कादम्बरी /279
This page has not been fully proofread.
२४६
कादम्बरी ।
[ कथायाम्-
गन्तरेण चानवरतं क्षरता मैदजलधारादुर्दिनेन, कलकलेन च भुवनान्तरव्यापिना
महाप्रलयकाल इव संजज्ञे । बैलकोलाहलभीता इव धवलध्वजनिवहनिरन्तरावृता
ययुः कापि दश दिशः । मैलिनावनिरजःसंस्पर्शशङ्कितमिव समदगजघटावचूलसह..
स्रसंरुद्धमतिदूरमेम्बरतलमपससार । प्रबल वेत्रिवेत्रलतासमुत्सार्यमाणा इव तुरगखुररजो-
घूँसरताभीतार्ककिरणा मुमुचुः पुरोभागम् । इभकरसीकर निर्वापणत्रस्त इवातपत्रसंच्छादिता-
तपो दिवसो ननाश । बेलभरजर्जरीकृता मदकलकरिचरणशतखेण्डिता द्वितीयेव प्रयाणभेरी
भैरवं भूमी ररास । गुल्फद्वयसे च तुरङ्गमुख विनिःसृतसितफेनपल्लविते मदपयसि मदश्रुतां क
येनैवंविधेनानवरतं निरन्तरं क्षरता स्रवता मदजलधारा दानवारिधारा तदेव दुर्दिनं मेघजं तमस्तेन । तथा
भुवनान्तरव्यापिना विष्टपविवरप्रसरशीलेन । महाप्रलयेऽप्येतद्धर्माणां सद्भावात् । कलकलेन । सैन्येऽपि तद्दर्श-
नादुपमानोपमेयभावः । बलेति । बलस्य सैन्यस्य यः कोलाहलः कलकलस्तेन भीता इव त्रस्ता इव दश-
संख्याका दिशः ककुभः क्काप्यनिर्दिष्टस्थले ययुर्गताः । किंविशिष्टाः । धवलाः श्वेता ये ध्वजनिवहा वैजयन्ती-
गणास्तैर्निरन्तरं सर्वदावृता आच्छादिताः दिग्गमनेऽयमेव हेतुरिति भावः । मलिनेति । मलिनं यदवनि-
रजस्तस्य यः संस्पर्श: संश्लेषस्तस्माच्छङ्कितमिवारेकीकृतमिवातिदूर मतिद विष्टमम्बरतलं व्योमतलमपससारापसृतं
बभूव । अत्रार्थे हेतुगर्भितं विशेषणमाह - समुदेति । मदेन सह वर्तमाना या गजघटानेकपसमूहस्तस्य अव-
चूलसहस्रं कर्णाभरणसहस्रं तेन संरुद्धं संच्छन्नम् । अत्र गजातिशयत्वं व्यङ्ग्यम् । प्रबलेति । प्रबलाः प्रकृष्ट-
बलयुक्ता ये वेत्रिणो द्वारपालकास्तेषां वेत्रलता वेतसयष्टयस्ताभिः समुत्सार्यमाणा इव दूरीक्रियमाणा इव । तुर-
गेति । तुरगाणामश्वानां खररजः शफधूलिस्तेन या धूसरतेषत्पाण्डुता तया भीता इवार्ककिरणाः सूर्यरश्मयः
पुरोभागमभागं मुमुचुस्तत्यजुः । अनेन तुरङ्गाणां भूयस्त्वं वेगातिशयः खुरनिक्षेपशक्ति विशेषश्च व्यज्यते ।
इभेति । इभा हस्तिनस्तेषां करसीकरा: झुण्डादण्डोद्गतजलपृषतास्तैर्निर्वापणमपनयनं तेन त्रस्त इव चकित इव ।
आतपत्रेति । आतपत्रैश्छन्त्रैः संच्छादित आतपो रविप्रकाशो यस्मिन्नेवभूतो दिवसो ननाश नाशं प्राप्तवान् ।
बलेति । बलभरेण सैन्यभारेण जर्जरीकृताः श्लथीकृता मदेन कला मनोहरा ये करिणो हस्तिनस्तेषां चरण-
शतमद्भिशतं तेन खण्डिता भिन्ना द्वितीयापरा प्रयाणभेरीव प्रस्थानदुन्दुभिरिवं भैरवं कठोरं भूमिर्वसुधा रास
शब्दं चकार । शब्दविशेषजनकत्वसाम्यादुत्प्रेक्षा । 'रस शब्दे' इति धातोर्लिंटि रूपम् । मदेति । मदतां
दानवारि क्षरतां करिणां गजानां मदपयसि पदे पदे पदातयः पत्तयः प्रचस्खलुः प्रस्खलनं प्रापुः । अथ
मदपयो विशिनष्टि–गुल्फद्वैयसे चरणग्रन्थिपरिमिते । अत्र प्रमाणे द्वयसच् । तुरङ्गेति । तुरङ्गमुखेभ्योऽश्वव-
टिप्प० - 1 'समुत्सार्थमाणा इव' इति पूर्वमुत्प्रेश्चितत्वात्पुनरियमुक्तिरज्ञानमेव । तस्मात् 'रजोधूसर-
मर्ककिरणाः' इत्येव पाठः । वेत्रलतासमुत्सार्यमाणा इव रजोधूसरं पुरोभागम् (अर्ककिरणाः ) मुमुचुः ।
अर्ककिरणेषु अपसार्यमाणस्वरूपक्रियाया उत्प्रेक्षा । किञ्च परित्यागे तुरङ्गखुररजोधूसरपदस्यार्थी हेतुरिति
पदार्थहेतुकं काव्यलिङ्गं च । कार्येण अर्ककिरणेषु राजपुरोभागपरित्यागरूपसाधारणजन व्यवहारसमा-
रोपात् समासोक्तिरिति त्रयाणामेषामङ्गाङ्गिभावसंकरः । 2 भीत इव । जलबिन्दुभिर्यथा वह्नर्निर्वापणं
तथा दिवसेऽपि संभावनमित्युत्प्रेक्षा । अत्रापि दिवसनाशे आतपत्राच्छादनं पदार्थो हेतुरिति पदार्थहेतु कं
काव्यलिङ्गम् । दिवसे अदृश्यमानताया असंबन्धेपि संबन्धोक्तेरतिशयोक्तिरिति त्रयाणामङ्गाङ्गितया संकरः ।
3 भूमौ भेरीस्वरूपस्योत्प्रेक्षा । अत्रापि शब्दकरणे बलभर० मदकल० इत्यादि विशेषणद्वयार्थी हेतुरिति
काण्यलिङ्गं चेत्यङ्गाङ्गिभावसंकरः । 4 गुल्फद्वयसत्वस्यासंबन्धेपि संबन्धवर्णनादतिशयोक्तिः ।
पाठा०-१ अनवरत २ गजमद. ३ बलहबल; वहलबल ४ मलिनीकृतमिव ५ अम्बरम् ६ प्रचलितवेत्र;
प्रचुरत्र. ७ धूसरमर्कः; धूसरताभीता इवार्क० ८ सीकरनिकर. ९ बहलवल. १० संचरण. ११ संताडिता;
ताडिता. १२ पवले.