यवहारसमा-
रोपात् समासोक्तिरिति त्रयाणामेषामङ्गाङ्गि- भावसंकरः ।
[^2]F. भीत इव । जलबिन्दुभिर्यथा वह्नर्निर्वापणं
तथा दिवसेऽपि संभावनमित्युत्प्रेक्षा । अत्रापि दिवसनाशे आतपत्राच्छादनं पदार्थो हेतुरिति पदार्थहेतु कं
काव्यलिङ्गम् । दिवसे अदृश्यमानताया असंबन्धेपि संबन्धोक्तेरतिशयोक्तिरिति त्रयाणामङ्गाङ्गितया संकरः ।
[^3]F. भूमौ भेरीस्वरूपस्योत्प्रेक्षा । अत्रापि शब्दकरणे बलभर० मदकल० इत्यादि विशेषणद्वयार्थी हेतुरिति
काण्व्यलिङ्गं चेत्यङ्गा- ङ्गिभावसंकरः ।
[^4]F. गुल्फद्वयसत्वस्यासंबन्धेपि संबन्धवर्णनादतिशयोक्तिः ।
 
पाठा०-[^]G. अनवरत .
[^
]G. गजमद.
[^
]G. बलहबल; वहलबल .
[^
]G. मलिनीकृतमिव .
[^
]G. अम्बरम् .
[^
]G. प्रचलितवेत्र;
प्रचुरत्र. वेत्र.
[^
]G. धूसरमर्कः; धूसरताभीता इवार्क.
[^
]G. सीकरनिकर.
[^
]G. बहलवल.
[^
१०]G. संचरण.
[^
११]G. संताडिता;
ताडिता.
[^
१२]G. पल्वले.