2024-03-30 13:53:45 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
दिग्विजयप्रस्थानम् [^१]
पूर्वभागः ।
क्रियन्ते दश दिशः । धवलान्यपि विविधमणिनिकर कल्माषै- रुत्सर्पिभिचूडामणिमरी-
चिभिर्मायूराणीव [^२]राजन्ते राज्ञामात- पत्राणि । क्षणेन च तुरगमयमिव महीतलम्,
कुञ्जरमयमिव दिक्च- क्रवालम्, आतपत्रमण्डलमयमिवान्तरिक्षम्, ध्वजवनमयमिवा-
म्बरतलम्- तलम्, इभमदगन्धमय इव समीरणः, भूपालमयीव प्रजासृष्टिः आभ रणांशुमयीव
दृष्टि:, किरीटमय इव [^४]दिवसः, जयशब्दमयमिकव त्रिभुवनमभवत् ।
,
१
सर्वतश्च कुलपर्वताकारैः प्रचलद्भिर्मत्तवारणैः, उत्पातचन्द्रमण्डल- निभैश्च [^५]प्रेमङ्खद्भिरातपत्रैः,
संवर्तकाम्भोदगम्भीरभीमनादेन च ध्वनता दुन्दुभिना, तारकावर्षसदृशेन विसर्पता
गजसीकरनिकरेण, धूमकेतु धूसरैश्चोल्लसद्भिरवनिरजोदण्डकैः, निर्घातपातपरुषगम्भी- रघो-
पैषैश्च करिकण्ठगर्जितैः, क्षतजकणवर्षबभ्रुणा च भ्रमता मतङ्ग- जकुम्भसिन्दूररेणुना,
संक्षुभितजलधिजलकल्लोलचञ्चलाभिश्च [^६]प्रविसर्पन्तीभिस्तुर [^७]ङ्गममालाभिः, अन्धकारितदि-
२४५
J
[ टि ]-- न्यपि श्वेतान्यप्यातपत्राणि । विविधधेति । विविधानामनेक- प्रकाराणां मणीनां निकराः समूहास्तैः कल्माषैः
शबलैरुत्सर्पिभिः प्रसरद्भिश्चूडामणिमरीचिभिः शिरोमणिकान्तिभिर्मायूराणीव मयूर- पिच्छनिर्मितानीव
[^1]राजेजन्ते शोभन्ते । क्षणेन समयमात्रेणैता- दृशमभवदजायत । तदेवाह - तुरगेति । तुरगा अश्वास्तन्मयमिव
महीतलं पृथ्वीतलम् । कुञ्जरा हस्तिनस्तन्मयमिव दिक्ककचक्रवालं ककुभां मण्डलम् । आतपत्राणि छत्राणि तेषां
मण्डलं तन्मयमिवा- न्तरिक्षमाकाशम् । ध्वजा वैजयन्त्यस्ता एव वनमरण्यं तन्मयमिवा- म्बरतलमाकाशतलम् ।
इभा हस्तिनस्तेषां मदगन्धो दानवारिपरि- मलस्तन्मय इव समीरणो वायुः । भूपाला राजानस्तन्मयीव प्रजा
सृष्टिः प्रकृतिसृष्टिः । आभरणानि तेषामंशवः किरणास्तन्मयीव दृष्टिश्चक्षुः । किरीटानि कोटीरॉ [^2]राणि तन्मय
इव दिवसो वासरः । जयशब्दो मागधानां शुभसूचकः शब्दस्तन्मयमिव त्रिभुवनं त्रिविष्टपम् । सर्वतश्च
वक्ष्यमाणेन प्रकारेण महाप्रलयकाल इव कल्पान्तसमय इव संजज्ञे समभूत् । तदेव दर्शयन्नाह – कुलपर्व-
तेति । सर्वतः सर्वदिक्षु प्रचलद्भिर्गच्छद्भिर्मत्तवारणैर्मदकलैर्हस्तिभिः । कीदृशैः । कुलपर्वताः सप्तकुलाचला.
स्तद्वदाकार आकृतिर्येषां तैः । अत्युच्चत्वसाम्यात्कल्पान्ते कुलाचलानामपि चलनसद्भावाच्च समग्र साम्यमिति
भावः । तथा । उत्पातेति । उत्पातकाले बहूनि चन्द्रमण्डलानि भवन्ति क्षतजकणवर्षाश्चेत्यत आह - तत्स
मयेति । तत्समयवतींनि यानि चन्द्रमण्डलानि शशिमण्डलानि तन्नि भैस्तत्स- दृशैरेवंविधैः प्रेङ्खद्भिः प्रच-
लद्भिरातपत्रैरश्छत्रैश्च । तथा संवर्तका- म्भोदो लोकक्षयकारी मेघस्तद्वद्गम्भीरो भीमश्च नादो यस्यैवंविधेन
ध्वनता शब्दं कुर्वता दुन्दुभिना पटहेन च । तथा तारकावर्षो नक्षत्र- वृष्टिस्तत्सदृशेन तदनुकारिणा विसर्पता.
प्रसरणशीलेन गजानां हस्तिनां सीकरनिकरेण शुण्डानिःसृतजल पृषत्समूहेन । तथा धूमकेतुर्ग्रहविशेषस्तद्वद्धूसरैर्धू-
स्म्रैरुल्लसद्भिरुल्लासं गच्छद्भिरव- निरजोदण्डकैरवनेर्वसुंधराया रजोदण्डैर्धूलिदण्डैः । आयतत्व- वर्तुलत्वाभ्यां दण्डसा-
म्यम् । निर्घातो वज्रं तस्य पातः पतनं तद्वत्प- रुषः कठोरो गम्भीरो बहुकालस्थायी घोषः शब्दो येषामेवंविधैः
करिकण्ठगर्जितैर्गजशब्दैश्च । क्षतर्जजं रुधिरं तस्य कणा बिन्दवस्तेषां वर्षो वृष्टिस्तद्वद्वभुबभ्रुणा कडारेण मत-
ङ्गजा हस्तिनस्तेषां कुम्भाः शिरसः पिण्डास्तेषां यः सिन्दूररेणुर्नागजधूलिस्तेन भ्रमता प्रसर्पता च । तथा
संक्षुभितः क्षोभं प्राप्तो यो जलधिः समुद्रस्तस्य जलं पानी- यं तस्य कल्लोलास्तरङ्गास्त द्वञ्द्वच्चञ्चलाभिस्तरलाभिः
प्रविसर्पन्तीभिः प्रकर्षेण विस्तारं प्राप्नुवती भिस्तुरङ्गममालाभिः । तथान्धकारितं संजातान्धक कारं दिगन्तरं
टिप्प० -
[^1 भ]F. अराजन्त इत्येव पाठः, भूतकालक्रियया 'त्रिभुवनमभवत्' इत्यनया सह सामञ्जस्यात् ।
[^2]F. 'चामरमय इव' इत्येव ग्रन्थोचितः पाठः । ऊर्ध्वं प्रस्फुर- द्भिश्राचामरैरेव दिवसस्य तन्मयतौचित्यात् ।
पाठा०-
-
[^१]G. अक्रियन्त .
[^२]G. अरज्यन्त .
[^३]G. वृष्टि: .
[^४]G. आतपः; चामरमय इव दिवस .
[^५]G. शतसितातपत्रैः .
[^६]G. विस
र्पन्तीभिः, .
[^७]G. तुरङ्ग.