2024-03-30 14:28:21 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२४६
 
कादम्बरी ।
 
[ कथायाम्-
गन्तरेण [^१]चानवरतं क्षरता मै[^२]मदजलधारादुर्दिनेन, कलकले- न च भुवनान्तरव्यापिना
महाप्रलयकाल इव संजज्ञे । बै[^३]बलको- लाहलभीता इव धवलध्वजनिवहनिरन्तरावृता
ययुः काक्वापि दश दिशः । मै[^४]मलिनावनिरजःसंस्पर्शशङ्कितमिव समदगजघटा- वचूलसह..
स्रसंरुद्धमतिदूरमे [^५]मम्बरतलमपससार । [^६]प्रबल- वेत्रिवेत्रलतासमुत्सार्यमाणा इव तुरगखुररजो-
घूँ
[^७]धूसरताभीतार्क-
किरणा मुमुचुः पुरोभागम् । इभकरसीक [^८]रनिर्वापणत्रस्त इवा- तपत्रसंच्छादिता-
तपो दिवसो ननाश । बे[^९]बलभरजर्जरीकृता मदकलकरि [^१०]चरणशतखे [^११]खण्डिता द्वितीयेव प्रयाणभेरी

भैरवं भूमी ररास । गुल्फद्वयसे च तुरङ्गमुख विनिःसृतसितफेन- पल्लविते मदपयसि मदश्रुतां क
 
-
 
[ टि ]--
येनैवंविधेनानवरतं निरन्तरं क्षरता स्रवता मदजलधारा दानवारिधारा तदेव दुर्दिनं मेघजं तमस्तेन । तथा
भुवनान्तरव्यापि- ना विष्टपविवरप्रसरशीलेन । महाप्रलयेऽप्येतद्धर्माणां सद्भावात् । कलकलेन । सैन्येऽपि तद्दर्श-
नादुपमानोपमेयभावः । बलेति । बल- स्य सैन्यस्य यः कोलाहलः कलकलस्तेन भीता इव त्रस्ता इव दश-

संख्याका दिशः ककुभः क्कावाप्यनिर्दिष्टस्थले ययुर्गताः । किंविशिष्टाः । धवलाः श्वेता ये ध्वजनिवहा वैजयन्ती-
गणास्तैर्निरन्तरं सर्वदावृता आच्छादिताः दिग्गमनेऽयमेव हेतुरिति भावः । मलिनेति । मलिनं यदवनि-
रजस्तस्य यः संस्पर्श: संश्लेषस्तस्माच्छङ्कितमिवारेकीकृत- मिवातिदूर मतिद विष्टमम्बरतलं व्योमतलमपससारापसृतं
बभूव । अत्रार्थे हेतुगर्भितं विशेषणमाह - समुदेति । मदेन सह वर्तमाना या गजघटानेकपसमूहस्तस्य अव-
चूलसहस्रं कर्णाभरणसहस्रं तेन संरुद्धं संच्छन्नम् । अत्र गजातिशयत्वं व्यङ्ग्यम् । प्रबलेति । प्रब- लाः प्रकृष्ट-
बलयुक्ता ये वेत्रिणो द्वारपालकास्तेषां वेत्रलता वेतसयष्ट- यस्ताभिः समुत्सार्यमाणा इव दूरीक्रियमाणा इव । तुर-
गेति । तुर- गाणामश्वानां खररजः शफधूलिस्तेन या धूसरतेषत्पाण्डुता तया [^1]भीता इवार्ककिरणाः सूर्यरश्मयः
पुरोभागमभागं मुमुचुस्त- त्यजुः । अनेन तुरङ्गाणां भूयस्त्वं वेगातिशयः खुरनिक्षेपशक्ति विशे- षश्च व्यज्यते ।
इभेति । इभा हस्तिनस्तेषां करसीकरा: झुण्डादण्डो द्गतजलपृषतास्तैर्निर्वापणमपनयनं तेन त्रस्त इव [^2]चकित इव ।

आतपत्रेति । आतपत्रैश्छन्त्रैःत्रै: संच्छादित आतपो रविप्रकाशो यस्मि- न्नेवंभूतो दिवसो ननाश नाशं प्राप्तवान् ।
बलेति । बलभरेण सैन्य- भारेण जर्जरीकृताः श्लथीकृता मदेन कला मनोहरा ये करिणो हस्तिनस्तेषां चरण-
शतमद्भिङ्घ्रिशतं तेन खण्डिता भिन्ना द्वितीयापरा प्रयाणभेरीव प्रस्थानदुन्दुभि [^3]रिवं भैरवं कठोरं भूमिर्वसुधा रास
शब्दं चकार । शब्दविशेषजनकत्वसाम्यादुत्प्रेक्षा । 'रस शब्दे' इति धातोर्लिंलिटि रूपम् । मदेति । मदतां
दानवारि क्षरतां करिणां गजा- नां मदपयसि पदे पदे पदातयः पत्तयः प्रचस्खलुः प्रस्खलनं प्रापुः । अथ
मदपयो विशिनष्टि–गुल्फ [^4]द्वैयसे चरणग्रन्थिपरिमिते । अत्र प्रमाणे द्वयसच् । तुरङ्गेति । तुरङ्गमुखेभ्योऽश्वव-
टिप्प० -

 
[^
1]F. 'समुत्सार्माणा इव' इति पूर्वमुत्प्रेश्चिक्षितत्वात्पुनरियमुक्ति- रज्ञानमेव । तस्मात् 'रजोधूसर-
मर्ककिरणाः' इत्येव पाठः । वेत्रलतासमुत्सार्यमाणा इव रजोधूसरं पुरोभागम् (अर्ककिरणाः ) मुमुचुः ।
अर्ककिरणेषु अपसार्यमाणस्त्वरूपक्रियाया उत्प्रेक्षा । किञ्च परित्यागे तुरङ्गखुररजोधूसरपदस्यार्थी हेतुरिति
पदार्थहेतुकं काव्य लिङ्गं च । कार्येण अर्ककिरणेषु राजपुरोभागपरित्यागरूपसाधा- रणजन व्यवहारसमा-

रोपात् समासोक्तिरिति त्रयाणामेषामङ्गाङ्गिभावसंकरः ।
[^
2]F. भीत इव । जलबिन्दुभिर्यथा वह्नर्निर्वापणं

तथा दिवसेऽपि संभावनमित्युत्प्रेक्षा । अत्रापि दिवसनाशे आतपत्राच्छादनं पदार्थो हेतुरिति पदार्थहेतु कं

काव्यलिङ्गम् । दिवसे अदृश्यमानताया असंबन्धेपि संबन्धोक्तेरतिशयोक्तिरिति त्रयाणामङ्गाङ्गितया संकरः ।

[^
3]F. भूमौ भेरीस्वरूपस्योत्प्रेक्षा । अत्रापि शब्दकरणे बलभर० मदकल० इत्यादि विशेषणद्वयार्थी हेतुरिति

काण्यलिङ्गं चेत्यङ्गाङ्गिभावसंकरः ।
[^
4]F. गुल्फद्वयसत्वस्यासंबन्धेपि संबन्धवर्णनादतिशयोक्तिः ।
 

 
पाठा०-१ अनवरत २ गजमद. ३ बलहबल; वहलबल ४ मलिनीकृतमिव ५ अम्बरम् ६ प्रचलितवेत्र;

प्रचुरत्र. ७ धूसरमर्कः; धूसरताभीता इवार्क० ८ सीकरनिकर. ९ बहलवल. १० संचरण. ११ संताडिता;

ताडिता. १२ पवले.